प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । १ विषयं यजैहयमिति ख. या० ३५ इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वमन्यकर्तृत्वं च । अत्र च जैह्मयमिति यद्यपि सामान्योनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वान्निमित्त स्यापि गुरुविषयं जैह्मयमिति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगति । यथा यस्योभावझी अनुमतौ स्यातां दुष्टौ भवेतामभि निम्लोचेतां वा पुनराधेयं तत्र प्रायश्चित्तिरित्यत्रोभावित्यस्य निमित्तविशेषेणत्वेन ह्य विरुभयत्वादविवक्षितत्वेऽप्यन्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलादन्नि द्वयानुगतिरेव निमित्तमिति कल्प्यते तथात्रापीति युक्त निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोऽहमित्यनृतभाषणम् । रजस्वलाया (: कामवशेन) वक्रासवसेवनमेतानि सुरापानसमानि ॥ २२९ ॥ सुवर्णस्तेयसमान्याह अश्वरत्रमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्वे हि सुवर्णस्तेयसंमितम् ।। २३० ।। अश्वादीनां ब्राह्मणसंबन्धिनां निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरणमेतत्सर्व सुवर्णस्तेयसमं वेदितव्यम् ॥ २३० ॥ गुरुतल्पसमान्याह सखिभार्याकुमारीषु स्खयोनिष्बन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ।। २३१ ॥ सखा मित्रं तस्य भार्या, कुमार्युत्तमजातीया कन्यका तासु ।–‘सकामास्वनु लोमासु न दोषस्त्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ।।' इति तत्रैव दण्डविशेषप्रतिपादनात्प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर्भगिनी । अन्त्यजा चाण्डाली । सगोत्रा समानगोत्रा । सुतस्री लुषा । एतासां गमनं प्रत्येकं गुरुतल्पसमम् । एतच्च रेतःसेकादूध्र्व वेदितव्यम् । अर्वाङ्गनिवृत्तौ तु न गुरुतल्प समत्वं किंत्वल्पमेव प्रायश्चित्तम् । ( १ १।५८ )–‘रेतःसेकः स्वयोनीपु कुमा रीष्वन्त्यजासु चव । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥’ इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्रीग्रहणं प्राय श्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस्तत्तन्निः मेित्तप्रायश्चित्तोपदेशार्थम् । ननु वेदनिन्दादौ दोषस्य लघुत्वादुरुतरं ब्रह्महत्यादि प्रायश्चित्तं न युज्यते । मैवम् । गुरुप्रायश्चित्तोपदेशबलादेव दोषगुरुत्वावगतेः । नच ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थमेवेदं वचनं न भवति, किंतु दोषगौरवमात्र प्रतिपादनपरमित्याशङ्कनीयम् । यतस्तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासममिदं गुरुतल्पसममित्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच्च प्रायश्चित्तं सम शब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तभ्यः किंचिन्नयूनमेवोपदिश्यते । ‘लोके राजसमो मत्री' इत्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात्, महतः ३७९ २ विशेषत्वेन ङ. ३ गुरुत्वमवगम्यते ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०५
दिखावट