भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७८
कल्पवृक्षदानविधिवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
भगवाञ्छंकरः पूर्वं कृतोद्वाहो मया सह ।।
रममाणस्तया सार्द्धं बहुवर्षगणान्स्थितः ।। १ ।।
ततः सुरगणाः सर्वे परं त्रासमुपागताः ।।
तयोरपत्यस्य भयात्तमेव शरणं गताः ।। २ ।।
वैश्वानरमुखा देवा महादेवं त्रिलोचनम् ।।
प्रसन्नश्चाभवत्तेषां विबुधानां त्रिलोचनः ।। ३ ।।
।। ईश्वर उवाच ।। ।।
किं भीतास्त्रिदशाः सर्वे कं वरं च ददामि वः ।।
मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन ।। ४ ।।
।। देवा ऊचुः ।। ।।
भगवंस्तव संयोगात्पार्वत्या सह शंकर ।।
मोघो भवतु देवेश भीताः स्म तनयस्य ते ।।५ ।।
अनपत्यश्च देवेश भव भूतपते सदा ।।
अशक्ताः स्म वयं सर्वे भवदोजो विधारणे ।। ६ ।।
।। श्रीभगवानुवाच ।। ।।
अतः प्रभृत्यहं देवा ऊर्ध्वरेता व्यवस्थितः ।।
स्थाणुवच्च स्थितश्चास्मि नाम चैतद्भविष्यति ।। ७ ।।
ततः क्रुद्धा उमा तेषां देवानां वाक्यमब्रवीत् ।।
वितथं पुत्रजं सौख्यं भवद्भिर्मे कृतं सुराः ।। ८ ।।
यस्मात्तस्माद्भवंतोऽपि न पुत्राञ्जनयिष्यथ ।।
ततः प्रभृति वै देवाः प्रसूयंते न भूपते ।। ९ ।।
दत्त्वा शापं ततो देवी देवानामाह शंकरम् ।।
पुत्रजन्म मया प्राप्तं न तावज्जगतः पते ।। 4.178.१० ।।
अपुत्रस्य गतिर्नास्ति इतीयं श्रूयते श्रुतिः ।।
तदादिश महाभाग लोकद्वयहितं प्रभो ।। ११ ।।
।। भगवानुवाच ।। ।।
अपुत्रः पुरुषो यश्च नारी वा पर्वतात्मजे ।।
सौवर्णस्तेन दातव्यः कल्पवृक्षो गुणान्वितः ।। १२ ।।
कृत्रिमं वापि गृह्णीयाद्वृक्षं वा स्थावरादिकम् ।।
जातपुत्रोऽथ वा पुत्रः पुत्रत्वे परिकल्पयेत्।।१३।।
तेन पुत्रवतां लोका देवि तस्य न संशयः ।।
कल्पवृक्षस्तु कर्तव्यः शुद्धकांचनसंभवः ।। १४ ।।
बहुशाखः सुवर्णांगोप्यनेककुसुमान्वितः ।।
महास्कंधस्वरूपश्च रत्नालंकृतविग्रहः ।। १५ ।।
फलानि तस्य दिव्यानि सौवर्णानि प्रकल्पयेत् ।।
कुर्याविंशत्पलादूर्द्ध्वं शक्त्या वा नृपसत्तम ।। १६ ।।
दानमेतत्प्रदातव्यं राजतं चैवमुत्तमम् ।।
प्रवालांकुरसंछन्नं मुक्तादामावलंबितम् ।। १७ ।।
चतुष्कोणेषु कुर्वीत चतुरः कांचनद्रुमान् ।।
सुवर्णस्य प्रमाणं च कथयामि वरानने ।। १८ ।।
सहस्रेण तदर्द्धेन तस्याप्यर्द्धेन वा पुनः ।।
नद्यास्तीरे गृहे वापि देवतायतने तथा।।१९।।
प्रागुदक्प्रवणे देशे मंडपं तत्र कारयेत् ।।
दशहस्तप्रमाणेन दशहस्ताश्च वेदिकाः ।। 4.178.२० ।।
हस्तमात्रप्रमाणेन कुंडमेकं सुशोभनम् ।।
आग्नेय्यां कारयेद्राजन्मेखलामुपलेपनम् ।। २१ ।।
तत्र वै ब्राह्मणा योज्या ऋग्यजुःसामपाठकाः ।।
उपदेष्टा च तत्रैव तृतीयः पंचमोऽथ वा ।। ।। २२ ।।
सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्विताः ।।
अनुलिप्ताश्चंदनेन वस्त्रमाल्यादिभूषिताः ।। २३ ।।
गुडप्रस्थोपरिष्टाच्च स्थापयेत्कल्पपादपम् ।।
ब्रह्मविष्णुशिवोपेतं पंचशाखं सभास्करम् ।। २४ ।।
कामदेवमधस्ताच्च सकलत्र प्रयोजयेत् ।।
संतानं सह गायत्र्या पूर्वतो लवणोपरि ।। २५ ।।
मंदारं दक्षिणे पार्श्वे श्रिया सह तथा घृते ।।
पश्चिमे पारिजातं तु उमया सह पादपम् ।। २६ ।।
सुरभीसंयुतं तद्वत्तिलेषु हरिचंदनम् ।।
कौशेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान्।। २७ ।।
तथाष्टौ पूर्णकलशान्समंतात्परिकल्पयेत् ।।
अग्निप्रणयनं कृत्वा अधिवास्य च पादपान् ।। २८ ।।
धान्यानि चैव सर्वाणि समंतात्परिकल्पयेत् ।।
नाना भक्ष्याणि नैवेद्यं सर्वं तत्र नियोजयेत् ।। २९ ।।
दीपमाला विचित्राश्च ज्वालयेत समंततः ।।
मंत्रेण योजयित्वा ता मयोक्तेन वरानने ।। 4.178.३० ।।
कामदस्त्वं हि देवानां कामवृक्षस्ततः स्मृतः ।।
मया संपूजितो भक्त्या पूरयस्व मनोरथान् ।। ।। ३१ ।।
एवं संपूज्य विधिना जागरं तत्र कारयेत् ।।
शंखवादित्रनिर्घोषैर्वेदध्वनिविमिश्रितैः ।। ३२ ।।
होमं च ब्राह्मणाः कुर्युर्मद्गतेनांतरात्मना ।।
आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ३३ ।।
तल्लिंगैः स्थापितान्देवान्होमेनाप्याययेत्ततः ।।
महाव्याहृतिभिश्चैव होमं कुर्युस्ततः परम् ।। ।। ३४ ।।
अयुतेन भवेत्सिद्धिर्यज्ञस्य वरवर्णिनि ।।
ततः प्रभाते चोत्थाय स्नात्वा शुक्लांबरः शुचिः ।। ३५ ।।
दद्यात्पर्वसमीपे तु कल्पवृक्षं सद क्षिणम् ।।
त्रिःप्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ।। ३६ ।।
नमस्ते कल्पवृक्षाय विततार्थप्रदाय च ।।
विश्वंभराय देवाय नमस्ते विश्वमूर्तये ।। ।। ३७ ।।
यस्मात्त्वमेव विश्वात्मा ब्रह्मस्थाणुदिवाकराः ।।
मूर्तामूर्तपरं बीजमतः पाहि सनातन ।।३८।।
एवमामन्त्र्य तं दृष्ट्वा गुरवे कल्पपादपम् ।।
चतुर्भ्यश्चापि ऋत्विग्भ्यः सामंतादीन्प्रकल्पयेत् ।। ३९ ।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।।
तस्य पुण्यफलं देवि शृणुष्व गदतो मम।। ।। 4.178.४० ।।
विमानवरमारुह्य सूर्यतेजःसमप्रभम् ।।
अप्सरोगणसंकीर्णं किंकिणीजालमालितम् ।। ४१ ।।
याति लोकं सुरेशस्य सर्वबाधाविवर्जि तम्।।
पुनः कर्मक्षितावेत्य जायते श्रोत्रिये कुले ।। ४२ ।।
यज्वा शूरोऽपि विद्वांश्च नरो भवति धार्मिकः ।।
पुनरंते प्राप्नुयाद्वै लोकं देवस्य शार्ङ्गिणः ।। ४३ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पवृक्षदानविधिवर्णनं नामाष्टसप्तत्युत्तरशतत मोऽध्यायः .।। १७८ ।।