पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । किंच । ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छुः कार्यः । तदनन्तरमव शिष्टानि व्रतानि समापयेत् । एतच्च शिष्टभोजनार्हशशादिमांसभक्षणविषयम् । ब्रह्मचारी चेन्मांसमश्श्रीयाच्छिष्टभोजनीयं कृच्छ् द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्’ इति वसिष्ठस्मरणातू । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षया तिकृच्छ्पराकादेरपि प्राप्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस्तदा माँसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । ‘स चेब्द्याधितः कामं गुरोरुच्छिष्टं भैषज्यार्थ सर्व प्राश्नीयात्’ इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तद्भक्षणेन चापगतव्याधिरादित्यमुपतिष्ठत । तथाच बौधायनः–“येनेच्छेत्तु चिकित्सितुं स यदाऽगदो भवति तदोत्थायादित्यमुपतिष्ठत हंसः शुचिषत्’ इति । मधुनोऽप्यज्ञानतः प्राशनोपपत्तौ न दोष । ‘अकामोपनतं मधु वाजसनेयके न दुष्यति’ इति वसिष्ठस्मरणातू । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं त्वभक्ष्यप्राय श्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पादप्रणि पातादिना गुरुं प्रसाद्य विशुद्धयति ॥ २८२ ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादुरोरपि प्रायश्चित्तमाह कृच्छ्त्र यं गुरुः कुर्यान्म्रियते प्रहितो यदि ।। २८३ ।। यस्तु गुरुचैरोरगाव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथा वसरे कार्यार्थ शिष्यं प्रेरयति स च गुरुणा प्रेरितो दैवान्मृतस्तदा स गुरुः कृच्छूाणां प्राजापत्यादीनां त्रयं कुर्यात् । न पुनस्त्रयः प्राजापत्याः । तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । नच ‘एकादश प्रयाजान्यजति' इतिवदा वृत्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्यावृत्यपेक्षाया अन्या यत्वात् । यदियमुत्पन्नागता संख्या स्यात्तदा स्यादपि कथंचिदावृत्यपेक्षा । किंतूत्पत्तिगतेयं, अतस्तिस्र आज्याहुतीर्जुहोतीतिवत्स्वरूपपृथक्त्वापेक्षयैव त्रित्व सख्याघटना युक्ता ॥ २८३ ॥ सकलहिंसाप्रायश्चित्तापवादमाह क्रियमाणोपकारे तु मृते विप्रे न पातकम् । [विपाके गोवृषाणां तु भेषजाग्रिक्रियासु च ।।] आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण उप कारे यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अतएव ‘यत्रणे गैोचिकित्साथै गूढगर्भविमोचने । यले कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवतछैरुक्तम् । एतच प्रपञ्चितं प्राकू ॥ १ पृथङ्गिवेशिनी ख. २ इदमर्ध ङ. पुस्तके एवाधिकमस्ति. ३ गोश्चिकित्सार्थे ख