सामग्री पर जाएँ

भाषावृत्तिः/प्रथमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →

प्रथमोऽध्यायः । तृतीयः पादः।

-1-3-1- भूवादयो धातवः ।
भूवादयो धातुसंज्ञकाः स्युः। भू। भवति। एधँ। एधते।

-1-3-2- उपदेशोऽजनुनासिक इत्।
उपदिश्यत इत्युपदेशो धात्वादिः। तत्रानुनासिकविशिष्टोऽजित्संज्ञकः स्यात्। एधँ। स्पर्द्धं। प्रतिज्ञानुनासिक्याः पाणिनीयाः। तेनेहापि स्यात्। रगेँ। लगेँ।
(क) इर उपसंख्यानं कर्त्तव्यम् । भिदिर्। अभिदत्। हरितो वा इति च्लेरङ्।

-1-3-3- हलन्त्यम् ।
उपदेशेऽन्त्यं हलित्संज्ञं स्यात्। अइउण्। डुकृञ्। नदट्। सन्। पुक्। अनङ्।

-1-3-4- न विभक्तौ तुस्माः ।
विभक्तेस्तवर्गसकारमकारा इत्संज्ञा न स्युः। वृक्षान्। पचेरन्। यस्मिन्। पचतः। अपचम्।

-1-3-5- आदिर्ञॢटुडव: ।
इदित्येव। आदिभूता ञिटुडुकारा इत्संज्ञकाः स्युः। ञिमिदा मिन्नः। टुनदि नन्दथुः। डुपचँष् पक्त्रिमम्।

-1-3-6- षः प्रत्ययस्य ।
प्रत्ययस्यादिः षकार इत्संज्ञकः स्यात्। ष्वुन्। नर्त्तकी। खनकी। रजकी।

-1-3-7- चुटू ।
चवर्गटवर्गौ प्रत्यययादिभूतावित्संज्ञकौ स्याताम्। च्फञ्। कौञ्जायन्यः । जस्। ब्राह्मणाः। वृक्षाः। ञ्यः। शाण्डिक्यः। टः। कुरुचरी। डः। उपसरजः। अन्नाण्णः (4.4.85)। आन्नः। कथं केशचुञ्चुः केशचणः ? चित्कार्याभावात्। यादी चुञ्चुप्चणपौ लुप्तनिर्दिष्टयकाराविति भाष्यम्।

1.3.8- लशक्वतद्धिते ।
  लकारशकारकवर्गास्तद्धितवर्जिताः प्रत्ययस्यादिभूता इत्संज्ञकाः स्यु:। ल्यप्। विजित्य। ल्युट्। चयनम्। शप्। भवति। क्तः। भूतम्। खच्। प्रियंवदः। घुरच्। भासुरम्। भङ्गुरम्। ङे। पटवे। अतद्धिते किम् ? अवेः कः (5.4.28)। अविकः।

-1-3-9- तस्य लोपः ।
यस्येत्संज्ञा विहिता तस्य लोपः स्यात्। तथैवोदाहृतम्।

-1-3-10- यथासंख्यमनुदेशः समानाम् ।
समानां समसंख्यानामुद्देशिनामनुदेशिनाञ्चानुक्रमेणानुदेशः स्यात्। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) नन्दनः। ग्राही। पचः।

-1-3-11- स्वरितेनाधिकारः ।
स्वरितो नाम वर्णधर्म: कश्चित्। तेन चिह्नेनाधिकारो ज्ञेयः। यथाऽत्मनेपदम् (1.3.12)। प्रत्ययः (3.1.1)।
अङ्गस्य (6.4.1)।

-1-3-12- अनुदात्तङित आत्मनेपदम् ।
अनुदात्तेतो धातोर्ङितश्चात्मनेपदं स्यात्। आस्ते। वर्द्धते। ङितः। प्लवते। शेते। हंसायते। प्लवमानः। पवमानः। शयान:। उपदेश इत्येव। ङित्त्वातिदेशे मा भूत्। उच्चुकुटिषति।

-1-3-13- भावकर्मणोः ।
सर्वधातुभ्यो भावे कर्मणि चात्मनेपदं स्यात्। भावे। स्थीयते त्वया। विस्मीयते मया। कर्मणि। क्रियते कटः।

-1-3-14- कर्तरि कर्मव्यतिहारे ।
क्रियाविनिमये धातोरात्मनेपदं स्यात् कर्त्तरि। व्यतिभवते श्री: पद्मानाम्। व्यतिभवमाना: पुरुषा:। व्यतिलुनन्ते वीराः।

-1-3-15- न गतिहिंसार्थेभ्यः ।
एभ्य: क्रियाविनिमये धातोर्नास्ति तत्। व्यतिगच्छन्ति। व्यतिहिंसन्ति।
(क) हसादीनाञ्च । व्यतिहसन्ति। व्यतिजल्पेयुः। कर्त्तरीत्येव। व्यतिगम्यन्ते ग्रामाः।
(ख) हरतेरप्रतिषेधः। संप्रहरन्ते योधाः।

-1-3-16- इतरेतरान्योन्योपपदाच्च ।
आभ्यां युक्ताद् धातोर्नास्ति तत्। इतरेतरस्य व्यतिलुनन्ति। अन्योन्यस्य व्यतिपिबन्ति जलम्। चकारात् परस्परस्य व्यतिलुनन्ति।

-1-3-17- नेर्विशः ।
निपूर्वाद् विशतेरात्मनेपदं स्यात्। निविशते। कथं मधुनि विशन्ति भ्रमराः ? लाक्षणिकत्वात्।

-1-3-18- परिव्यवेभ्यः क्रियः ।
एभ्यः क्रियस्तत् स्यात् परिक्रीणीते। विक्रीणीते। अवक्रीणीते।
 
-1-3-19- विपराभ्याञ्जेः ।
आभ्याञ्जेस्तत् स्यात्। विजयते। पराजयते।

-1-3-20- आङो दोऽनास्यविहरणे ।
आङो दाञ्स्तत् स्यात्। आदत्ते धनम्। अनास्यविहरणे किम् ? व्याददाति मुखम्। कथं "किं व्यादत्से विहग वदनम्" ? कर्त्रभिप्राये भविष्यति।

-1-3-21- क्रीडोऽनुसंपरिभ्यश्च ।
एभ्य आङश्च क्रीडतेस्तत् स्यात्। अनुक्रीडते। संक्रीडते। परिक्रीडते। आक्रीडते।
(क) समोऽकूजनेऽभिधानान्नेह। संक्रीडन्ति रथाः।
(ख) आगमे: क्षमायामात्मनेपदम् । आगमयस्व तावन्माणवक। मा त्वरिष्ठा इत्यर्थः।
(ग) शिक्षेर्जिज्ञासायाम् । कलासु शिक्षते। विद्यासु शिक्षते। शकेः सनि रूपम्।
(घ) आशिष्येव नाथः । सर्पिषो नाथते गृध्नुः।
(ङ) हरतेर्गतताच्छील्ये । गतविधप्रकारास्तुल्यार्थाः इति भर्तृहरि:। सादृश्यशीलने हृञ्स्तत् स्यात्। जलधिमनुहरते सर:। पैतृकमश्वा अनुहरन्ते। गतिताच्छील्ये इति तु न्यासः।
(च) किरतेर्हर्षजीविकाकुलायकरणेषु । अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वाऽश्रयार्थी।
(छ) आङि नुप्रच्छयोः । आनुते शिवा। आक्रोशतीत्यर्थः। आपृच्छते। "आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्"।
(ज) शप उपलम्भने । प्रियायै शपते कामुकः।
 
-1-3-22- समवप्रविभ्यः स्थः ।
एभ्यस्तिष्ठतेस्तत् स्यात्। सन्तिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठमानः।
?B (क) आङः स्थः प्रतिज्ञाने । वस्तु क्षणिकमातिष्ठन्ते बौद्धाः।
 
-1-3-23- प्रकाशनस्थेयाख्ययोश्च ।
अत्र स्थस्तत् स्यात्। धनिभ्यस्तिष्ठते वेश्या। स्वं प्रकाशयतीत्यर्थः। नृपतौ तिष्ठते जनः। तं स्थेयं करोतीत्यर्थः।

-1-3-24- उदोऽनूर्ध्वकर्मणि ।
उदस्थस्तत् स्यादनूर्ध्वचेष्टायाम्। स्वार्थेषूत्तिष्ठते। मुक्तावुत्तिष्ठते जन:। तत्रोत्सहत इत्यर्थ:।
अनूर्ध्वग्रहणं किम्? "जवेन पीठादुदतिष्ठदच्युतः।"

-1-3-25- उपामन्त्रकरणे ।
उपात् स्थस्तत् स्यान्मन्त्रश्चेत् करणम्। गायत्र्या सूर्यमुपतिष्ठते ब्राह्मण:।
(क) उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वक्तव्यम् । विप्रोऽर्कमुपतिष्ठते। गङ्गा समुद्रमुपतिष्ठते। राजा राजानमुपतिष्ठते। अयं पन्थाः कपित्थीमुपतिष्ठते।
(ख) वा लिप्सायाम् । अर्थी दातारमुपतिष्ठते उपतिष्ठति वा।

-1-3-26- अकर्मकाच्च ।
उपात् स्थस्तत् स्यात्। यावद्भोजनमुपतिष्ठते। अकर्मकाद् विधिश्चतु:सूत्र्याम्।

-1-3-27- उद्विभ्यां तप: ।
आभ्यां तपस्तत् स्यात्। उत्तपते। वितपते रविः। अकर्मकादित्येव। उत्तपति सुवर्णं सुवर्णकारः।
(क) स्वाङ्गकर्मकाच्च । वितपते स्वं षृष्ठम्।

-1-3-28- आङो यमहनः ।
तत् स्यात्। आयच्छते। व्यायच्छमानः। आहते। स्वाङ्गकर्मकाच्च । आहते स्वं वक्षः।

-1-3-29- समो गम्यृच्छिप्रच्छिस्वरत्यर्त्तिश्रुविदिभ्यः।
संपूर्वाद् गमादेस्तत् स्यात्। सङ्गच्छते। सञ्जग्मे। समृच्छते। समृच्छिष्यते। सम्पृच्छते। संस्वरते। ऋ । समृच्छते। समियृते। संशृणुते। विद ज्ञाने। संवित्ते। अकर्मकादित्येव। वादं सङ्गच्छति।
(क) दृशेश्चेति वक्तव्यम् । सम्पश्यते।

-1-3-30- निसमुपविभ्यो ह्वः ।
एभ्यो ह्वेञस्तत् स्यात्। निह्वयते त्वाम्। संह्वयते सखीम्। उपह्वयते। विह्वयते।
(क) उपसर्गादस्यत्यूह्योर्वावचनम् । निरस्यति निरस्यते। समूहन् समूहमानः।

-1-3-31- स्पर्द्धायामाङः ।
आङो ह्वेञ्स्तत् स्यात् स्पर्द्धा चेत्। मल्लो मल्लामाह्वयते।

-1-3-32- गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ।
एष्वर्थेषु कृञस्तत् स्यात्। हिंसासूचनम् गन्धनम्। उदाकुरुते। भर्त्सनमवक्षेपणम्। उत्कुरुते शत्रून्। सेवने नृपं प्रकुरुते। साहसे परस्त्रीं प्रकुरुते। धर्माद्युपयोगे शतं प्रकुरुते। प्रतियत्ने षष्ठी सुट् च। गुणानामुपस्कुरुते। प्रकथने सद्धर्मं प्रकुरुते।

-1-3-33- अधेः प्रसहने ।
प्रसहनमभिभवः। उपेक्षा वा। तत्राधेः कृञस्तत् स्यात्। तमधिचक्रे। "भवादृशाश्चेदधिकुर्वते रतिम्"।

-1-3-34- वे: शब्दकर्मणः ।
वे: कृञ: शब्दकर्मकात् तत् स्यात्। क्रोष्टा विकुरुते स्वरान्।
 
-1-3-35- अकर्मकाच्च ।
अकर्मकाद्वेः कृञस्तत् स्यात्। विकुर्वते च्छात्रा:। यथेष्टं चेष्टन्त इत्यर्थः।

-1-3-36- सम्माननोत्सञ्नाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ।
एष्वर्थेषु विशेषणेषु नीञस्तत् स्यात्। शास्त्रार्थं नयते। उपपत्तिभिः सम्मानयति। बालकमुपनयते। उत्सञ्जयत्युत्क्षिपति। शिष्यमुपनयते। आत्मवदाचार्यीकरोति। नयतेऽर्थान् धीरः। ज्ञानविषयीकरोति। कर्मकरानुपनयते। भृत्या समीपीकरोति। विगणनमृणादिपरिशोधनम्। मद्राः कारं विनयन्ते। व्यये। शतं विनयते धर्मादौ।

-1-3-37- कर्तृस्थे चाशरीरे कर्मणि ।
अशरीरे कर्मणि सति नीञस्तत्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थे किम् ? गुरोः कोपं विनयति। अशरीरे किम् ? गडुं विनयति। मण्डूकप्लुत्या वेरित्येव। क्रोधं समुन्नयति। "अपनय मानिनि मानम्"।

-1-3-38- वृत्तिसर्गतायनेषु क्रम: ।
अप्रतिघातोत्साहस्फीतत्वेषु क्रमेस्तत् स्यात्। मन्त्रेऽस्य क्रमते बुद्धिः। युद्धाय क्रमते भटः। प्राज्ञे शास्त्राणि क्रमन्ते।

-1-3-39- उपपराभ्याम् ।
आभ्यामेवोपसृष्टात् क्रमेरनन्तरसूत्रेणात्मनेपदं स्यात्। मन्त्रेऽस्योपक्रमते बुद्धिः। युद्धाय पराक्रमते भट इत्यादि।


-1-3-40- आङ उद्गमने ।
आङः क्रमेस्तत् स्यात्। आक्रमते भानुः। ज्योतिरुद्गमनेऽभिधानान्नेह। आक्रामति धूमो हर्म्यतलम् । उद्गमने किम् ? आक्रामति गिरिं रविः। अवष्टभ्नातीत्यर्थः।

-1-3-41- वेः पादविहरणे ।
वेः क्रमेः पादविक्षेपे तत् स्यात्। सुष्ठु विक्रमतेऽश्वः।
 
-1-3-42- प्रोपाभ्यां समर्थाभ्याम् ।
आदिकर्मणि समर्थाभ्यां प्रोपाभ्यां क्रमेस्तत् स्यात्। प्रक्रमते भोक्तुम्। उपक्रमते श्रोतुम्।
 
-1-3-43- अनुपसर्गाद्वा ।
अप्रादेः क्रमेस्तद् वा स्यात्। क्रमते। क्रामति वा।

-1-3-44- अपह्नवे ज्ञः।
निह्नुतौ जानातेस्तत् स्यात्। शतमपजानीते।
 
-1-3-45- अकर्मकाच्च ।
ज्ञोऽकर्मकात् तत् स्यात्। सर्पिषो जानीते। करणे षष्ठी।

-1-3-46- संप्रतिभ्यामनाध्याने ।
आभ्यां ज्ञस्तत् स्यात्। गां सञजानीते। कन्यां दातुं प्रतिजानीते। अनाध्याने किम् ? स्मृतौ मा भूत्। मातुः संजानाति। स्मरतीत्यर्थः।

-1-3-47- भासनोपसम्भाषाज्ञानयत्नविमत्युमन्त्रणेषु वदः ।
एष्वर्थेषु विशेषणेषु वदेस्तत् स्यात्। भासनं शोभा। वदते चार्वी लोकायते। वदमानः। उपसम्भाषोपसान्त्वनम्। बालकमुपवदते। ज्ञाने। अयमेको वदते। यत्ने। गेहे वदते। विविधमतौ। क्षेत्रे विवदन्ते कृषकाः। उपमन्त्रणं रह: पृच्छा। परस्त्रीमुपवदते।

-1-3-48- व्यक्तवाचां समुच्चारणे ।
मनुष्याणां सहोक्तौ वदेस्तत् स्यात्। सम्प्रवदन्ते विप्राः । व्यक्तवाचामिति किम् ? "वरतनु संप्रवदन्ति कुक्कुटाः"। सहोक्तौ किम् ? क्रमेण वदन्ति च्छात्राः।

-1-3-49- अनोरकर्मकात् ।
अनोर्वदेस्तत् स्यात्। अनुवदते कठः कलापस्य। तद्वद्वदतीत्यर्थः। अकर्मकात् किम् ? पूर्वोक्तमनुवदति।
 
-1-3-50- विभाषा विप्रलापे ।
विप्रलापात्मके सहोच्चारणे वदेस्तद् वा स्यात्। विप्रवदन्ते गणका विप्रवदन्ति वा। सहोक्तौ किम् ? क्रमेण वदन्ति च्छात्राः।

-1-3-51- अवाद् ग्रः ।
अवाद् गिरतेस्तत् स्यात्। अवगिरते मांसम्। अवगिरन्ते माषम्।
 
-1-3-52- समः प्रतिज्ञाने ।
सङ्गिरतेः प्रतिज्ञानार्थात् तत् स्यात्। कार्यं शब्दं सङ्गिरते।

-1-3-53- उदश्चरः सकर्मकात् ।
उच्चरतेस्तत् स्यात्। घनानुच्चरते रजः। उत्क्रम्य गच्छतीत्यर्थः। सकर्मकात् किम् ? शङ्खध्वनिरुदचरत्। नाद उच्चरति।

-1-3-54- समस्तृतीयायुक्तात् ।
तृतीयान्तेन योगे सञ्चरतेस्तत् स्यात्। रथेन सञ्चरते विद्याधरः।

-1-3-55- दाणश्च सा चेच्चतुर्थ्यर्थे ।
अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वाच्या। तद्युक्तात् सम्प्रदाणस्तत् स्यात्। दास्या मालां सम्प्रयच्छते कामुकः। दास्यै मालां ददातीत्यर्थः।
 
-1-3-56- उपाद् यमः स्वकरणे ।
उपपूर्वाद् यमेः स्वीकारे तत् स्यात्। कन्यामुपयच्छते। "उपायंस्त महास्त्राणि।" "उपायंसत नासवम्। न स्वीचक्रुरित्यर्थ.।

-1-3-57- ज्ञाश्रुस्मृदृशां सनः ।
सन्नन्तानामेषां तत् स्यात्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। सुस्मूर्षते। दिदृक्षते।
 
-1-3-58- नानोर्ज्ञः ।
अनोर्ज्ञस्तन्नास्ति। पुत्रमनुजिज्ञासति।
 
-1-3-59- प्रत्याङ्भ्यां श्रुवः ।
सन्नन्तादाभ्यां श्रुवस्तन्नास्ति। प्रतिशुश्रूषति। आशुश्रूषति।

-1-3-60- शदेः शितः ।
शदेः शिन्निमित्तादात्मनेपदं स्यात्। शीयते। शितः किम् ? शत्स्यति।
 
-1-3-61- म्रियतेर्लुङ्लिङोश्च ।
लुङ्लिङोरेव म्रियतेः शितश्च तत् स्यात् अमृत। मृषीष्ट। म्रियते। नियमः किम् ? मरिष्यति। ममार।
कर्त्तरि नियमान् "मम्रे पतङ्गवद्वीरैः।

-1-3-62- पूर्ववत् सनः ।
असन्नन्तवत् सन्नन्तादात्मनेपदं स्यात्। आस्ते आसिसिषते। विजयते विजिगीषते। पचति पचते पिपक्षति पिपक्षते।

-1-3-63- आमप्रत्ययवत् कृञोऽनुप्रयोगस्य ।
आम्प्रत्ययान्तधातुवदनुप्रयुक्तस्य कृञस्तत् स्यात्। इहते, इहाञ्चक्रे।

-1-3-64- प्रोपाभ्यां युजेरयज्ञपात्रेषु ।
      प्रोपाभ्यां युजेस्तत् स्यात् । प्रयुङ्क्ते। उपयुङ्क्ते। नेह। यज्ञपात्राणि प्रयुनक्ति धीरः।
(क) स्वराद्यन्तोपसृष्टाद् युजेरिति वक्तव्यम् । उद्युङ्क्ते। नियुङ्क्ते। उपयुङ्क्ते। कथं केवलात् "प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् इति ? कर्त्रभिप्राये भविष्यति।
 
-1-3-65- समः क्ष्णुवः ।
संक्ष्णौतेस्तत् स्यात्। संक्ष्णुते शस्त्रम्।

-1-3-66- भुजोऽनवने ।
तत् स्यात्। भुङ्क्ते भुञ्‍जाते। अनवने किम् ? भुनक्ति राजा पृथ्वीम्। पालयतीत्यर्थः। भुजो भक्ष इति नोक्तम्। अनुभवेऽपि यथा स्यात। सुखमनुभुङ्क्ते।

-1-3-67- णेरणौ यत् कर्म णौ चेत् स कर्त्ताऽनाध्याने ।
अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तादात्मनेपदं स्याद्ण्यन्ते यत् कर्म णौ चेत् स कर्त्ता भवति। आरोहति करेणुं निषादी। "करेणुरारोहयते निषादिनम्"। पश्यन्ति भृत्या नृपम्। दर्शयते भृत्यान्नृपः। अनाध्याने किम् ? स्मृतौ मा भूत्। स्मरति वनगुल्मं कोकिलः। स्मरयत्येनं वनगुल्मः स्वयमेव।

-1-3-68- भीस्म्योर्हेतुभये ।
ण्यन्तयोर्भीस्मिङोस्तत् स्यात्। मुण्डो भीषयते। जटिलो विस्मापयते। हेतुभये किम् ? काष्ठिकया भाययति। करणादत्र भयम्।

-1-3-69- गृधिवञ्च्योः प्रलम्भने ।
ण्यन्तयोर्गृधिवञ्च्योर्विसंवादने तत् स्यात्। शिशुं गर्द्धयते। शिशुं वञ्चयते। प्रलम्भने किम् ? अहिं वञ्चयति वालः।

-1-3-70- लियः सम्माननशालीनीकरणयोश्च ।
लियो ण्यन्तात् पूजापरिभवयोः प्रलम्भने च तथा स्यात्। जटाभिरालापयते। श्येनो वर्त्तिकामुल्लापयते। शिशुमुल्लापयते। अन्यत्र कन्यामुल्लापयति।

-1-3-71- मिथ्योपपदात् कृञ्ञोऽभ्यासे ।
ण्यन्तात् कृञ्ञस्तत् स्यात् अभ्यासे पुनःपुनरावृत्तौ। पदं मिथ्या कारयते।

-1-3-72- स्वरितञितः कर्त्रभिप्राये क्रियाफले ।
स्वरितेतो धातोर्ञितश्चात्मनेपदं स्यात् कर्त्तारञ्चेत् क्रियाफलमभिप्रैति। पचते। यजते। ञित:। कुरुते। कण्डूयते। कर्त्रभिप्राये किम् ? परार्थे मा भूत्। पचति। करोति। यजति। कथं परार्थे विक्रीणीते प्रयुङ्क्त इत्यादि ? डुक्रीञ्‌दाञ्ह्वेञ्कृञ्हृञ्नीञ्युजां विशेषविधानात्।

-1-3-73- अपाद्वदः ।
तत् स्यात्। धान्यार्थीं न्यायमपवदते। धनार्थी न्यायमपवदते।

-1-3-74- णिचश्च ।
णिजन्तात् तथा स्यात्। कारयते। पाचयते। परार्थे कारयति। पाचयति।

-1-3-75- समुदाङ्भ्यो यमोऽग्रन्थे ।
एभ्यो यमस्तत् स्यात्। इन्द्रियाणि संयच्छते। भारमुद्यच्छते। वस्त्रमायच्छते। आयंस्त पादम्। अग्रन्थविषये किम् ? चिकित्सामुद्यच्छति वैद्य:।

-1-3-76- अनुपसर्गाज्ज्ञः ।
तथैव स्यात्। गां जानीते। परार्थे गां जानाति। कथं सर्पिषो जानीत इति ? अकर्मकाच्चेति (1.3.45) परार्थे विधानात्।

-1-3-77- विभाषोपपदेन प्रतीयमाने ।
समीपपदावगते कर्त्रभिप्राये तद् वा स्यात्। स्वं कटं कुरुते करोति वा। एवं पञ्चसूत्र्यामुन्नेयम्। उक्तं कर्त्रभिप्राये । अथ परस्मैपदमेकादशभिः सूत्रैः।

-1-3-78- शेषात् कर्त्तरि परस्मैपदम् ।
आत्मनेपदहीनाद् धातोः कर्त्तरि परस्मैपदं स्यात्। याति। वाति। प्रविशति। शेषात् किम् ? रोचते।

-1-3-79- अनुपराभ्यां कृञ्ञः ।
एभ्यः कृञः स्वार्थेऽपि परस्मैपदं स्यात्। अनुकरोति। पराकरोति।
 
-1-3-80- अभिप्रत्यतिभ्यः क्षिपः ।
एभ्यः क्षिपस्तत् स्यात्। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति।

-1-3-81- प्राद्वहः ।
प्रवहतेस्तथा स्यात्। प्रवहति।

-1-3-82- परेर्मृषः ।
तत् स्यात्। परिमृष्यति।

-1-3-83- व्याङ्परिभ्यो रमः ।
एभ्यो रमेस्तत् स्यात्। विरमति। व्यरंसीत्। आरमति। परिरमति। एभ्यः किम् ? अभिरमते।

-1-3-84- उपाच्च ।
उपाद्रमेस्तत् स्यात्। देवदत्तमुपरमति। ण्यर्थोंऽत्र गम्यते।

-1-3-85- विभाषाऽकर्मकात् ।
अकर्मकादुपरमतेस्तद्वा स्यात्। भोजनादुपरमति उपरमते वा। अथ णिचश्चेति (1.3.74) प्राप्ते बाधकत्रयमाह।

-1-3-86- बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ।
बुधादेर्ण्यन्तात् परस्मैपदं स्यात्। बोधयति पद्मम्। योधयति काष्ठम्। नाशयति पापम्। जनयति सुखम्। अध्यापयति शिष्यम्। प्रावयत्यर्थान् धीरः। द्रावयति लौहम्। स्रावयति कुण्डीम्।

-1-3-87- निगरणचलनार्थेभ्यश्च ।
भक्षणकम्पनार्थेभ्यो ण्यन्तेभ्यस्तत् स्यात्। आशयति। भोजयति। चलयति। कम्पयति शाखां वात:।
(क) अदेः प्रतिषेधः । आदयतेऽन्नं पुत्रेण पिता।

-1-3-88- अणावकर्म्मकाच्चित्तवत्कर्त्तृकात् ।
अण्यन्ते यो धातुरकर्मकश्चित्तवत्कर्त्तृकश्च ततो ण्यन्तात् परस्मैपदं स्यात्। आस्ते विप्रः। आसयति विप्रम्। शाययति मित्रम्। चित्तवत्कर्तृकात् किम् ? शोषयते व्रीहीनातपः। कर्तरीत्येव। शायते विप्रो भवता।

-1-3-89- न पादम्याङयमाङयसपरिमुहरुचिनृतिवदवसः ।
एषामनन्तरसूत्राभ्यां परस्मैपदं नास्ति। ततः तङानावेव स्याताम्। पाययते घृतम्। दमयते शत्रून्। आयामयते। आयासयते। आयासयमानः। परिमोहयते। रोचयते। नर्त्तयते। वादयते। वासयते। अकर्त्रभिप्राये तु दमयति गजम्। नर्त्तयति भुजम्। भिक्षां वासयति। धेट उपसंख्यानं कर्त्तव्यम् । धापयते शिशुम्।

-1-3-90- वा क्यष: ।
क्यषन्तादात्मनेपदं वा स्यात्। लोहितायति, लोहितायते वा।

-1-3-91- द्युद्भ्यो लुङि ।
द्युतादेर्लुङ्यात्मनेपदं वा स्यात्। व्यद्युतद्, व्यद्योतिष्ट वा। द्युतादयोद्वाविंशतिः।

-1-3-92-वृद्भ्यः स्यसनोः ।
वृतुवृधुशृधुस्यन्दूभ्यः स्ये सनि च तद्वा स्यात्। वर्त्स्यति, वर्तिष्यते वा। अर्वत्स्यत्, अवर्त्तिष्यत वा। विवृत्सति, विवर्त्तिषते वा।

-1-3-93- लुटि च क्लृपः ।
क्लृपेर्लुटि स्यसनोश्च तद्वा स्यात्। कल्प्तासि कल्पितासे वा। कल्प्स्यति कल्पिष्यते वा। अकल्प्स्यत् अकल्पिष्यत वा। चिक्लृप्सति चिकल्पिषते वा।

इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
प्रथमाध्यायस्य तृतीयः पादः ।।1।3।।
समाप्तश्च भूपादः ।