पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म् ५] . मिताक्षरासहेिता ४४५ अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तंमाह अभिशस्तो मृषा कृच्छू चरेदाग्रेयमेव वा । निर्वपेतु पुरोडाशं वायव्यं पशुमेव वा ।। २८६ ।। यः पुनर्मिथ्याभिशस्तः स कृच्छू प्राजापत्यं चरेत् । अदैिवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसेिष्टन ‘मासमब्भक्षणमुक्त मेतेनैवाभिशस्तो व्याख्यात ’ इति, तदभिशस्तस्यैव किंचित्कालमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् । ‘संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेक दर्शनात् । यत्तु पैठीनसेिनोक्तम्—‘अनृतेनाभिशस्यमानः कृच्छं चरेन्मासं पातकेषु महापातकेषु द्विमासम्’ इति तदपेि वासिष्ठेन समानविषयम् । यत्तु बौधायनेनोक्तम्-‘पातकाभिशंसिने कृच्छूस्तदर्धमभिशस्तस्य’ इति, तदुपपा तकादिविषयं अशक्तविषयं वा । एवमन्येषामप्युच्चावचप्रायश्चित्तानामभिशस्त विषयाणां कालशाक्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११॥२००) षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्कानाँ विशोधनम् ।।' इति । अपाङ्कानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिश स्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीय निषिद्धाचवरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदृष्टानामेिवेति न विरोधः ॥ २८६ ॥ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् । किंच । यस्तु नियोगं विना भ्रातुज्यैष्ठस्य कनिष्ठस्य वा भार्या गच्छति स चान्द्रायणं चरेत् । एतच सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवचनम्-- परिवेित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्यामनियुक्ती गच्छंस्तदेव कनिष्ठभार्या च' इति, तत्कामकारविषयम् त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुद्धयति ।। २८७ ।। किंचाह । यः पुनरुदक्याँ रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोष्यान्ते घृतं प्राश्य विशुद्धयति । इदमकामतः सकृद्भमनविषयम् । तत्रैवाभ्यासे ‘रजस्वला गमने ससरात्रम्’ इति शातातपेनोत्तं द्रष्टव्यम् । कामतः सकृद्वमनेऽप्ये तदेव । यत्तु बृहत्संवर्तनोक्तम्--'रजस्वलां तु यो गच्छेद्भर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छू विशोधनम् ॥” इति, तत्कामतोऽभ्यासविष यम् । यत्पुनः शङ्गेन त्रिवार्षिकमुक्तम्--‘पादस्तु शूद्रहत्यायामुदक्यागमने तथा” इति, तत्कामतोऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रज स्वलादिस्पर्श प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथाच बृहद्वसिष्ठ 'स्पृष्ट रजस्वलेऽन्योन्यं सैवर्णे त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्रानेन १ देवकृतस्यैनसोऽवयजनमसीत्यादिकं शाकलशाखायां सूतं प्रोक्तं तेन मासपर्यन्तं होमः कार्यः. २ सगोत्रं ङ. ३ कामतोऽकामतो वापि ङ