४३२ [ प्रायश्चित्ताध्यायः मानवेऽभिधानात् । दानतपसोश्च शक्तयपेक्षया व्यवस्था । ईषदृत्तस्थयोस्तु विट्शूद्रयोः (११।१२६)–‘तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥’ इति मनूत्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकमुच्यते । ‘गुरु यूजा घृणा शौचवं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं हितानां च तत्सर्वं वृत्तमुच्यते ॥ इति मनुस्मरणात् । यतु वृद्धहारीतवचनम्-‘ब्राह्मणः क्षत्रियं हत्वा षङ्क घर्षाणि बतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजाः ॥ शूदं हत्वा चरेद्वर्ष वृषभैकादशाश्च गाः ॥' इति तत्कामकारविषयम् ॥ श्रोत्रियक्षत्रियादिवधे तु तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि बतम् । अर्ध वैश्यवधे कुर्यात्तुरीयं वृषलस्य तु ॥’ इति वृद्धहारीतोत्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्–‘ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि बतं चरेत् षड् वैश्यं त्रीणि शूदम्’ इति तदपि हारीतीयेन समानविषयम् । क्षत्रिये त्वीषदुणन्यून इत्येतावान् विशेपः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा पूर्वयोर्वर्णयो'य वेदाध्यायिनं हत्वे'लयापस्तम्बोतैः द्वादशवार्षिकं दृष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादी व्यापादिते ‘याग स्थक्षत्रवेिङ्काती चरेब्रह्महणि बतम्’ इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रि यादौ ब्राह्मणस्य राजन्यवधे षङ्गार्षिकं प्राकृतं ब्रह्मचर्यमृष्पभैकसहस्राश्च गा दद्यात् वेइयवधे त्रिवार्षिकमृषभेकशताश्च गा दद्यातू, शशूद्रवधे सांवत्सरिकमृषभैका दृशाश्च गा दद्यादिति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतचामति पूर्वविषयम् । पूर्ववदमतिपूर्व चतुषु वणेपु प्रमाप्य द्वादश षट् त्रीन् संवत्सरं च ब्रतान्यादिशेत् तेषामन्ते गोसहस्त्रं च ततोऽर्ध तस्यार्धमर्ध च दद्यात् सर्वेषामानु पूब्र्येणेति शङ्खस्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयमेव किंचिन्नयूनगुणे क्षत्रिये गुणाधिकयोवैश्यशूद्रयोश्च द्रष्टव्यम् । खीशूद्रविट्क्षत्रवध इत्युपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावादुपपातकसामान्यप्रासा न्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वेत्तक्षत्रियादो कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगीश्वरोत्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासेिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतञ्च व्रतजातं ब्राह्मणकर्तृके क्षत्रियादि प्रागुक्तं वधे द्रष्टव्यम् । (११।१२७)–“अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । तथा ब्राह्मणराजन्यवधे षङ्कार्षिकं तथा ॥ ब्राह्मणः क्षत्रियं हत्वे'त्यादिषु मनु गौतमहारीतवसिष्ठवाक्येषु ब्राह्मणग्रहणात्क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पाद न्यूनं द्रष्टव्यम् –‘विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेक: पादस्तु शूद्रजातिषु शस्यते ॥’ इति वृद्धविष्णुस्मरणात् । ‘यत्तु पर्षद्या ब्राह्म णानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वश्च वतं स्मृतम् ॥ इंत्यङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे । १ बृहद्धारीतोत्तं ङ
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५६
दिखावट