४४२ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः स्वन्तर्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाह परिणीतावत् । नच ‘यस्यास्तु न भवेद्रात न विज्ञायेत वा पिता । नोपयच्छेत. तां प्राज्ञः पुत्रिकाधर्मशङ्कया ।।' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थत्वात्प्रतिपेधस्य व्यङ्गग्यादिप्रतिषेधवत् । दृष्टार्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं अपितु धर्मार्थमपि अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थ पुत्रिकापरिणयने को विरोधः । प्रपतिं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्या गम्यागमनानन्तरीयकत्वान्न पृथङ् नैमित्तिकं प्रयोक्तव्यमिति सुछूक्तम् ॥ २८० ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह भैक्षाग्विकायें त्यक्त्वा तु सप्तरात्रमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ।। २८१ ॥ उपस्थानं ततः कुर्यात्संमा सिञ्चन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं ससरात्रं भैक्षमग्निकार्य वा त्यजति असैौ ‘कामावकीर्णोऽस्म्यवकीणोऽस्मि कामकामाय स्वाहा । कामावपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहा' । इत्येताभ्यां मत्राभ्यामाहुती हुत्वा “संमा सिंचन्तु मरुत समिन्द्रः संबृहस्पतिः । सैमायमझिः सिंचन्तां यशसा ब्रह्मवर्चसेन ॥’ इत्यनेन मत्रेणाप्तिमुपतिष्ठेत् । एतच्च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्वव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा (२॥१८७) ‘अकृत्वा भैक्षचरणमस मिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' इति मानवं द्रष्ट व्यम् ॥ यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तमुक्तम्—‘मनोन्नतपतीभिश्चतस्र आज्याहुतीर्डत्वा पुनर्यथार्थ प्रतीयादसद्वैक्षभोजनेऽभ्युदितेऽभिनिर्मुक्त वान्ते दिवा स्वमे नझखीदर्शने नझस्वापे श्मशानमाक्रम्य हेयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादझिसमेिन्धने स्थावरसरीसृपादीनां वभे यद्देवादेवहेळनमिति कूष्माण्डीभिरराज्यं जुहुयात् मणिवैसोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्त्रं जपेत्’ इति । मनोव्रतपतीभिरिति मनोज्योतिरित्यादिमनोलिङ्गाभिस्त्वमझे ब्रतपा असीत्यादिवतलिङ्गाभिरित्यर्थः । यथार्थ प्रतीयादिति उपनयनोक्तमार्गेण सम ब्रकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु–‘ब्रह्मसूत्रं विना भुझे विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्त्रेण प्राणायामेन शुद्धयति ॥' इति मरीच्यु तं द्रष्टव्यम् ॥ २८१ मधुमांसाशने कार्यः कृच्छः शेषव्रतानि च ॥ २८२ ।। प्रतिकूलं गुरोः कृत्वा प्रसाछैव विशुद्धयति । १ समायमद्भिः ख. २ हयादीनारुह्य ख. ३ वासोगृहादीनां ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६६
दिखावट