याज्ञवल्क्यस्मृतिः । उत् पकरोति य । तमपीह गुरुं विद्यात्' इत्युपाध्याये । यासेनाप्यन्यत्र प्रयोगो दर्शितः–‘गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्न दाता च' इति । नचानेकार्थकल्पनादोषः । गुरुशब्दस्य प्रवृत्तिनिमित्तभूताया पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण एते मान्या यथापूर्वमेभ्यो माता गरीयसी' इति । मान्या इत्युपक्रम्य गरी यसीत्युपसंहारं कुर्वता । नच (मनुः २॥१४५) “उपाध्यायाद्दशाचार्य आचा यणाँ शतं पिता' इत्युपाध्यायादधिकाचार्यात्पितुरतिशयितत्ववचनात्स एव मुख्य इति वाच्यम् । आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् ! (मनुः २॥१४६)- ‘पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पेिता' इति । गौतमेनाप्युक्तम्—‘आचार्य श्रेष्ठो गुरूणाम्' इति । किंच यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते तर्हि सहस्र मिति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्रीगमनं गुर्वङ्गना गमनमिति युक्तम् । उच्यते । निषेकादीनीति मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम्, अनन्यपरत्वात् । यत्पुनव्योसगोतमवचनं तत्परिचय पूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान्निषेका दीति मनुवचनात्पितुरेव मुख्यं गुरुत्वमिति स्थितम् । अतएव वसिष्ठनाचार्य पुत्रशिष्यभार्यासु चैवमित्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकण्यदिभिरप्युक्तम्—‘आचार्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्’ इत्यादि । आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव ब्रतप्रासेरतिदेशोऽनर्थक एव स्यात् । किंच संवर्तन स्पष्टमेव पितृदारग्रहणं कृतम्–*पितृदारान्समारुह्य मातृवज्र्ये नराधमः ’ इति । षटूत्रिंशन्मतेऽपि—‘पितृभार्या तु विज्ञाय सवर्णा योऽधिगच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः ॥ तच्च गुरुत्व वर्णचतुष्टयेऽप्यविशेि ष्टम् । निषेकादिकर्तृत्वस्याविशेषात् । अतः स विप्रो गुरुरुच्यते इति विप्रग्रहणमुप लक्षणम् । अतः पितृपलीगमनमेव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वाङ्गिवृत्तै न महापातकित्वम् । तत्र चेदं ‘तसेऽयःशयने सार्धमायस्या’ इत्याद्युक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच जनन्यामकामकृते । तत्सपल्यां तु सवर्णायामुत्तमवर्णायां च कामकृते द्रष्टव्यम् । ‘पितृभार्या तु विज्ञाय सवर्णा योऽधिगच्छति । जननीं चाप्यविज्ञाय नामृतः शुद्धिमामुयात् ॥' इति षट्टत्रिंशन्मतेऽभिधानात् । जनन्यां तु कामकृते वासिष्ठं ‘निष्कालको घृता भ्यक्तो गोमयाझिना पादप्रभृत्यात्मानमवदाहयेत्’ इति द्रष्टव्यम् । अकामतोऽभ्या सेऽप्येतदेव ॥ ननु च ‘मातुः सपत्रीं भगिनीमाचार्यतनयां तथा । आचार्यपलीं स्वसुतां गाच्छंस्तु गुरुतल्पगः ॥’ इत्यतिदेशाभिधानान्मातृसपलीगमने त्वौपदे शिकं प्रायश्चित्तमयुक्तम् । उच्यते । पितृभार्या सवर्णामित्यस्मादेव वचनात्स वर्णग्रहणाद्धीनवर्णसपदीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्य सैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः (९॥१८०)–“क्षेत्रजादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥’ इति । तत्रोभयेच्छातः प्रवृत्तौ ‘तसेऽयःशयने' इति प्रथमं [ प्रायश्चित्ताध्यायः
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३४
दिखावट