सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरास भवेतू । भिक्षा व लोहितकेन मृन्मयखण्डशरावेण ग्राह्या ।–‘लोहेितकेन खण्ड शरावेण ग्रामं भिक्षायै प्रविशेत्’ इति आपस्तम्बस्मरणात् । संसागाराण्येवा ऋमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थं प्रविशेत् ‘ससागाराण्यसंक ल्पितानि चरेद्वैक्षम्’ इति वसिष्ठस्मरणात् । तैथैककाल एव सा ग्राह्या ।

  • एककालाहारः’ इति तेनैवोक्तत्वात् । एतच्च भैक्षं ब्राह्मणादिवणेष्वेव कार्यम्

चातुर्वण्यें चरेदैक्षं खट्टाङ्गी संयतैत्मवान्’ इति संवर्तस्मरणात् । तथा ब्रह्म हास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षां याचेत् ।–‘वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः’ इति पराशरस्मरणात् । अयं च भैक्षाशित्वनियमो वन्यैर्जीवनाशक्तौ द्रष्टव्यः ।–‘भिक्षायै प्रविशेड्रामं वन्यैर्यदि न जीवति' इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुक्तन च तेन भवितव्यम् । खेट्टाङ्गकपाल पाणिद्वादशवत्सरान्ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत्कर्माचक्षाणः । यथोपक्रामेत्स संदर्शनादार्यस्य (उत्थैितस्तु दिवा तिष्ठदुपविष्टस्तथा निशि । एतद्वीरासनं नाम सर्वपापप्रणाशनम् ॥')–‘स्थानेंसनाभ्यां विहरेत्सवनेघूद्कोपस्पर्श शुद्धयेत् इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च “वर्जयेन्मधुमाँसगन्धमाल्यदिवा स्वमाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षनृत्यगीतपरिवाद्नभयानि' इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्यर्थम् । अतएव शङ्खः–“स्थानवीरासनी मौनी मोऽी दण्डकमण्डलु । भिक्षाचर्थाग्निकार्ये च कूष्माण्डीभिः सदा जप ॥ इति । तस्य भवेदिति शेष । अत्र सवनेष्धूदकस्पर्शति खानविधानात्तदङ्गः भूतमत्रादिप्राप्तिरप्यवगम्यते । तथा ‘शुचिना कर्म कर्तव्यमित्यस्य सर्वकर्मसा धारणात्वाद्रतचवर्याङ्गभूतशौचसंपत्यर्थ स्रानवत्संध्योपासनमपि कार्यम् । तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथाच दक्षः–‘संध्याहीनोऽशुचिर्नित्य मनर्हः सर्वकर्मसु । यात्कंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ॥’ इति । नच ‘द्विजातिकर्मभ्यो हानिः पतनम्’ इति वचनातू संध्योपासनायाश्च द्विजातिकर्मत्वा दृप्राप्तिरिति शङ्कनीयम्। यस्मात्पतितस्यैव व्रतचर्योपदेशात्तदङ्गतयैव संध्योपासना द्विप्राप्तिः । अतो द्विजातीनामध्ययनमेिज्या दानं ब्राह्मणस्याधिकाः प्रवचनयाजन प्रतिग्रहाः’ इत्यादीनामेव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर्न सर्वेषाम् । तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्य गौतमा दिप्रतिपादिता द्वादशवार्षिकवतचयैकैव न पुनर्भिन्ना । परस्परसापेक्षत्वाद् विरोधाच्च । तथाहि । भिक्षाशी कर्म वेदयन्नित्युत्ते किं भिक्षापात्रं केषाँ वा गृहेषु कतिषु वेत्याकाङ्गा जायेतैव । तत्र ‘लोहितकेन खण्डशरावेण’ इत्यापस्तम्ब वचनैः परिपूरणमविरुद्धम् । अतः सवैरेककल्पोपदेशात्कैश्चिदुक्तं मनुगौतमा डुद्युक्ततिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति तदनिरूप्यैवोक्तमिति । ए व द्वादशवर्षाणि त्रतचर्यामावत्यै ब्रह्महा शुद्धिमामुयात् । इयं १ ण्येवात्र मृष्टं लभ्यते नात्रेत्येवमसंकल्पितानि ख. २ तथा सायंकाल एव ख. ३ संयत पुमान्क . ४ भिक्षां चरेत् ख. ङ. ५ खट्टाङ्गपाणिः ख. ६ इदं पयं ङ. पुस्तक एवास्ति ७ स्थानाशनाभ्यां ङ. ८ साधारणस्मरणत्वात् ख