प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता १ तल्पोऽभिभाष्यैनः ङ तसेऽयःशयने यथा मरणक्षमं भवति तथा तसे अझिवणे कृते काष्णर्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुस्वा ततुं देहं उत्सृजेत् । म्रियेतेति यावत् । शयनं च गुर्वङ्गन्नागमनं मया कृतमित्येवं स्वकर्म विख्याप्य कुर्यात् । (११।१०३)–“गुरुतल्प्यभिभाष्यैनः' इति मनुस्मर णात् । तथा स्त्रियमालिङ्गय कार्यम्–‘गुरुतल्पगो मृन्मयीमायसीं वा स्त्रियः प्रतिकृतिमन्निवर्णा कृत्वा काष्णयसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) तामालिङ्गय पूतो भवति' इति वृद्धहारीतस्मरणात् । तथा मुण्डितलोम केशेन घृताभ्यक्तिन च कर्तव्यम्-‘निष्कालको घृताभ्यक्तस्तसां तां सूर्मी मृन्मयीं वा परिष्वज्य मरणात्पूतो भवतीति विज्ञायते’ इति वसिष्ठस्मरणात् । नच (११॥१०३)-“गुरुतैल्प्यभिभाष्यैनस्तसे स्वप्यादयोमये । सूर्मी ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुद्धयति ॥' इति मनुवाक्यानुरोधेन तप्तलोहशयनं तसलोहयोषिदालिङ्गनं च निरपेक्ष प्रायश्चित्तद्वयमित्याशङ्कनीयम् । आयस्या योषिता स्वपेत् । कुत्रेत्याकाङ्गायां तसेऽयःशयन इति परस्परसापेक्षतयैकत्वावग मादेककल्पत्वमेव युक्तम् ॥ अथवा वृषणैौ सलिङ्गौ स्वयमुत्कृत्य छित्वाञ्जलिना गृहीत्वा नैत्रैत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तमकुटिलगतिर्गत्वा तनु मुत्सृजेत् । यथाह मनुः (११।१०४ )–‘स्वयं वा शिक्षवृषणावुत्कृत्याधाय चाञ्जलैौ । नैत्रैरतीं दिशमातिष्ठेदानिपातादृजिह्मगः ॥' इति । गमनं पृष्ठतोऽनी क्षमाणेन कर्तव्यम् ।-‘क्षुरेण शिक्षवृषणावुत्कृत्यानवेक्षमाणो व्रजेत्’ इति शङ्ख लेिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्ठेत् । ‘सवृषणं शिश्नमुत्कृत्याञ्जलावाधाय दक्षिणाभिमुखो गच्छेद्यत्रैव प्रतिह तस्तत्रैव तिष्ठेदाप्रलयात्’ इति वसिष्ठस्मरणात् । दण्डोऽप्यत्रायमेव । यथाह आसामन्यतमां गच्छन्गुरुतल्पग उच्यते नान्यो दण्डो विधीयते ॥' एवं दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकं दण्डमभिप्रेत्योक्तं मनुना (११॥३१८)-“राज भिधैतदण्डास्तु कृत्वा .पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृ तिनो यथा ॥' इति । धनदण्डेन पुनः प्रायश्चित्तं भवलेयेव (९॥२४०)-‘प्राय श्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्कया राज्ञा ललाटे स्युर्दाप्यास्तू त्तमसाहसम् ॥’ इति तेनैवोक्तत्वात् । अनयोश्च मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्धयेत् । गुरुशब्दश्चात्र मुख्यया वृत्त्या पितरि वर्तते । (२॥१४२)- निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चाज्ञेन स विप्रो गुरु रुच्यते ॥' इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर्जनकयैव गुरुत्वा भिधानात् । योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम् । ‘स गुरुर्यः क्रियां कृत्वा प्रयच्छति' इति । ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते । उपनीय गुरुः शिष्यमित्यादिनाचार्ये (मनुः २॥१४९)-“स्वल्पं वा बहु वा यस्य श्रुतस्यो ।
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३३
दिखावट