सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० याज्ञवल्क्यस्मृतेिः । [प्रायश्चित्ताध्या यः छेदयित्वा तु ततः शुद्धयेत्स किल्बिषात् ॥' इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् । ‘पुनः शूद्रां गुरोर्गत्वा बुद्धया विप्रः समाहितः। ब्रह्मचर्यमदुष्टात्मा संचरेद्वादशाब्दिकम् ॥’ इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तंत्रैवार्षिकमष्टमकालाशनं द्रष्टव्यम् । ‘कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा वती । स्थानासनाभ्यां विहरंस्त्रिरहोऽभ्युपयन्नपः । अधःशायी त्रिभिर्वर्षेस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकण्यत्तं ‘गुरोः क्षत्रसुतां भार्या पुनर्गत्वा त्वकामत । अण्डमात्रं समुत्कृत्य शुद्धयेजी. वन्मृतोऽपि वा । ॥' इति । वैश्यायां त्वकामतो गमने प्राजापत्यं चरेत्कृच्छूमित्ये तदेव याज्ञवल्क्यीयम् । तथाच वृद्धमनुः–“गमने गुरुभार्यायाः पितृभार्या गमे तथा । अब्दत्रयमकामातु कृच्छं नित्यं समाचरेत् ।।' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम्–‘अभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमो हितः । षडङ्गं ब्रह्मचर्य च स चरेद्यावदायुषम् ॥’ इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् (११।१०५)-‘खट्टाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छूमन्दमेवकं समाहित ॥’ इति । अथवा ‘गुरुदारा भिगामी संवत्सरं कण्टकिनीं शाख परिष्वज्याधःशायी त्रिषवणी भेक्षाहार पूतो भवति' इति सुमन्तूत्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६)

  • चान्द्रायणं चा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृ

त्तस्य रेतःसेकादर्वाङ्गिवृत्तौ व्याघ्रोक्तम्-कृच्छं चैवातिकृच्छू च तथा कृच्छूति कृच्छूकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥” इति । अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृ च्छ्चरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छातिकृच्छूानुष्ठानं च तावदे वेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्पूर्व कण्वोत्तं द्रष्टव्यम्--'चान्द्रायणं तसकृच्छूमतिकृच्छू तथैव च । सकृद्भत्वा गुरोर्भयमज्ञानात्क्षत्रियां द्विजः ।।' इति । तया प्रोत्साहितस्यातिकृच्छूः । उभयेच्छातः प्रवृत्तस्य तसकृच्छूः । स्वेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात्पूर्व निवृत्तौ वोक्तम्—‘तप्तकृच्छं पराकं च तथा सान्तपनं गुरोः । भार्या वैश्यां सकृद्वत्वा बुद्या मासं चरेद्विजः ॥’ इति अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छूः । प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् ॥ अत्रेवाका मतः प्रवृत्तस्य प्रजापतिराह–“पञ्चरात्रं तु नाश्क्षीयात्सप्ताष्टौ वा तथैव च । वैश्यां भार्या गुरोर्गत्वा सकृदज्ञानतो द्विजः ॥’ इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्ट रात्रम् ॥ शूद्रायां तु कामतः प्रवृत्तस्य रेतःसेकात्पूर्व निवृत्तौ जाबालेि राह-“अतिकृच्छू तप्तकृच्छू पराकं वा तथैव च। । गुरोः शूद्रां सकृद्वत्वा बुद्धया विप्रः समाचरेत् ॥’ इति । तया प्रोत्साहितस्यातिकृच्छूः । उभयेच्छातः प्रवृत्तैौ तप्तकृच्छूः । खेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घ तमसम्-‘प्राजापत्यं सान्तपनं सप्सरात्रोपवासकम् । गुरोः शूद्रां सकृद्वत्वा