यस्मादयाचिताहृतमेतत्कुशादि दुष्कृतकारिणोऽपि संबन्धि ग्राह्य किमुत यथो
क्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च । कुला
त्कुलमटतीति कुलटा स्वैरिण्यादिका । षण्ढस्तृतीयाप्रकृति ॥ २१५ ॥
प्रतिग्रहनिवृत्तेरपवादान्तरमाह--
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ।। २१६ ।।
देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थमनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्ज स
र्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापुत्रादयः ॥ २१६ ॥
इति दानप्रकरणम् ।
अथ श्राद्धप्रकरणम् १०
इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य
प्रेतोद्देशेन श्रद्धया त्याग । तच द्विविधं पार्वणमेकोद्दिष्टमिति । तत्र त्रिपुरुषोद्देशेन
यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं नित्यं
नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधैौ चोदितमहरहरमावस्याष्ट
कादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रजन्मादिषु । फलकाम
नोपाधौ विहितं काम्यं यथा स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु तिथिषु च ।
पुनश्च पञ्चविधं—‘अहरहःश्राद्धं पार्वणं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चे'ति ।
तत्राहरहःश्राद्धं—‘अत्रं पितृमनुष्येभ्यः' इत्यादिनोक्तम् –‘दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमक्षयाम् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह--
अमावास्याऽष्टका वृद्धिः कृष्णपक्षेोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिावधुंवत्सूर्यसंक्रमः ।। २१७ ।।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूययोः ।
श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ।। २१८ ।।
यत्र दिने चन्द्रमा न दृश्यते सा अमावास्या तस्यामहर्द्धयव्यापिन्यामपराह्नव्या पिनी ग्राह्या ।–‘अपराह्यः पितृणाम्’ इति वचनात् । अपराह्नश्च पञ्चधाविभक्त दिने चतुर्थे भागखिमुहूर्तः । अष्टकाश्चतस्रः ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणाम ष्टमीष्वष्टकाः' इत्याश्वलायनोक्ताः (गृ. सू.२॥३) । वृद्धिः पुत्रजन्मादिः । कृष्ण-
१ मनापत्करणात क. २ चोदितं क. ३ विषुवः क. या० ९