भाषावृत्तिः/पञ्चमोऽध्यायः/प्रथमः पादः
भाषावृत्तिः पञ्चमोऽध्यायः पुरुषोत्तमदेव |
द्वितीयः पादः → |
-5-1-1- प्राक् क्रीताच्छः ।।
क्रीतात् प्राग् हितं प्रकृतिरस्येत्यस्मिन्नर्थे छो वाच्यः।
-5-1-2- उगवादिभ्यो यत् ।।
उवर्णान्ताद् गवादेश्छापवादो यत् स्यात्। शङ्कव्यं दारु। चरव्यास्तण्डुलाः। कमण्डलव्या मृत्। सक्तव्या धानाः। गवादेः--गव्यम्।
। नाभि नभञ्ञ्च । (ग0सू0)। नाभ्यर्था प्रकृतिः। नभ्यं काष्ठम्।
। शुनः सम्प्रसारणं वा च दीर्घः । ( ग0 सू0 )। शुने हितं शुन्यम्, शून्यं वा।
। ःढ़द्य;धसोऽनङ् च । (ग0 सू0)। ऊधसो यत् स्यादनङादेशश्च ।
ऊधन्यः।
-5-1-3- कम्बलाच्च संज्ञायाम् ।।
कम्बलनाभ्रि यत् स्यात्। कम्बल्यम् ऊर्णापलशतम्।
-5-1-4- विभाषा हविरपूपादिभ्यः ।।
एभ्यो यद्वा स्यात्। हविर्वाचिनः--आमिक्ष्यम्, आमिक्षीयं वा दधि। पुरोडाश्यम्, पुरोडाशीयं वौषधम्। हविःशब्दाद् गवादिपाठा न्नित्यं यत्--हविष्यम्।
अपूपादेः--अपूप्यम्, अपूपीयं वा। तण्डुल्यम्, तण्डुलीयं वा। अन्नविकारेभ्यश्च--सुरीयाः, सुर्या वा तण्डुलाः
-5-1-5- तस्मै हितम् ।।
अत्रार्थे यथाविहितं प्रत्ययः स्यात्। वत्सेभ्यो हितं वत्सीयं नवतृणम्, पशव्यम्। गव्यम्। पटव्यम्।
-5-1-6- शरीरावयवाद् यत् ।।
स्यात्। दण्डेभ्यो हितं दण्ड्यम्। र्कण्यम्। तालव्यम्। नाभ्यं तैलम्।
ओष्ठ्यम्। मूर्धन्यम्।
। रथाच्च ।। रथाय हिता रथ्या प्रतोली।
-5-1-7- खलयवमाषतिलवृषब्रह्मणश्च ।।
एभ्यो हिते यत् स्यात्। खलाय हितं खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मणे हितो ब्रह्मण्यो राजा।
-5-1-8- अजाविभ्यां थ्यन् ।।
आभ्यां हिते थ्यन् स्यात्। अजथ्या भूमिः। अविथ्या।
-5-1-9- आत्मन्विश्वजनभोत्तरपदात् खः ।।
एभ्यो हिते खः स्यात्। आत्मन्इति नकारोच्चारणमवधिज्ञापनार्थम्। आत्मने हितमात्मनीनम्। क्षणं मया विश्वजनीनमुच्यते। मातृभोगीणः। आचार्यादणत्वञ्ञ्च (4.1.4.6 वा0)--आचार्यभोगीनः। स्वभोगीनः। भोगःउशरीरम्इति वृत्तिः।
। पञ्ञ्चजनाच्च ।। खः स्यात्। गायनवादकनर्त्तकदासीभण्डरतः खलु पञ्ञ्चजनीनः।
। सर्वजानाट् ठञ्ञ्, खश्च ।। सार्वजनिकः। सर्वजनीनः।
। महाजनान्नित्यं ठञ्ञ् ।। माहाजनिकः।
विश्वजनादेः कर्मधारयादभिधानम्, तेन षष्ठीसमासादौ न भवति--विश्वजनीयमिति।
-5-1-10- सर्वपुरुषाभ्यां णढञ्ञौ ।।
आभ्यां हिते णढञ्ञौ स्याताम्।
। तत्र सर्वाण्णस्य वा वचनं कर्त्तव्यम् ।। सार्वः। सर्वीयः।
। पुरुषाद् वधविकारसमूहतेनकृतेषु ढञ्ञ् ।। पौरुषेयो वधादिः।
-5-1-11- माणवचरकाभ्यां खञ्ञ् ।।
आभ्यां हिते खञ्ञ् स्यात्। माणवीनः। चारकीणः।
-5-1-12- तदर्थं विकृतेः प्रकृतौ ।।
विकृतार्थे यथाविहितं प्रत्ययः स्यात्, तदर्था प्रकृतिश्चेद् वाच्या भवति
अङ्गारेभ्य एतानि अङ्गारीयाणि काष्ठानि। यूपीयं दारु। शङ्कव्यम्। पिचव्यः कार्पासः।
-5-1-13- छदिरुपधिबलेर्ढञ्ञ् ।।
एभ्यस्तदर्थायां प्रकृतौ ढञ्ञ् स्यात्। छादिषेयाणि तृणानि। उपधेः स्वार्थे ढञ्ञ्इति स्मृतिः। औपधेयं रथदारु। बल्यर्थास्तण्डुला बालेयाः।
-5-1-14- ऋषभोपानहोर्ञ्ञ्यः ।।
आभ्यां तथैव ञ्ञ्यः स्यात्। आर्षभ्यो वत्सः। औपानह्यम् चर्म।
-5-1-15- चर्मणोऽञ्ञ् ।।
चर्मणो विकृतेरञ्ञ स्यात् तदर्यायां प्रकृतौ। वार्ध्रम्। वारत्रं चर्म।
-5-1-16- तदस्य तदस्मिन् स्यादिति ।।
अत्रार्थद्वये यथाविहितं प्रत्ययः स्यात्। प्राकार आसामिष्टकानां स्यात् सम्भवेत् प्राकारीयाइष्टकाः। प्रासादोऽस्यां भूमौ सम्भवेत् प्रासादीया भूमिः।
-5-1-17- परिखाया ढञ्ञ् ।।
अस्याः प्रागर्थे ढञ्ञ् स्यात्। पारिखेयी भूमिः।
।।छयतौ पूर्णावधी ।।
-5-1-18- प्राग् वतेष्ठञ्ञ् ।।
तेन तुल्यं क्रिया चेद् वतिः (5.1.115)इत्यतः प्रागर्थेषु ठञ्ञ् वेदितव्यः। गोपुच्छेन क्रीतं गौपुच्छिकम्। पारायणं वर्त्तयति पारायणिकः। द्वैपारायणिकः। साप्ततिकम्।
।।तद्धितेषु आर्हीयाः।।
-5-1-19- आऽर्हांदगोपच्छसंख्यापरिमाणाट् ठक् ।।
अभिविधावाङ्। तदर्हतिइति ( 5.1.63 ) पर्यन्तेषु क्रीतं निमित्तमीश्वरोविदितोवापस्तदस्मिंस्तद्धरतिवहत्यावहतिसम्भवत्यवहरतिपचतिसोऽस्यजतदस्यतदर्हति--ःथ्द्य;त्यर्थेषु ठग् वक्तव्यः। नैष्किकः। गोपुच्छादेः पर्युदासात् प्राग्वतेष्ठञ्ञ् एव--गौपुच्छिकः। साप्ततिकः। प्रास्थिकः। स्वरे
भेदः।
-5-1-20- असमासे निष्कादिभ्यः ।।
निष्कादेरसमासे ठक् स्यादार्हीयेष्वर्थेषु। नैष्किकः।
निष्क। पण मास। द्रोण। षष्टि। पाद।
समासे तु ठञ्ञेव स्यात्--द्विनैष्किकम्।
अत एवासमासग्रहणात् पूर्वत्र तदन्तविधिः। तेन गव्यम्, अतिगव्यम्, दन्त्यम्, राजदन्त्यमित्यादि।इत उत्तरञ्ञ्च--
प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकिइति स्मृतिः। पारायणिकः। द्वैपारायणिकः।
-5-1-21- शताच्च ठन्यतावशते ।।
शतादार्हीयार्थेषु ठन्-यतौ स्याताम्। कनो बाधा। शत्यः अश्वः। शतिकः कम्बलः। शतिकं वासः। शत्यो वा।
अशते किम् ? शतमध्यायाः परिमाणमस्य शतकं निदानम्। शतकं काव्यम्। शतमेव।
-5-1-22- संख्याया अतिशदन्तायाः कन् ।।
संख्याया आर्हीयेषु कन् स्यात्। पञ्ञ्चकः। बहुकः। गणकः। अतिशदन्तायाः किम् ? साप्ततिकः। पाञ्ञ्चाशत्कः।
डतेरप्रतिषेघः--कतिकः।
-5-1-23- वतोरिड् वा ।।
वतोः संख्यायाःकनइड् वा स्यात्। तावतिकः, तावत्को वा।
-5-1-24- विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् ।।
योगविभागोऽत्र क्रियते। आभ्यामार्हीयेषु कन् स्यात्। विंशतिकः। त्रिंशत्कः।
असंज्ञायां ड्वुन्। विंशकः। त्रिंशकः। ति विंशतेर्डितिइति टिलोपः।
-5-1-25- कंसाट् टिठन् ।।
कंसात् परिमाणादार्हीयेषु टिठन् स्यात्। कंसिकः पटः। कंसिकी।इकार उच्चारणार्थः।
। अर्धाच्च ।। अर्धिकः। अर्धिकी।
। कार्षापणाद्वा प्रतिरादेशश्च । कार्षापणिकः, प्रतिको वा।
-5-1-26- शूर्पादञ्ञन्यतरस्याम् ।।
शूर्पादञ्ञ् वा स्यादार्हीयेषु। शौर्पम्, शौर्पिकं वा।
-5-1-27- शतमानविंशतिकसहस्रवसनादण् ।।
एभ्य आर्हीयेष्वण् स्यात्। शातमानम्। वैशतिकम्। साहस्रम्। वासनम्।
-5-1-28- अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ।।
अध्यर्धपूर्वाद् द्विगोश्वार्हीयस्य लुक् स्यात्। अध्यर्धकंसेन क्रीतमर्धकंसम्। द्विगोः--
द्विकंसम्। त्रिकंसम्।
असंज्ञायां किम् ? पाञ्ञ्चकपालिकः।
-5-1-29- विभाषा कार्षापणसहस्राभ्याम् ।।
एतदन्तात् पूर्वको लुग् वा स्यात्। अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकं वा। द्विकार्षापणिकम्, द्विकार्षापणं वा। अध्यर्धसहस्रम्, अध्यर्धसाहस्रं वा। संख्यायाः संवत्सरसंख्यस्य चइत्युत्तरपदवृद्धिः।
। सुवर्णशतमानयोश्च ।। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकं वा। अध्यर्धशातमानम्, अध्यर्द्धशतमानं वा। द्विसुवर्णम्, द्विसौवर्णिकं वा। द्विशतमानम्, द्विशातमानं वा। परिमाणान्तस्यइत्युत्तरपदवृद्धिः।
-5-1-30- द्वित्रिपूर्वान्निष्कात् ।।
द्व्यादिपूर्वान्निष्कादार्हीयस्य लुग् वा स्यात्। द्विनिष्कम्, द्विनैष्किकं वा। त्रिनिष्कम्, त्रिनैष्किकं वा।
। बहुपूर्वाच्च ।। बहुनिष्कम्, बहुनैष्किकं वा।
-5-1-31- बिस्ताच्च ।।
बिस्ताच्च तथा स्यात्। द्विबिस्तम्, द्विबैस्तिकं वा। त्रिबिस्तम्, त्रिबैस्तिकं वा। बहुबिस्तम्, बहुबैस्तिकं वा।
-5-1-32- विंशतिकात् खः ।।
अस्मादार्हीयस्य लुग्विषये खः स्यात्। अध्यर्धविंशतिकीनम्। द्विविंशतिकीनम्।
-5-1-33- खार्याइर्कन् ।।
लुको विषये खार्याइर्कन् स्यात्। अध्यर्धखारीकम्। द्विखारीकम्।
। काकिण्याश्च । अध्यर्धकाकिणीकम्। द्विकाकिणीकम्।
। केवलाभ्याञ्ञ्च ।। खारीकम्। काकिणीकम्।
-5-1-34- पणपादमाषशताद् यत् ।।
एभ्यो यत् स्यात्। अध्यर्धशाण्यम्। द्विपण्यम्। अध्यर्धपाद्यम्। द्विपाद्यम्। अध्यर्धमाष्यम्। अध्यर्धशत्यम्।
-5-1-35- शाणाद्वा ।।
शाणाद् यद्वा स्यात्। अध्यर्धशाण्यम्।
पक्षे ठञ्ञो लगेव--अध्यर्धशाणम्। द्विशाणम्।
। शताच्च ।। अध्यर्धशत्म्, अध्यर्धशतं वा। द्विशत्म्, द्विशतं वा।
-5-1-36- द्वित्रिपूर्वादण् च ।।
द्वित्रिपूर्वाच्छाणादण्, यच्च वा स्यात्। द्वैशाणम्, द्विशाण्यं वा। लुक् च--द्विशाणम्।
-5-1-37- तेन क्रीतम् ।।
अत्रार्थे प्राग्वतेष्ठञ्ञादयस्त्रयोदाश प्रत्यया वेदितव्याः। सप्तत्या क्रीतं साप्ततिकम्। नैष्किम्। मुद्गैः क्रीतं मौदि्गकम् शत्यम्, शतिकम्। संख्याया अतिशदन्तायाः कन्---द्विकम्। त्रिकम्। पञ्ञ्चकम्।
-5-1-38- तस्य निमित्तं संयोगोत्पातौ ।।
संयोगःउआकस्मिकः सम्बन्धः। शुभाशुभसूचकःउउत्पातः। अत्रार्थे ठञ्ञादयो वेदितव्याः। शतस्य निमित्तमधमर्णेन संयोगः शत्यः शतिकः।
सहस्रस्य निमित्तं दक्षिणाक्षिस्पन्दनं साहस्रम्।
। वातपित्तश्लेष्मसन्निपातेभ्यश्च ।। शमनकोपनयोरभिधानम्। वातस्य शमनं कोपनं वा वातिकम्। पैत्तिकम्। श्लेष्मिकम्। सान्निपातिकम्।
-5-1-39- गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ।।
गोशब्दाद् द्व्यचश्च निमित्तार्थे यत् स्यात्। ठञ्ञादेर्बाधा। गोनिमित्तं संयोग उत्पातो वा गव्यः। द्व्यचः--धन्यः। र्स्वग्यः। यशस्यम्। आयुष्यम्।
संख्यादेर्निषेधः किम् ? पञ्ञ्चानां निमित्तं पञ्ञ्चकः प्रास्थकः। अश्वादिर्गणः--आश्विकः। हास्तिकः।
-5-1-40- पुत्राच्छ च ।।
पुत्राच्छः स्याद्, यच्च। पुत्रस्य निमित्तं संयोग उत्पातो वा पुत्रीयः पुत्र्यः।
-5-1-41- सर्वभूमिपृथिवीभ्यामणञ्ञौ ।।
आभ्यां निमित्तार्थे यथासंख्यमणञ्ञौ स्याताम्। सार्वभौमः। अनुशतिकादिः (7.3.20)। पृथिव्या निमित्तं पार्थिवः।
-5-1-42- तस्येश्वरः ।।
अत्रार्थे ताभ्यां तौ स्याताम्। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः।
-5-1-43- तत्र विदितइति च ।।
अत्रार्थे ताभ्यामणञ्ञौ स्याताम्। सार्वभौमः। पार्थिवः।
-5-1-44- लोकसर्वलोकाट् ठञ्ञ् ।।
आभ्यां तत्र विदितःइत्यर्थे ठञ्ञ् स्यात्। लौकिकः। स रामः
सार्बलौकिकः। अनुशतिकादिः।
-4-1-45- तस्य वापः ।।
अत्रार्थे यथाविहितं प्रत्ययः स्यात्। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। उप्यतेऽस्मिन्निति वापः।
-4-1-46- पात्रात् ष्ठन् ।।
स्यात्। पात्रस्य वापः क्षेत्रं पात्रिकम्। षित्त्वान् ङीष्--पात्रिकी भूमिः।
-5-1-47- तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ।।
अत्रार्थे यथाविहितं प्रत्ययः स्यात्। पञ्ञ्चास्मिन् वृद्धिरायो लाभः शुल्क उपदा वा दीयते पञ्ञ्चकः। शतिकः। शत्यः।
। चतुर्थ्यर्थे चोपसंख्यानम् ।। शतमस्मै वृद्ध्यादिकं दीयते शत्यो विप्रः।
-5-1-48- पूरणार्धाट् ठन् ।।
पूरणान्तादर्धाच्च ठन् स्यात्। द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः। पञ्ञ्चमिकः। अर्धिकः।
-5-1-49- भागाद् यच्च ।।
भागशब्दाद् यट्ठनौ स्याताम्। भागो वृद्ध्यादिरस्मिन् दीयते भाग्यः। भागिकः।
-5-1-50- तद्धरति वहत्यावहति भाराद् वंशादिभ्याः ।।
वंशादेः परस्माद् भारादर्थत्रये ठक् स्यात्। वंशभारं हरति वहति आवहति उत्पादयति वा वांशभारिकः।
बाल्वजभारिकः।
-5-1-51- वस्नद्रव्याभ्यां ठन्कनौ ।।
आभ्यामिमौ स्याताम्। वस्रं हरति वहत्यावहति वस्रिकः। द्रव्यकः।
-5-1-52- सम्भवत्यवहरति पचति ।।
एषु यथाविहितं स्यात्। प्रस्थं सम्भवति पचति वा प्रास्थिकःकटाहः। खारीकः। प्रमाणानतिरेकःउसम्भवः। संहरणम्उअवहारः।
। पचतौ द्रोणादण् च ।। द्रोणं पवति द्रोणः कटाहः। द्रौणी, द्रौणिकी वा स्थाली।
-5-1-53- आढकाचितपात्रात् खोऽन्यतरस्याम् ।।
एभ्यः पूर्वार्थेषु खो वा स्यात्। आढकं सम्भवत्यवहरति पचति वा आढकीना, आढकिकी वा। आचितीना, आचितिकी वा। पात्रीणा, पात्रिकी वा।
-5-1-54- द्विगोः ष्ठंश्च ।।
द्विगोः पूर्वार्थेष्वाढकाद्यान्तात् ष्ठन् वा स्यात्, खश्च। षित्त्वान् ङीष्। द्व्याढकिकी, द्व्याढकीना वा। द्व्याचिती, द्व्याचितीना वा। पक्षे ठञ्ञ्, तस्य अध्यर्धइति लुक्--द्व्याढकी, द्विगोःइति ङीप्। द्व्याचिता।
-5-1-55- कुलिजाल्लुक्खौ च ।।
द्विगोः कुलजाल्लुक्खौ वा स्याताम्। चकारात् ष्ठंश्च। द्विकुलिजी, द्विकुलिजीना, द्विकुलिजिकी वा। पक्षे ठञ्ञः श्रुतिरेव--द्वैकुलिजिकी।
-5-1-56- सोऽस्यांशवस्नभृतयः ।।
अत्रार्थे यथाविहितं स्यात्। पञ्ञ्चांशा वस्रानि भृतयो वाऽस्य पञ्ञ्चकः। शत्यः। शतिकः। सप्तकः।
-5-1-57- तदस्य परिमाणम् ।।
प्रथमासमर्थात् परिमाणार्थे यथाविहितं स्यात्। प्रस्थः परिमाणमस्य प्रास्थिको राशिः। खारीकः। वार्षशतिको यागः। षष्टिर्जीवितपरिमाणमस्य
षष्टिकः।
ःथ्द्य;ह द्वे षष्ठी जीवितपरिमाणमस्येति ठञ्ञः अध्यर्धपूर्वइति लुक्। सोऽस्यइति प्रकृतेः पुनः तदस्यइति निर्देशात् पुनष्ठञ्ञ्। तस्य च विधानसार्मथ्यादलुगिति जयादित्यः। संख्यायाः। संवत्सर
संख्यस्य चइत्युत्तरपदवृद्धिः। द्विषाष्टिकः। द्विसाप्ततिकः।त्रिसाप्ततिकः।
-5-1-58- संख्यायाः संज्ञासंघसूत्राध्ययनेषु ।।
संख्यावाचिनः पूर्वार्थे यथाविहितं स्यात्। संज्ञायां स्वार्थे विधिः--पञ्ञ्चैव पञ्ञ्चका नकुलाः। पञ्ञ्च परिमाणमस्य पञ्ञ्चकः सङ्घः । सूत्रे--अष्टवध्यायाः परिमाणमस्याष्टकं पाणिनीयं सूत्रम्। पञ्ञ्चावृत्तयः परिमाणमस्य पञ्ञ्चकमध्ययनम्।
-5-1-59- पङि्क्तविंशतित्रिशच्चत्वारिंपञ्ञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ।।
पङ्कत्यादयः साधवः स्युः। सहस्रादिवत् संज्ञाशब्दा एते। द्वौ पञ्ञ्चतौ पङि्क्तः, द्वौ दशतौ विंशतिः--ःथ्द्य;त्यादि व्युत्पत्तिमात्रम्, नान्वयः। तदुक्तं भाष्ये--अनारम्भो वा; प्रातिपदिकविज्ञानाद्, यथा सहस्रादिषु
ःथ्द्य;ति।
-5-1-60- पञ्ञ्चद्दशतौ वर्गे वा।।
एतौ वर्गे निपात्येते वा। पञ्ञ्च परिमाणमस्य पञ्ञ्चद वर्गः। पक्षे कन्--पञ्ञ्चकः। दशद् वर्गः, दशको वा।
-5-1-61- सप्तनोऽञ्ञ्छन्दसि ।।
छन्दःसूत्रम्।
-5-1-62- त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ।।
आभ्यां ब्राह्मणे वाच्ये डण् स्यात्। त्रिंशदध्यायाः परिमाणमेषां त्रैशानि ब्राह्मणानि। चात्वारिंशानि।
-5-1-63- तदर्हति ।।
अत्रार्थे यथाविहितं स्यात्। छत्रमर्हति च्छात्रिकः। शत्यः शतिकः।
तदइति वर्त्तते प्रागुत्तरपथात् ( 5.1.77 )।
-5-1-64- छेदादिभ्यो नित्यम् ।।
छेदादेः नित्यमर्हतिइत्यर्थे यथाविहितं स्यात्। छैदिकः। भैदिकः।
नित्यमइति क्रियाविशेषणम्।
-5-1-65- शीर्षच्छेदाद् यच्च ।।
अस्मात् तदर्हतीत्यर्थे यत् स्यात्, ठक् च। शीर्षच्छेद्यः, शैर्षच्छेदिको वा। प्रत्ययसन्नियोगेन शिरसो निपातनाच्छीर्षादेशः।
-5-1-66- दण्डादिभ्यो यः ।।
एभ्यो यः स्यात्। दण्डमर्हति दण्ड्यः। वध्यः। कण्ठ्यः। मधुर्पक्यः। युग्यः। कश्यः। धन्यः।
-5-1-67 छन्दसि च ।।
छन्दःसूत्रम्।
-5-1-68- पात्राद् घँश्च ।।
पात्राद् घन् स्यात्, यच्च। पात्रमर्हति पात्रियः। पात्र्यः।
-5-1-69- कडङ्गरदक्षिणाच्छ च ।।
आभ्यां छः स्याद् यच्च। कडङ्गरमर्हति कडङ्गरीयो वृषः। कडङ्गर्यः। दक्षिणीयः। दक्षिण्यः।
-5-1-70- स्थालीविलात् ।।
अस्माच्छः स्याद्, यच्च। स्थालीविलमर्हन्ति स्थालीविलीयाः, स्थालीविल्या वा तण्डुलाः। पाकयोग्याइत्यर्थः।
-5-1-71- यज्ञर्त्विग्भ्यां घखञ्ञौ ।।
आभ्ययां घखञ्ञौ स्याताम्। यज्ञमर्हति यज्ञियो ब्राह्मणः। आर्त्विजीनो यजमानः।
। तत्कर्मार्हतीत्युपसंख्यानम् ।। यज्ञियो देशः। आर्त्विजीनं विप्रकुलम्।
।।आर्हीयाः पूर्णाः ।।
तद्धितेषु प्राग्वतीयाः
अतः परं प्राग्वतेष्ठञ्ञ् (5.1.18) एव।
-5-1-72- पारायणतुरायणचान्द्रायणं वर्त्तयति ।।
एभ्यो वर्त्तयतीत्यर्थे ठञ्ञ् स्यात्। पारायणिक। द्वैपाराय णिकः। तौरायणिकः। चान्द्रयणिकः।
-5-1-73- संशयमापन्नः।
ठञ्ञ् स्यात्। सांशयिकः।
-5-1-74- योजनं गच्छति ।।
ठञ्ञ् स्यात्। यौजनिकः।
क्रौशशतिक-यौजनशतिकौ उपसंख्यानात्।
-5-1-75- पथः ष्कन् ।।
पन्थानं गच्छति पथिकः। षित्त्वान् ङी--पथिकी।
-5-1-76- पन्थो ण नित्यम् ।।
पथो णः स्यात् पन्थादेशाश्च नित्यं गन्तरि। पान्थः प्रसुप्तो युवा। स्त्रियां टाप्--पान्था स्त्री।
-5-1-77- उत्तरपथेनाहृतं च ।।
उत्तरपथाट् ठञ्ञ् स्यात्। तेनाहृतमौत्तरपथिकं दारु।
चकारात् तेन गच्छति। औत्तरपथिको दूतः।
। वारिजङ्गलस्थलकान्ताराजशङ्कुपूर्वाच्च ।। एतत्पूर्वात् पथष्ठञ्ञ्
स्यात्। तेनाहृतं गच्छति वा--वारिपथिकम्। जाङ्गलपथिकम्। स्थालपथिकम्। कान्तारपथिकम्। आजपथिकम्। शाङ्कुपथिकम्।
। स्थलवारिभ्यां पथो मधुकमरिचयोरण् ।। स्थालपथम् वारिपथं मधुकं मरिचं वा।
तत्र कालाधिकारः
-5-1-78- कालात् ।।
कालवाचिनः प्रत्यया वाच्याः। व्युष्टादिभ्योऽण् ( 5.1.97 )ःथ्द्य;ति यावत्।
-5-1-79- तेन निर्वृत्तम् ।।
अत्रार्थे कालाट् ठञ्ञ् स्यात्। अह्ना निर्वृत्तमाह्निकम्। अह्नष्टखोरेवइति नियमान्न टिलोपः। मासिकः। द्विसांवत्सरिकः। संख्याः संवत्सर0इत्युत्तरपदवृद्धिः।
-5-1-80- तमधीष्टो भृतो भूतो भावी ।।
तम्इति द्वितीयासमर्थात् कालवाचिशब्दादधीष्टाद्यर्थे ठञ्ञ् स्यात्। मासमधीष्टो भृतो भूतो भावी वा मासिकः। सांवत्सरिको गुरुर्दासो व्याधिरुत्सवो वा।
-5-1-81- मासाद् वयसि यत्खञ्ञौ ।।
वयसि गम्ये मासादिमौ स्याताम्। मासं भूतो भावी वा मास्यः। मासीनः शिशुः।
वयसि किम् ? मासिकः कर्मकरः।
-5-1-82- द्विगोर्यप् ।।
?B द्विगोर्मासाद् वयसि यप् स्यात्। द्वौ मासौ भूतो भावी वा द्विमास्यः।
त्रिमास्यः।
-5-1-83- षण्मासाण्ण्यच्च ।।
षण्मासाद् वयसि ण्यत् स्यात्, यप् च। षाण्मास्यः, षण्मास्यः। ठञ्ञपीत्येके--षाण्मासिकः।
-5-1-84- अवयसि ठँश्च ।।
अवयसि षण्मासाट् ठन् स्यात्, ण्यच्च। ष्ण्मासिको रोगः। षाण्मास्यः।
ठञ्ञपीत्येके--षाण्मासिकः।
-5-1-85- समायाः खः ।।
समाशब्दात् निर्वृत्ताद्यर्थपञ्ञ्चके खः स्यात्। समीनः।
-5-1-86- द्विगोर्वा ।।
द्विगोः समान्तान्निर्वृत्तादौ खः स्याद्वा। द्विसमीनः, द्वैसमिको वा।
-5-1-87- रात्र्यहःसंवत्सराच्च ।।
रात्र्याद्यन्ताद् द्विगोर्निर्वृत्तादौ खो वा स्यात्। पक्षे ठञ्ञ्। द्विरात्रीणः, द्वैरात्रिको वा। द्व्यहीनः, द्वैयह्निको वा। द्विसंवत्सरीणः, द्विसांवत्सरिको वा।
ःथ्द्य;ह द्व्यहीनःइत्यत्र समासान्तविधेरनित्यत्वान्न टच्, ततो नाह्नादेशः; तस्य टचि विधानात्।
-5-1-88- वर्षाल्लुक् च ।।
वर्षान्ताद् द्विगोर्निर्वृत्तादौ खठञ्ञौ वा स्याताम्, तल्लुक् च वा। द्विवर्षीणो व्याधिः, द्विवार्षिको वा। पक्षे
लुक्--द्विवर्षः। वर्षस्याभविष्यतिइत्युत्तरपदवृद्धिः। भाविनि तु--द्वैवर्षिकः।
-5-1-89- चित्तवति नित्यम् ।।
प्राणिनि वर्षान्ताद् द्विगोर्निर्वृत्तादौ नित्यं लुक् स्यात्। द्विवर्षो बालकः। द्विवर्षो वत्सः।
-5-1-90- षष्टिकाः षष्टिरात्रेण पच्यन्ते ।।
षष्टिरात्रात् कन् स्यादुत्तरपदलोपश्च निपात्यते। षष्टिकाः।
बहुत्वमतन्त्रम्, तेन षष्टिको व्रीहिरित्याहुः।
-5-1-91- वत्सरान्ताच्छश्र्छन्दसि ।।
-5-1-92- सम्परिपूर्वात् ख च ।।
छन्दःसूत्रद्वयम्।
-5-1-93- तेन परिजय्यल्भ्यकार्यसुकरम् ।।
एष्वर्थेषु कालाट् ठञ्ञ् स्यात्। मासेन परिजेतुं शक्यो लभ्यः कार्यः सुकरो वामासिकः। सांवत्सरिकः।
-5-1-94- तदस्य ब्रह्मचर्यम् ।।
कालादत्रार्थे ठञ्ञ स्यात्। मासं ब्रह्मचर्यमस्य मासिको विप्रः।
मासम्इत्यत्यन्तसंयोगे द्वितीया, तदिति प्रथमान्तम्, तेन मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रहृमचर्यमित्येके।
। तच्चरति महानाम्नयादिभ्यः ।। ठञ्ञ् स्यात्। महानाम्न्यो नाम ऋचस्तत्सहचरितं व्रतं महानाम्न्यः, ताश्चरति माहानाम्रिकः (1) आदित्यव्रतिकः। (1.) भस्याढे तद्धितेइति पुंवद्भावात् माहानामिकः--ःथ्द्य;ति पदमञ्ञ्जरी।
। अवान्तरदीक्षादिभ्यो डिनिः ।। पूर्वार्थे डिनिः स्यात्। तच्चरति--अवान्तरदीक्षी। देवव्रती।
। अष्टचत्वारिंशतो ड्वुण् डिनिश्च ।। अष्टचत्वारिंशद् वर्षाणि व्रतं चरति अष्टचत्वारिशकः। अष्टचत्वारिंशी विप्रः।
। चातुर्मास्यानां यलोपश्च ।। चातुर्मास्यानि व्रतानि चरति चातुर्मासकः। चातुर्मासी।
। चतुर्मासाण् ण्यो यज्ञे तत्र भवे ।। चतुर्मासे भवो यज्ञश्चातुर्मास्यः।
। संज्ञायामण् ।। चातुर्मासी। पौर्णमास्याः संज्ञा।
-5-1-95- तस्य च दक्षिणा यज्ञाख्येभ्यः ।।
यज्ञानाम्रः तस्य दक्षिणाइत्यर्थे ठञ्ञ् स्यात्। अग्रिष्टोमस्य दक्षिणा
आग्रिष्टोमिकी। राजसूयिकी।
-5-1-96- तत्र च दीयते कार्यं भववत् ।।
तत्रइति सप्तम्यन्ताद् दीयते, कार्यमित्यर्थयोस्तत्रभववत्प्रत्ययाः स्युः। मासे दीयते कार्यं वा मासिकम्। प्रावृषेण्यम्। हैमनम्।
।।उक्तः कालाधिकारः ।।
-5-1-97- व्युष्टादिभ्योऽण् ।।
एभ्योऽण् स्यात्। व्युष्टे दीयते कार्यं वा वैयुष्टम्। नैत्यम्।
-5-1-18- तेन यथाकथाचहस्ताभ्यां णयतौ ।।
आभ्यां णयतौ स्याताम्। तेन दीयते कार्यं वा। याथाकथाचम्। हस्त्यम्।
यथाकथाचइत्यव्ययसमुदायोऽनादरार्थकः।
-5-1-99- सम्पादिनि ।।
अत्र ठञ्ञ् स्यात्। चन्दनेन सम्पादि शोभि चान्दनिकम्। वपुश्चान्दनिकं यस्य कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्।
-5-1-100- कर्मवेशाद् यत् ।।
आभ्यां यत् स्यात् तेन सम्पाद्यर्थे। कर्मण्यं शरीरम्। वेश्यास्री। वेश्यं वपुः।
-5-1-101- तस्मै प्रभवति सन्तापादिभ्यः ।।
सन्तापादिभ्यष्ठञ्ञ् स्यात्। सन्तापाय प्रभवति सान्तापिकम्। सांग्रामिकम्। साक्तुमांसौदनिकः। साक्तुकः। मांसिकः। औदनिकः।
-5-1-102- योगाद् यच्च ।।
योगाय प्रभवति योग्यम्। ठञ्ञ् च--यौगिकम्।
-5-1-103- कर्मण उकञ्ञ् ।।
कर्मणे प्रभवतीति कार्मुकं धनुः।
-5-1-104- समयस्तदस्य प्राप्तम् ।।
समयादत्रार्थे ठञ्ञ् स्यात्। समयः प्राप्तोऽस्य सामयिकं कार्यम्।
किमसामयिकं वितन्वता।
तदस्य अनुवृत्तिः प्राग् वतेः (5.1.115)।
-5-1-105- ऋतोरण् ।।
तस्मादण् स्यात्। ऋतुः प्राप्तोऽस्यार्त्तवं पुष्पम्। आर्त्तवं फलम्।
-5-1-106- छन्दसि घस् ।।
छन्दःसूत्रम्।
-5-1-107- कालाद् यत् ।।
कालः प्राप्तोऽद्यस्य काल्यं वस्त्रम्। काल्या गौः प्रजने। काल्यं शीतम्।
-5-1-108- प्रकृष्टे ठञ्ञ् ।।
प्रकृष्टः कालोऽस्य कालिकं वैरम्।
ठञ्ञ्इति विस्पष्टार्थम्। कालिकमृणम्।
-5-1-109- प्रयोजनम् ।।
तदस्य प्रयोजनम्इत्यर्थे ठञ्ञ् स्यात्। ऐन्द्रमहिकम्। औत्सविकम्।
-5-1-110- विशाखाषाढादण् मन्थदण्डयोः ।।
आभ्यामनयोरण् स्यात्। वैशाखो मन्थः। द्रुततरकरदक्षाःक्षिप्तवैशाखशैले। आषाढो दण्डः। अथाजिनाषाढधरस्तपस्वी।
। चूडादिभ्यश्च ।। चूडा प्रयोजनमस्य चौडम्। श्रद्धा प्रयोजनमस्य श्राद्धम्। खाट्वः।
-5-1-111- अनुप्रवचनादिभ्यश्छः ।।
एभ्यश्छः स्यात् तदस्य प्रयोजनम्इत्यर्थे। अनुप्रवचनीयम्। अनुप्रयोजनीयम्। उत्थापनीयम्।
। विशिपदिपूरिरुहिप्रकृतेरनान्तात् सपूर्वपदात् । । गेहानुप्रवेशनीयम्। प्रपापूरणीयम्। अश्वारोहणीयम्। अश्वप्रपदनीयम्।
प्रासादारोहणीयम्।
। स्वर्गादिभ्यो यत् ।। स्वर्गः प्रयोजनमस्य र्स्वग्यः। आयुष्यः। यशस्यः। धन्यम्।
। पुण्याहवाचनादिभ्यो लुग् वक्तव्यः ।। पुण्याहवाचनं कर्म। स्वस्तिवाचनम्।
-5-1-112- समापनात् सपूर्वपदात् ।।
विद्यमानपूर्वपदात् समापनाच्छः स्यात् तदस्य प्रयोजनम्इत्यर्थे। व्रतसमापनीयं भोजनम्। कलहसमापनीयं दानम्। छन्दःसमापनीयम्।
-5-1-113- ऐकागारिकट् चौरे ।।
अयं चौरे निपात्यते। ऐकागारिकश्चौरः। ऐकागारिकवद् भूमौ दूराज्जग्मुरदर्शनम्।
ऐकागारिकी--टित्त्वान् ङीप्।
-5-1-114- आकालिकडाद्यन्तवचने ।।
स्तोककालयोराद्यन्तयोर्वचनेऽयं निपात्यते। आकालिको मेघः। टित्त्वाद्--आकालिकी। आकालिकीं वीक्ष्यम मधुप्रवृत्तिम्।
।।प्राग्वतेष्ठञ्ञुक्तः ।।
-5-1-115- तेन तुल्यं क्रिया चेद् वतिः ।।
तृतीयासमर्थात् क्रियातौल्ये वतिः स्यात्। विप्रेण तुल्यं विप्रवदधीते।
ःथ्द्य;ह क्रियया तुल्यत्वं क्रियाया एव सम्भवति। विप्रवदधीतेइति विप्रकर्तृकाध्यायनक्रियावृत्तेर्विप्रशब्दाद् वतिः। विप्रेण तुल्यं विप्रकर्तृकाध्ययनेन तुल्यं यथा स्यादेवमधीतइत्यर्थः।
एवं पुत्रं मित्रवदाचरेतृ। मित्रकर्मकाचरणक्रियया तुल्यं यथा स्यादेवं पुत्रमाचरेत्।
तथा पूर्ववत् सनःइत्यात्मनेपदं भवति। पूर्वशास्त्रापादानकात्मनेपदभवनक्रियया तुल्यं यथा स्यात्, तथा सन्नन्तादात्मनेपदं भवति।
एवं गुरुवद् गुरुपुत्रेषु प्रवर्त्तितव्यम्। पूर्वाधिकरणप्रवर्त्तनक्रियया तुल्यं
तत्पुत्रेषु प्रवर्त्तनमिति।
क्रियाग्रहणं किम् ? गुणतुल्ये मा भूत्, तेम--पुत्रेण तुल्यः स्थूलः।
-5-1-116- तत्र तस्येव ।।
सप्तमीषष्ठीसमर्थादिवार्थे वतिः स्यात्। मथुरावत् स्रग्घ्रे प्राकाराः। ब्राह्मणवत् क्षत्रियस्य दन्ताः शुक्लाः।
-5-1-117- तदर्हम् ।।
अत्रार्थे वतिः स्यात्। अर्हतीत्यर्हम्। पचाद्यच्। राजानमर्हति राजवत् वृत्तम्। मुनिवच्चरित्रम्।
नेह--विप्रमर्हति दधीति; अनभिधानात्।
-5-1-118- उपसर्गाच्छन्दसि धात्वर्थे ।।
छन्दःसूत्रम्।
-5-1-119- तस्य भावस्त्वतलौ ।।
भवतोऽस्मादभिधान-प्रत्ययाविति भावःउशब्दप्रवृत्तिनिमित्तं जात्यादिर्वस्तुधर्मः। तस्य भावःइत्यर्थे त्वतलौ स्याताम्। गोत्वम्, गोता। शुक्लत्वम्, शुक्लता। रूपत्वम्, रूपाता। क्रियात्वम्, क्रियाता। रसत्वम्, रसता।
समासकृत्तद्धितेषु सम्बन्धः प्रवृत्तिनिमित्तम्--राजपुरुषत्वम्। पाचकत्वम्। गार्ग्यत्वम्। यौष्माकीणत्वम्।
यद्दच्छाशब्दात् स्वरूपमात्रेऽभिधानम्-डित्थत्वम्। डवित्थत्वम्। कुत्वम्। चुत्वम्।
-5-1-120- आ च त्वात् ।।
आ ब्रह्मणस्त्वाद् ( 5.3.136 ) अपवादैः सह त्वतलौ समाविशतः। चकारान्नञ्ञ्स्रञ्ञ्भ्याञ्ञ्च। प्रथिमा, पृथुत्वम्, पृथुता। एवं पाटवम्, पटुत्वम्, पटुता। स्त्रैणम्, स्त्रीत्वम्, स्त्रीता। पौस्रम्, पुंस्त्वम्, पुंस्ता।
-5-1-121- नञ्ञ्पूर्वात् तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः ।।
नञ्ञ्तत्पुरुषाद् वक्ष्यमाणभावप्रत्ययो न स्यात्। यथा पत्यन्तपुरोहितादिभ्यो यक् बार्हस्पत्यम्। नञ्ञ्पूर्वान्न भवति--अपतित्वम्। अपतिता।
अचतुरादिभ्यः किम् ? आचतुर्यम्। आसङ्गत्यम। आलवण्यम्।
आवट्यम्। आबुध्यम्। आकत्पम्। आरस्यम्। आलस्यम्।
-5-1-122- पृथ्वादिभ्यइमनिज् वा ।।
एभ्यइमनिज् स्याद्वा। वा-वचनमणा समावेशार्थम्। पृथोर्भावः प्रथिमा,
पार्थवम्, पृथुत्वम्, पृथुता वा। तनिमा, तानवम्, तनुता, तनुत्वं वा।
पृथु-मृदु-पटु-महद्-गुरु-लघु-प्रिय-क्षिप्र-ह्रस्व-दीर्धबहुलादिःपृथ्वादिः।
-5-1-123- वर्णदृढादिभ्यः ष्यञ्ञ् च ।।
एभ्यः ष्वञ्ञिमनिचौ स्याताम्। वर्णात्--शौक्ल्यम्, शुक्लिमा। कार्ष्ण्यम्, कृष्णिमा। दृढादेः--दाढर्यम्, द्रढिमा। माधुर्यम्, मधुरिमा। वैमनस्यम्, विमनिमा।
षकारो ङीषर्थः--औचिती। आनुपूर्वी। वैदग्धी। त्वतलौ सर्वत्रोदाहर्त्तव्यौ।
ःथ्द्य;ह गुणवचनादेव ष्यञ्ञि सिद्धे वर्णग्रहणमिमनिजर्थम्। वधिरकृशशीतोष्णमधुरादीनाञ्ञ्च दृढादौ पाठः पक्षेइमनिजर्थः। कर्मणि च ष्यञ्ञ् मा भूत्।
-5-1-124- गुणवचनब्राह्मणादिभ्यः कर्मणि च ।।
एभ्यो भावे क्रियायाञ्ञ्च ष्यञ्ञ्च स्यात्। गुणवचनात्--जडस्य भावः क्रिया वा जाड्यम्। मौढ्यम्। कार्श्यम्।
स्थौल्यम्।
ब्राह्मणादेराकृतिगणाद्--ब्राह्मण्यम्। दौत्यम्।
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद्--दूतीनां कर्म दौत्यम्। आगतप्रियसखैरभिदौत्यम्।
ब्राह्मण, दूत, चौर, मध्यस्थ, कुशल, चपल, निपुण, पिशुन, दायाद, कवि, अक्षेत्रज्ञ। आकृतिगणोऽयम्। चापल्यादथ सरसस्तरङ्गहस्तैः।
। अर्हतो नुम् च ।। आर्हन्त्यम्, आर्हन्ती।
। चातुर्र्वण्यादीनां स्वार्थे ष्यञ्ञ् ।। चातुर्र्वण्यम्। आन्यभाव्यम्।
। आन्यभाव्यं तु कालशब्दवयाद् ।इति वररुचिः। औपम्यम्। यौगपद्यम्। सान्निध्यम्। चातुर्वैद्यम्। षाड्गुण्यम्। तार्दथ्यम्। त्रैलोक्यम्। साहित्यम्।
अतः परं भावे कर्मणि चइत्यापादमनुवर्तते।
-5-1-125- स्तेनाद् यन्नलोपश्च ।।
स्तेनशब्दाद् यत् स्यात्। नकारलोपश्च। स्तेनःउचौरः, तस्य भावः क्रिया वा स्तेयम्।
स्तैन्यशब्दस्तु पाञ्ञ्चायतलौहितिकःइतिवदागमिकइति भागवृत्तिः।
योगविभागात् ष्यञ्ञिति जयादित्यः।
-5-1-126- सख्युर्यः ।।
स्यात्। सख्यम्।
दूतवणिग्भ्याञ्ञ्चइति जयादित्यः। दूत्यम्। वणिज्या। ब्राह्मणादिपाठाद् वाणिज्यम्, दौत्यञ्ञ्च।
-5-1-127- कपिज्ञात्योर्ढक् ।।
आभ्यां ढक् स्यात्। कापेयम्। ज्ञातेयम्। भावः कर्म वेत्यर्थे।
-5-1-128- पत्यन्तपुरोहितादिभ्यो यक् ।।
एभ्यो यक् स्यात्। पत्यन्तात्--सैनापत्यम्। प्राजापत्यम्। गार्हपत्यम्। पुरोहितादेः--पौरोहित्यम्। राज्यम्। सैन्यम्।
-5-1-129- प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्ञ् ।।
एभ्योऽञ्ञ् स्यात्। प्राणिजातेः--औष्ट्रम्। वयोवचनात्-कौमारम्।उदगात्रादेः--औद्गात्रम्। औन्नेत्रम्।
-5-1-130- हायनान्तयुवादिभ्योऽण् ।।
एभ्योऽण् स्यात्। हायनान्तात्--द्वैहायनम्। यूनो भावः कर्म वा यौवनम्। स्थाविरम्। पौरुषम्।
सुहृद्। दुर्हृद्। चपल। निपुण। कुशल। अक्षेत्रज्ञ। पिशुन। कुतूहल।
। श्रोत्रियस्यं घलोपश्च ।। श्रौत्रम्।
-5-1-131-इगन्ताच्च लघुपूर्वात् ।।
ःथ्द्य;ग् यस्यान्ते तत्पूर्वश्च यो लघुस्तस्मादण् स्यात्। मौनम्। गौरवम्। शौचम्। पाटवम्। लाघवम्। हारीतकम्।
लघुपूर्वात् किम् ? पाण्डुत्वम्।
काव्यं तु ब्राह्मणादित्वात।
-5-1-132- योपधाद् गुरूपोतृतमाद् वुञ्ञ् ।।
त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम्। गुरूपोत्तमाद् योपधाद् वुञ्ञ् स्यात्। रामणीयकम्। आचार्यकम्। साहायकम्।
साहाय्यम्--ःथ्द्य;त्यपि ब्राह्मणादित्वादिति जयादित्यः। नेति भागवृत्तिः।
गुरूपोत्तमात् किम् ? क्षत्रियत्वम्।
-5-1-133- द्वन्द्वमनोज्ञादिभ्यश्च ।।
एभ्यो वुञ्ञ् स्यात्। द्वन्द्वात्--शैष्योपाध्यायिका। पैतापुत्रिका। कौत्सकुशिकिका।
मनोज्ञादेः--मानोज्ञकम्। प्रैयरूपकम्। आभिरूपकम्।
अमुष्यपुत्र। अमुष्यकुल। आढ्य। छात्र।
-5-1-134- गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु ।।
आभ्यां श्लाघाधिक्षेपे तत्प्राप्तिविषये भावे कर्मणि च वुञ्ञ् स्यात्। गोत्रात्-गार्गिकया श्लाघते। गार्गिकयात्याकुरुते। दाक्षिकामवेतः। चरणात्--काठिकया श्लाघते। काठिकायात्याकुरुते। बाहवृचिकामवेतः। श्लाघादिभ्योऽन्यत्र--गार्ग्यत्वमित्येव।
-5-1-135- होत्राभ्यश्दः ।।
होत्रा शब्दोऽयमृत्विजां वाचकः। बहुवचनं स्वरूपविधिनिरासार्थम्। होत्रावाचिभ्यश्छः स्यात्। अच्छावाकीयम्। मित्रावरुणीयम्। ब्राह्मणाच्छंसीयम्।
-5-1-136- ब्रह्मणस्त्वः ।।
होत्रावाचिनो ब्रह्मञ्ञ्शब्दाच्छापवादस्त्वः स्यात्। ब्रह्मत्वम्।