सुतेन पार्वणमेव कर्तव्यम्–‘एकोद्दिष्टं यतेनौति त्रिदण्डग्रहणादिह । सपिण्डी
करणाभावात्पार्वणं तस्य सर्वदा ॥’ इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे
प्रेतपक्षक्षयाहे च पार्वणमेव-‘अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः’ इत्या
दिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोव्रीहियव
वद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थितो विकल्पो
ऽसत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ २५६ ॥
नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिद्मभिधीयते--
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्ट न मार्जयेत् ।। २५७ ।।
पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियं गवे अजाय ब्राह्मणाय वा तदर्थिने पिण्डान्दद्यात् । अझावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन्नोद्वासयेत् ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह--
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ।। २५८ ।।
एणरारववाराहृशाशमासयथाक्रमम् ।
मासवृद्याभितृप्यन्ति दत्तरिह पितामहाः ।। २५९ ।।
हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३॥२६७)–‘तिलैत्रीहिः यवैर्माषेरद्भिमूलफैलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ इति । तदनं हविष्यात्रं तेन मासं पितरस्तृप्यन्तीत्यनैागतेनान्वयः । पायसेन गव्यपयःसिद्धेन संवत्सरम्–“संवत्सरं तु गव्येन पयसा पायसेन च' इति मनुः (३॥२७१) मरणात् । मत्स्यो भक्ष्यः पाठीनादिस्तस्येदं मात्स्यम् । हरिण स्ताम्रमृगः । एणः कृष्णः ।–“एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्यायु र्वेदस्मरणात् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबन्धि औरभ्रम् । शैकुनिस्तित्ति रिस्तत्संबन्धि शाकुनम्। छागोऽजस्तदीयं छागम् । पृषचित्रमृगस्तन्मांसं पार्षतम् । एणः कृष्णमृगस्तपिशितमैणम् । रुरुः शैबरस्तत्प्रभवं रौरवम् । वराह आरण्यसूः करस्तज्जं वाराहम् । शस्येदं शाशम्। एभिर्मासैः पितृभ्यो दतैर्हविष्यान्नेन वै मास मित्युक्तत्वात्तत ऊध्र्वं यथाक्रममेकैकमासवृद्धया पितरस्तृप्यन्ति ॥ २५८ ॥ २५९ ॥
खङ्गामिषं महाशल्कं मधु मुन्यन्नमेव वा ।
लौहामिषं महाशाकं मांसं वाधणसस्य च ।। २६० ।।
१ फलैस्तथा ग. २ मासं प्रीयन्ते ख. ३ अनागतत्वेना ग. ४ शाकुनं भक्ष्यपक्षि संबन्धि क. ख. ५ वाघ्रीणसस्य क. ग.