पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः मधु दंशः पलं गृध्रो गां गोधा िबकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ।। २१५ ।। किंच । धान्यहारी आखुः । यानं हृत्कोष्ट्रः । फलं वानर । जलं प्वः शकट विलाख्यः पक्षी । पयः क्षीरं । काको ध्वाङ्कः । गृहोपस्करं मुसलादि ह्यत्वा गृहकारी चैटकाख्यः कीटविशेषः । मधु हृत्वा दंशाख्यः कीटः । पलं मांसं तदूत्वा गृध्राख्यः पक्षी । गां हृत्वा गोधाख्यः प्राणिविशेषः । अझिं हृत्वा बकाख्यः पक्षी । वस्त्रं हृत्वा श्वित्री । इक्ष्वादिरसं ह्यत्वा सारमेयः । लवणहारी चीर्याख्यः उचैःस्वरः कीटः ॥ २१४ ॥ २१५ ॥ एवं प्रदर्शनार्थ किंचिदुक्त्वा प्रतिद्रव्यं पूँष्टाकोटिन्यायेन वतुमशक्तेरेकोपा धिना कर्मविपाकं दर्शयितुमाह प्रदर्शनार्थमेततु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ।। २१६ ॥ । द्रव्यस्यापहियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्म ण्यपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथवा यत्फलसाधनं द्रव्य मपहरति तत्साधनविकलो यथा पहुतामश्वहारक इति ॥ शङ्गेन कचिद्धि शेषो दार्शतः । ब्रह्महा कुष्ठी । तैजसापहारी मण्डली । देवब्राह्मणाक्रोशकः खलतिः । गरदाझिदाबुन्मत्तौ । गुरुं प्रतिहन्तापस्मारी । गोन्नश्चान्धः । धर्मपत्रीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः । कुण्डाशी भगभक्षो देवब्रह्मस्व हारी । पाण्डुरोगी न्यासापहारी च काणः । स्त्रीपण्योपजीवी षण्ढः । कौमारदार त्यागी दुभैगः । मिटैकॉशी वातगुल्मी । अभक्ष्यभक्षको गण्डमाली । ब्राह्मणीगामी निबजी । क्रूरकर्मा वामनः । वस्त्रापहारी पतंगः । शय्यापहारी क्षपणकः । शङ्कशुक्यपहारी कपाली । दीपापहारी कौशिकः । मित्रधुक् क्षयी मातापित्रोरा क्रोशः खैञ्जक इति ॥ गौतमोऽपि कचिद्विशेषमाह--अनृतवागुल्बलः मुहु र्मुहुः संलझवाक् । दारत्यागी जलोदरी । कूटसाक्षी श्रीपदी उच्छिन्नजङ्काचरणः । विवाहविश्धकर्ता छिन्नोष्ठः । अवगूरणः छिन्नहस्त । मातृवोऽन्धः । लुषागामी वातवृषणः । चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छी । कन्यादूषकः षण्ढः । ईष्यलु र्मशाकः । पित्रा विवदमानोऽपस्मारी । न्यासापहारी अनपत्य । रत्नापहारी अत्य न्तदरिद्रः । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुयाजको जलप्लवः । अयाज्ययाजको वराहः । अनिमन्तिभोजी वायसः । टैकभोजी वानरः । यत स्ततोऽश्वान्मार्जारः । कक्षवनदहनात्खद्योतः । दारकाचार्यो मुखविगन्धि पर्युषितभोजी कृमिः । अदत्तादायी बलीवर्दः । मत्सरी भ्रमरः । अयुत्सादी १ शकटविलाख्यः ड. २ वरटाख्यः ङ. ३ पृष्टाकोटेन. ख.४ ब्रह्मस्वहरः ख. ५ मृटैकाशी इतिं पांठः, ६ खण्डकारः ख., ७ अस्थूलजङ्घ ङ . ८ अवगूरणी ख . ९ मिटैकभोजी ड