सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । प्रायश्चित्तम् । स्वेन प्रोत्साहने तु ‘गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् । अनु बन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवै तस लोहशयनज्वलत्सूम्र्यालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्गेन द्वादशवार्षिक मुक्तम्—‘अधःशायी जटाधारी पर्णमूलफलाशन । एककालं सेमश्क्षीत वर्षे तुः द्वादशे गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पग । व्रतेनैतेन शुद्धयन्ति महापातकिनस्त्विमे ॥” इति, तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकादर्वाङ्गिवृत्तौ षङ्कार्षिकम् । अकामतस्तु त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्गिवृत्तौ द्वादशवार्षिकम् । अकामतस्तु षङ्कार्षिकमिति कल्प्यम् । यत्तु संवर्तन-‘पितृदारान्समारुह्य मातृ वज्र्य नराधमः’ इत्यादिना समारोहणमात्रे तसकृच्छू उक्तः न हीनवर्णगुरुदारेषु रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥ प्रायश्चित्तान्तरमाह प्राजापत्यं चरेत्कृच्छं समा वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ।। २६० ।। अथवा प्राजापत्य कृच्छं वक्ष्यमाणलक्षण समाः वषेत्रयचरत् । एतच ब्राह्मणी पुत्रस्य शूद्वजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपलीं सवर्णा व्यभिचारिणीमबुद्धिपूर्वं गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं—‘गुरुतल्पाभिगामी संवत्सरं ब्रह्महत्रतं षण्मा सान्वा तप्तकृच्छं चरेत्’ इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्क्यीयै-‘मातुः सपलीं भगिनीमाचार्यतनयाँ तथा’ इति गुरुतल्पत्रतातिदेशान्नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति । तत्र कामतो मरणान्तिक स्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति युक्तम् । तत्रैव कामतोऽभ्यासे भरणान्तिकम् ।–“मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा ‘छित्वा लिङ्गं वधस्तस्य सका मायाः स्त्रियास्तथा’ इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षङ्कार्षिकम् । अतएव स्मृत्यन्तरम्-- ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गामने पादहान्या द्वादशवार्षिकम् । एवमन्य वर्णास्वपि । अयमर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपख्यां गमने पादन्यूनं द्वादशवार्षिकं यावत् । तस्यैव तथाभूतायां वैश्यायां षङ्कार्षिकम् । शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम् । शूद्रायां तु षङ्कार्षिकम् । एवमेव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतोऽभ्यासे मरणान्तिकमेव ।–‘गुरोर्भार्या तु यो वैश्यां मत्या गाच्छेत्पुनः पुनः । लिङ्गाग्रं १ गुरुत्वस्येष्टत्वात् ङ. ४० ९ २ समश्क्षन्वै ङ.