पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

यद्ददाति गयास्थश्च सर्वमानन्त्यमश्रुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच । खङ्गो गण्डकस्तस्य मांसम् । महाशल्को मत्स्यभेदः । मधु माक्षि कम् । मुन्यन्न सर्वमारण्यं नीवारादि । लोहो रक्तश्छागस्तदामिषं लैौहामिषम् । महाशाकं कालशाकम् । वाधणसो वृद्धः श्वतच्छाग –“त्रिपिबं त्विन्द्वियक्षीणं वृद्धं धेर्तमजापतिम् । वाऽध्रणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥’ इति याज्ञिकप्रसिद्ध । त्रिपिबः पिबतः कर्णे जिह्वा च यस्य जलं स्पृशन्ति स त्रिभिः पिबतीति त्रिपिबः तस्य वाधणसस्य मांसम् । यद्ददाति गयास्थश्च त्कंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्भङ्गाद्वारादिपु च –“गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे । संनिहत्यां गायायां च श्राद्धमक्षय्यतां ब्रजेत् ॥ आनन्त्यमश्रुते इति अनन्तफलहेतुत्वं प्रामोति । आनन्त्यमक्षुत इति प्रत्येकम भिसंबच्द्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायु क्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्रुत इति गतेन संबन्ध ॥-अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शितानि तथापि पुलस्त्योक्ता व्यवस्थादरणीया ।–‘मुन्यन्न ब्राह्मणस्योक्तं मांसं क्षत्रिय वैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ।।' इति । अस्यार्थः–- मुन्यन्न नीवारादि यच्छाद्धयोग्यमुक्तं तद्राह्मणस्य प्रधानं समग्रफलदम् । यच मांसमुत्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षेौद्रमुक्तं तच्छूद्रस्य । एतत्रितयव्य तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं कालशा कादि तत्सर्वेषां समग्रफलदमिति ॥ २६० ॥ २६१ ॥
तिथिविशेषात्फलविशेषमाह--

कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ।
छूतं कृषिं वणिज्यां च द्विशपेकशफांस्तथा ।। २६२ ।।
ब्रह्मवर्चखिनः पुत्रान्स्वर्णरूप्ये सकुण्यके ।
ज्ञातेिश्रेष्ठयं सर्वकामानाझेोति श्राद्धदः सदा ।। २६३ ।।
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ।। २६४ ।।

कन्यां रूपलक्षणशीलवतीम् । कन्यावेदिनो जामातरो बुद्धिरूपलक्षणसं पन्नाः । पशवः क्षुद्रा अजादयः । सत्सुताः सन्मार्गवर्तिनः । यूतं यूतविजयः । कृषिः कृषिपफलम् । वणिज्या वाणिज्यलाभः । द्विशफा गवादयः । एकशफा अश्वादयः । ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं


१ श्वतं वृद्धमजापतिं ख. २ आनन्यफलं ख. ३ कृषिं च वाणिज्यं द्विशफैकशफं तथा