सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५]. मिताक्षरासहेिता ३७१ मण्डलकुष्ठी । शूद्राचार्यः श्वपाकः । गोहर्ता सर्प खेहापहारी क्षयी । आशापहारी अजीर्णी। ज्ञानापहारी मूकः । चण्डालीपुल्कसीगमने अजगरः । प्रव्रजितागमने मरु पिशाचः ! शूद्रीगमने दीर्घकीटः । सवर्णाभिगामी दरिद्रः । जलहारी मत्स्यः । क्षीर हारी बलाकः । वार्धषिकोऽङ्गहीनः । अविक्रेयविक्रयी गृध्रः । राजमहिषीगामी नपुं राजाक्रोशको गर्दभः । गोगामी मण्डूकः । अनध्यायाध्ययने सृगाल परद्रव्यापहारी परप्रेष्य मत्स्यवधे गर्भवासी । इत्येतेऽनूध्र्वगमना इति स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्ताखेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनु (१२॥६९)-‘खियोऽप्येतेन कल्पेन हृत्वा दोषमवामुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ता इति । एतच्च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखी भूतब्रह्महाद्युद्वेगजननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादि व्रतप्राप्स्यर्थ संसर्गनिवृत्त्यर्थ वा पापक्षयाथै प्रायश्चित्तम् । नैच प्रायश्चित्तेन प्रारब्धफलपापापूर्वविनाशे किंचन प्रयोजनमस्ति । नहि कार्मुक निर्मुक्तो बाणो लक्ष्यवेधे वेदुस्तच्चापारस्य वा सैत्तान्तरं पुनरपेक्षते । नच तदा रब्धफलनाशार्थोऽपूर्वनाशोऽन्वेषणीय नहि निमित्तकारणीभूतचक्रचीवरादि विनाशेन तदारब्धकरकादिविनाश नच नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किंच नरकतिर्यग्योन्यादिजन्यदु जन्यदुःखपरम्परामर्नुभूतस्य हि कैौनख्यादिको विकारश्चरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थन जनिताशुशुक्षणिनेवारणिक्षयः । तस्मान्न पापविनाशार्थ व्रतपरिचर्या नापि संव्यव हारार्थम् । नहि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनैक्षया त्पापनाशेन संव्यवहार्यत्वस्यापि सिद्धेनौथे व्रतचर्यया ॥ यत्तु वसिष्ठनोक्तम् कुनखी श्यावदन्तश्च कृच्छू द्वादशरात्रं चरेत्’ इति तत्क्षामवत्यादिवत्रैमित्तिक मात्रं न पुनः पापक्षयार्थे संव्यवहार्यत्वसिद्धयर्थ वेति मन्तव्यम् ॥ २१६ यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षुणभ्रष्टा दरिद्राः पुरुषाधमाः ।। २१७ ।। किंच । यथाकर्म स्वकृतदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश्च पुरुषेषु निकृष्टा जायन्ते ॥ २१७ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विता किंच । ततो दुर्लक्षणमनुष्यजन्मा नन्तरं निष्कल्मषीभूता नरकाद्युपभोग द्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसंपन्नाः विद्याधनधान्य संपन्ना जायन्ते ॥ २१८ १ हत्वा दोषं ख २ नच प्रारब्ध ख. ३ सत्तां पुनरपेक्षते ख. ४ कारणभूत ख-ग ५ मनुभूय तस्य ख. ६ क. ख. ७ ख. ८ यया कर्म ख