इत्यत आह-व्यवहारत इति । यवहाराष्ट्रद्धव्यवहारादन्वयव्यतिरेकलक्षणाद्
वगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विष
यव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥
एवं सर्वत्र प्रसङ्गेऽपवादमाह -
अर्थशास्त्रातु बलद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥
धर्मशास्त्रानुसारेणे'त्यनेनैवोशनसाद्यर्थशास्त्रस्य निरस्तत्वातू धर्मशास्रान्त र्गतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अॅर्थशास्त्रधर्मशास्रस्मृत्यो र्विरोधे अर्थशास्राद्धर्मशास्त्रं बलवदिति स्थितिर्मयदा । यद्यपि सैमानकर्तृक तया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्रार्थशास्त्रयोर्विरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्पः । किमत्रोदाहरणम् । न तावत्-गुरुं वा बाल वृद्धा वा ब्राह्मण वा बहुश्रुतम् । आततायिनमायान्त हन्यादवावचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रैच्छन्नं वा प्रकाशं वा मन्युस्तं मन्यु मृच्छति ॥' (मनुः ८॥३५०॥५१)तथा–“आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्याद्यर्थशास्त्रम् ।–“इयं विशुः द्धिरुदिता प्रमाप्यकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ (मनुः ११॥८९)इत्यादि धर्मशास्त्रं तयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् ॥ अनयोरेरकविषयत्वासंभवेन विरोधाभावान्न बलाबलचिन्तावतरति । तथाहि शस्त्रं द्विजातिभिग्रह्य धर्मो यत्रोपरुध्यते’ (मनुः ८॥३४८) इत्युपक्रम्य-‘आ त्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च ऋन्धर्मेण नै दण्ड भाक् ॥' (मनुः ८॥३४९) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां चव रक्षणे युद्धे च रुखीब्राह्मणहिंसायां व–“आततायिनमकूटशत्रेण ऋान् दण्डभाक्' इत्युक्त्वा तस्यार्थवादार्थमिदमुच्यते ‘गुरुं वा बालवृद्धौ वे'त्यादि । गुर्वादीनत्यन्तावध्यान प्याततायिनो हन्यात्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्तगमित्यत्रा पिशब्दश्रवणान्ना गुर्वादीनां वध्यत्वप्रतीति ।--*नाततायिवधे दोषोऽन्यत्र गो
ब्राह्मणवधात्’ इति सुमन्तुवचनाच आचार्य च प्रवक्तारं मातरं पितरं
१ औशनसादि केवलं नीतिशास्रम्. २ एकविषययोर्विरुद्धार्थयोर्हि स्मृत्योर्मिथेो विरोधी नतु भिन्नविषययोरविरुद्धार्थयोर्वा । सति चव विरोधे प्रबलदुर्बलभावचिन्ता । एवं च पूर्वमेव धर्मशास्त्रानुसारेणैव व्यवहारानुदर्शनस्य विहितत्वादौशनसादिनीतिशास्त्रस्य न व्यवहार विषये प्रवृत्तिरत एकविषयत्वाभावादथैशास्रधर्मशास्त्रयोः सुतरां विरोधाभावादनयोः प्रबल दुर्बलभावचिन्तनमेव तावदयुक्तमिति शङ्काशयः. ३ भन्वादिरूपैककर्तृनिष्पन्नत्वेन. ४ आ चाराध्यायस्यादै. ५ अन्योक्तमुदाहरणमनूद्य खण्डयति--न तावदित्यादि युक्तमित्यन्तेन । न तावदुदाहरणं युक्तमिति व्यवहितेनान्वय . ६ यतो मन्युरेव प्रकाशमप्रकाशं वा तं मन्युं हिनस्तीत्यर्थः. प्रकाशं वाऽप्रकाशं वा क. . ७ वेदान्तपारगम्. पाठ . ८ अकामती ब्राह्मणं हिंसित्वा स्थितस्य. ९ न दुष्यति क.