सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः यदि । स हि बालेयन पशुना यजेत्तन्निष्क्रयाय तु ॥’ इति । एकाझेरपि विशेषसे. नैवोक्तः–‘कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोऽपि वा। ॥’ इति । अनाहिताझिता ॥ (विक्रये यङ्कतं प्रोक्तं हरणे द्विगुणं हि तत् । सुराविक्रये सोम्ये चतुष्टयं लाक्षा लवणमांसमध्वाज्यतिलहोमानां चान्द्रायणत्रयं पयःपायसापूपदधीक्षुरसगुड खण्डादित्रेहपकादिषु पराकः । सिद्धान्नविक्रये प्राजापत्यं। पनसस्य त्रिदिनं । कदली नारिकेरजम्बीरबीजपूरकनारङ्गानां पाद्कृच्छू । कस्तूरिकाविक्रये गन्धानां च कृच्छ् कपूरेऽर्ध हिंग्वादिविक्रये दिनमुपवासः । शुक्लकृष्णपीतवस्रविक्रये त्रिदिनं । अजाना मैन्दवं । खराश्वतरकरभाणां पराकः । शुनां द्विगुणं । एकाहाद्वेदविक्रये चान् । अङ्गानां पराकः । स्मृतीनां कृच्छ् । इतिहासपुराणानां सांतपनं । रहस्यानां कृच्छू । गाथानां शिशिरातत्वविद्यानां पादं ।) तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्राय श्चित्तविशेष उक्तः । यथाह हारीतः-गुडतिलपुष्पमूलफलपकान्नविक्रये सोम पार्न सौम्यः कृच्छूः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससा मन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेशकेसरिभूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमाँसखाय्वस्थिशङ्गनखशुक्तिविक्रये तप्तकृच्छूः । हिडुगुग्गुलुहरिताल मनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तसकृच्छूः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिपवणस्नाय्यधःशायी चतुर्थकाला हारो दशसहस्त्रं जपन्संवत्सरेण पूतो भवति । हीनमानोन्मानसंकरसंकीर्णविक्रये चेति । एवमन्यैरपि शङ्गविष्ण्वाद्युक्तवचनैर्यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रानापादि मानवमुपपातकसाधारणतः प्रासं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं बतचतु शुष्टयं शक्यपेक्षया योज्यम् ॥ इति अपण्यविक्रयः ॥ तथा परिवेत्तरि च वसिष्ठन प्रायश्चित्तविशेष उक्त –‘परिविवेिदानः कृच्छूतिकृच्छ्शे चरित्वा तस्म दत्त्वा पुनर्निविशेत तां चैवापयच्छेत’ इति । परिविविदानः परिवेत्तीच्यते । तत्स्वरूपं च प्राग् व्याख्यातम् । असै कृच्छातिकृच्छ चरित्वा तस्य ज्येष्ठाय तां स्वोढां दृत्वा ब्रह्मचर्याहृतभैक्षवदुरुपरिभवपरिहारार्थे निवेद्य पुनरुद्वहेत् । कामेित्यपेक्षा यामुत्तं तामेवोपयच्छेतेति । तामेव स्वोढां ज्येष्ठाय निवेदितां तेन चानुज्ञाता मुद्वहेत् । यत्तु हारीतेनोक्तम्—‘ज्येष्ठेऽनिविष्ट कनीयान्निविशमानः परिवेत्ता भवति परिवित्तिज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस्ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छेण पावयेयुः' इति । यदपि शङ्गेनोक्तम्

  • परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम् ’ इति तदुभय

मपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तो कृच्छ्रातिकृच्छेो याज्ञवल्क्यीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेना प्यत्र विशेष उक्तः–‘कृच्छूौ द्वयोः पारिवेद्ये कन्यायाः कृच्छू एव च । अति च्छं चरेद्दाता होता चान्द्रायणं चरेत् ॥’ इति । एतच पर्याहिताझ्यादीनामपि १ इतिगपुस्तकेऽधिकम्. २ मानोन्नतसंकीर्ण ड