सामग्री पर जाएँ

भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १४६

विकिस्रोतः तः

अपराधशतव्रतवर्णनम्

।। श्रीवसिष्ठ उवाच ।। ।।
अथान्यदपि ते वच्मि व्रतं राजन्महाफलम् ।।
अपराधशतं येन क्षयं याति शृणुष्व तत् ।। १ ।।
।। इक्ष्वाकुरुवाच ।। ।।
किं व्रतं तन्ममाचक्ष्व कोऽपराधस्तु तं वद ।।
कः पूज्यते च वै तस्मिन्कदा वा क्रियते नरैः ।। २ ।।
।। श्रीवसिष्ठ उवाच ।।
शृणु राजन्महाबाहो अपराधशतव्रतम्।।
येनानुष्ठितमात्रेण काममोक्षौ लभेत ना ।। ३ ।।
प्रायश्चित्तान्यशेषाणि सर्वपापापनुत्तये ।।
कृतान्यप्यकृतानि स्युरिति होवाच पद्मजः ।। ४ ।।
पापं गुरुतरं चापि दह्यते तूलराशिवत् ।।
अपराधशतं राजञ्शृणुष्व गदतो मम ।। ५ ।।
न करोति नरो मोहाद्व्रतमेतद्दिनेदिने।।
अनाश्रमित्वं प्रथमोऽनग्निता व्रतहीनता ।। ६ ।।
अदातृत्वमशौचं च निर्दयत्वं स्पृहालुता ।।
अक्षांतिर्जनपीडा च मायित्वमप्यमंगलम् ।। ७ ।।
क्षतव्रतत्वं नास्तिक्यं वेदनिंदा कठोरता ।।
असत्यता हिंसकत्वं स्तैन्यमि न्द्रियविप्लवः ।। ८ ।।
मनसोऽनिग्रहश्चैव क्रोध ईर्ष्याथ मत्सरः ।।
दंभः शाठ्यं च धौर्त्यं च कटुकोक्तिः प्रमादता ।। ९ ।।
भार्यामातृसुतादीनां त्यागश्चापूज्य पूजनम् ।।
श्राद्धहानिर्जपत्यागः पंचयज्ञविवर्जनम् ।। 4.146.१० ।।
संध्यातर्पणहोमानां हानिरग्नेः प्रणाशनम् ।।
अनृतौ मैथुनं पार्थ पर्वण्यपि च मैथुनम् ।। ११ ।।
पैशुन्यं परदारेषु दानं वेश्याभिगामिता ।।
अपात्रदानं चाल्पं च मूलिकाकुलिभक्षणम् ।। १२ ।।
अंत्यजागमनं मातृत्यागः पितृविवर्जनम् ।।
पित्रोरभक्तिर्वादश्च पुराणस्मृतिवर्जनम् ।। १३ ।।
अभक्ष्यभोजनं चापि पतिद्रोहोऽविचारता ।।
कृषिकर्मक्रियावाहं भार्यासंग्रहकारिता ।। १४ ।।
इंद्रियाजयमायित्वं विद्याविस्मरणं तथा ।।
शास्त्रत्याग ऋणं चित्रकर्म चानंगधावनम् ।। १५ ।।
भार्यापुत्रसुतादीनां विक्रयः पशुमैथुनम्।।
इन्धनार्थं द्रुमच्छेदो बिले वार्यादिपूरणम् ।। १६ ।।
तडागागमने वृत्तं विद्याविक्रयकारिता ।।
वृत्तिलोपो महीपाल याचकत्वं कुमित्रता ।। १७ ।।
स्त्रीवधो गोवधश्चैव पौरोहित्यं सुहृद्वधः ।।
भ्रूणहत्या परान्नं च शूद्रान्नस्य निषेवणम् ।। १८ ।।
शूद्रस्य चाग्निकर्मत्वमविधित्वं कुपुत्रता ।।
विद्वद्भ्यो याचकत्वं हि वाचाटत्वं प्रतिग्रहः ।। १९ ।।
श्रौतसंस्कार दीनत्वमार्तत्राणविवर्जनम् ।।
ब्रह्महत्यासुरापानरुक्मस्तैन्यमतः परम् ।। 4.146.२० ।।
गुरुदाराभिगामित्वं संयोगश्चापि तैः सह ।।
अपराधशतं त्वेतत्कथितं ते मयानघ ।। २१ ।।
अन्येऽपि विविधाः संति प्रोक्ताः प्राधान्यतस्त्वमी ।।
यदि वक्त्रसहस्राणि वक्त्रे जिह्वाशतानि च ।। २२ ।।
तथाप्येते न शक्यंते वक्तुं यस्मादनंतकाः ।।
अपराधसहस्राणि लक्षकोटिशतानि च ।। २३ ।।
नश्यंति तत्क्षणान्नूनं सत्येशस्यानुपूजनात् ।।
पूज्ये भगवानत्र कृतकृत्ये पराजिते ।। २४ ।।
ध्वजे सत्ये स्थितश्चायं लक्ष्म्या सह जगत्पतिः ।।
वामदेवस्ततः पूर्वं नृसिंहो दक्षिणे स्थितः ।।२५ ।।
कपिलः पश्चिमास्ये तु वाराहश्चोत्तरे स्थितः।।
ऊर्ध्ववक्त्रोऽच्युतो ज्ञेय एतद्वै ब्रह्मपंचकम् ।। २६ ।।
तं सत्येशं स्थितं राजन्पूजयेच्च सदैव हि ।।
क्षीरोदयार्धचन्द्रस्थपद्मकर्णिकसंस्थितम् ।। २७ ।।
पद्मकौमोदकीशंखचक्रायुधविधारणम् ।।
वामे चाधस्तथा दक्षे ऊर्ध्वे पश्चादधो नृप ।। २८ ।।
पादाधस्ताद्विनिष्क्रांता गंगा पूता सदा नृभिः ।।
शक्त्यष्टकं तथा चान्यत्तन्नामानि च मे शृणु ।। २९ ।।
जया च विजया चैव जयंती पापनाशिनी।।
उन्मीलिनी वंजुली च त्रिस्पृशाथ विवर्द्धना ।।4.146.३०।।
एताभिः शक्तिभिर्युक्तं लोकदिक्पालवर्जितम् ।।
शुक्लांबरधरं सौम्यं प्रहृष्टवदनं शिवम् ।। ।। ३१ ।।
सर्वाभरणशोभाढ्यं भुक्तिमुक्तिप्रदं हरिम् ।।
पूजयेच्च प्रयत्नेन विधिना येन तं शृणु ।। ३२ ।।
मार्गशीर्षादिमासेषु द्वादशस्वपि सर्वदा ।।
द्वादश्यामप्यमायां वा अष्टम्यां च सितासिते ।। ३३ ।।
कृतोपवासः शुद्धात्मा कुर्याद्व्रतमतंद्रितः ।।
पक्षयोरुभयोरेवं पूजयेऽहं जनार्दनम् ।। ३४ ।।
एवं तु नियमं कृत्वा दंतधावनपूर्वकम् ।।
गच्छेत्ततस्तडागे वा पुष्करिण्यां गृहेऽपि वा ।। ३५ ।।
स्नात्वा तु नैत्यकं कर्म कृत्वा नैमित्तिकं ततः ।।
कुर्यात्सर्वं प्रयत्नेन यथावदनुपूर्वशः ।। ३६ ।।
सौवर्णं कारयेद्देवं पूर्वोक्तं सत्यरूपिणम् ।।
शक्त्यष्टकयुतं लक्ष्म्या युक्तं पद्मासनस्थया ।। ३७ ।।
सुवर्णपलमानेन कार्यमेतत्सविस्तरम् ।।
दुग्धकुंभोपरिष्टात्तु स्वर्णपद्मं प्रकल्पयेत् ।। ३८ ।।
तत्कर्णिकागतं देवं शक्तिवृन्दसमन्वितम् ।।
पूजयेद्विधिवत्पश्चाद्गुरुमंत्रप्रचोदितः ।। ३९ ।।
शुद्धशुक्लांबरधरो मंत्रसंभारसंस्थितः ।।
देवक्षीरसमुद्रेऽस्मिन्वृत्ते चन्द्रे च पुष्करे ।।
तत्र त्वं सत्यया सार्द्धं सत्येश भव सन्निधौ ।। 4.146.४० ।।
ॐ क्षीरसागरकल्लोले स्नाहि पापनिषूदन ।।
अनेन भूतभव्येन दत्तेन जलबिन्दुना ।। ४१ ।।
हरस्व सर्वं दुरितं मम नाथ जनार्दन ।।
वस्त्रदानेन शुभ्रेण सत्येश कुरु मे शुभम् ।। ४२ ।।
यज्ञे योगे तथा सांख्ये पवित्रस्त्वं सदोच्यसे ।।
यज्ञोपवीतदानेन कुरु मां सर्वपावनम् ।। ४३ ।।
विलिप्तं कर्मणा सर्वं सत्यं सत्यं न केनचित् ।।
मम चन्दनलिप्तांगः सर्वलेपापहो भव ।। ४४ ।।
सत्यनाथ नमस्तुभ्यं मूर्तामूर्तस्वरूपिणे ।।
वासुदेव नृसिंहाख्य कपिलादिव्यभूधर ।। ४५ ।।
वाराहाच्युत यज्ञेश लक्ष्मीकांत नृपेश्वर ।।
पशुं पुत्रं च मे देहि पापशत्रो निरंजन ।। ४६ ।।
संकर्षण महावीर्य सर्वेशामितविक्रम ।।
अनिरुद्धेन्द्र गोविन्द धृतचक्र नमोऽस्तु ते ।। ४७ ।। (इति पूजामंत्रः)
कृष्णकृष्ण प्रभो रामराम कृष्ण विभो हरे ।।
त्राहि मां सर्वदुःखेभ्यो रमया सह माधव ।। ४८ ।।
पूजा चेयं मया दत्ता पितामहजगद्गुरो ।।
गृहाण जगदीशान नारायण नमोऽस्तु ते ।। ४९ ।।
धनं गुप्तं महीपाल सर्वपापापनुत्तये ।।
एकस्यैव तु विप्रस्य यावद्वर्षं समर्पयेत् ।। 4.146.५० ।।
दानं दद्यान्महाराज ह्यशक्तौ तदभावतः ।।
पक्षेपक्षे प्रकर्तव्यं व्रतमेतन्महत्तरम् ।। ५१ ।।
संवत्सरे ततः पूर्णे कुर्यादुद्यापनं बुधः ।।
पूर्ववत्पूजयेदेवं बहुसंभारवि स्तरैः ।। ५२ ।।
अनुज्ञां प्रार्थयेद्विप्रान्पापघ्वंसो ममास्तु वै ।।
पापध्वंसोऽस्तु सततं तवेति च द्विजो वदेत् ।। ५३ ।।
ततः सर्वं ब्राह्मणाय समर्प्य च क्षमापयेत् ।।
अस्मिन्व्रते कृते राजन्भवेद्बहुफलोदयः ।। ५४ ।।
यत्फलं सर्ववेदेषु सर्वतीर्थेषु यत्फलम् ।।
तत्फलं कोटिगुणितं व्रतस्यास्य निषेवणात् ।। ५५ ।।
इहलोके धनं धान्यं पुत्रमित्रसुखादिकम् ।।
प्राप्नोति पुरुषः सम्यग्विद्यारोग्यकलायुधम् ।। ५६ ।।
धर्ममथ च कामं च मोक्षं च नृपसत्तम ।।
लभते नात्र संदेहो ब्रह्मणो वचनं यथा ।। ५७ ।।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।।
यः कुर्यात्पुनरेतद्धि सोऽनन्तफलभाग्भवेत् ।। ५८ ।।
अशक्तस्तु तथा शक्तो वित्तशाठ्यविवर्जितः ।।
व्रतं कुर्वन्नरो भक्त्या लभते शाश्वतं पदम् ।। ५९ ।।
कृते वै क्रियमाणे तु कर्ता फलमवाप्नुयात् ।।
अपराधशताघौघं व्रतेनानेन नाशयेत् ।। 4.146.६० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अपराधशतव्रतवर्णनं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ।। १४६ ।।