भाषावृत्तिः/प्रथमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव

प्रथमाध्याये चतुर्थः पादः।

-1-4-1- आ कडारादेका संज्ञा ।
कडारा: कर्मधारये ( 2.2.38 ) इत्यत: प्रागेकैव संज्ञा बोद्धव्या। सा च क्वचिदनवकाशा यथा भसंज्ञा राजभ्यामित्यादौ सावकाशां पदसंज्ञां बाधते राज्ञा राज्ञे। क्वचित् परा यथा बहुव्रीहिसंज्ञा तत्पुरुषसंज्ञा बाधते वीरपुरुषको ग्राम इति। इहाङ्गसंज्ञया भपदसंज्ञयोः समावेशो वक्तव्यः। तेन बाभ्रव्य इत्याङ्गत्वादादिवृद्धिः भत्वादी र्गुणः (6.4.146)। धानुष्क इत्यत्राङ्गत्वादादिवृद्धिः। पदत्वादिणः षत्वम्।

-1-4-2- विप्रतिषेधे परं कार्यम् ।
तुल्यवलयोर्विरोधे परं यत् तत् कार्यं स्यात्। सुपि चेति (7.3.102) दीर्घः। वृक्षाभ्याम्। बहुवचने झल्येत् (7.3.103)। वृक्षेषु। विरोधे परम्। वृक्षेभ्यः। नित्यानित्ययोस्तु नित्यं बलवत्। अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवत्। उत्सर्गापवादयोश्चापवादः।

-1-4-3- यू स्त्र्याख्यौ नदी ।
इह स्त्रियमाचष्ट इति स्त्र्याख्यः शब्दः संज्ञी। ई ऊ यू इति च तद्विशेषणमिति तदन्तविधिः। ईदूदन्तं स्त्रीलिङ्गं नदीसंज्ञं स्यात्। ईदूतोरेवेयं संज्ञेति भागवृत्तिः। कुमार्यै। लक्ष्म्यै। धीबन्ध्वै। यवाग्वै। आख्याग्रहणं किम् ? पदान्तरद्योत्ये स्त्रीत्वे मा भूत्। सेनान्ये स्त्रियै। कथमतिलक्ष्म्यै विप्राय ? बहुप्रेयस्यां राजनि ? अवयवस्त्रीविषयत्वात् सिद्धम् इति भाष्यम्।

-1-4-4- नेयङुवङ्स्थानावस्त्री ।
इयङु वङाधारौ यू नदीसंज्ञकौ न स्तः। हे श्रीः। हे धीः। हे भ्रूः। अस्त्रीति किम् ? हे स्त्रि।

-1-4-5- वाऽऽमि ।
प्रतिषेधोऽयमामि वा स्यात्। श्रियाम् श्रीणाम्। भ्रुवाम् भ्रूणाम्।

-1-4-6- ङिति ह्वस्वश्च ।
ङिति चासौ प्रतिषेधो वा स्यात्। श्रियै श्रिये। भ्रुवै भ्रुवे। भुवां शेते भुवि शेते। ह्रस्वश्च। ङिति ह्रस्वौ यू वा नदीसंज्ञकौ स्याताम्। मत्यै मतये। धेन्वै धेनवे। स्त्र्याख्यावित्येव। अग्रये। वायवे। इहामि ङिति च ह्रस्वयोरियङ वङस्थानयोश्च य्वोः पाक्षिकी नदीसंज्ञा। सा स्त्रीवचन एवेष्यते। नावयवाश्रयेति स्मृतिः। तेन सुमतये अतिश्रिये सुधिये विप्राय। सुधियां विप्राणाम्। मञ्जुश्रियि सुधियि विप्र इति भवति।

-1-4-7- शेषो घ्यसखि ।
ह्रस्वेदुदन्तमनदी शेषो घिसंज्ञः स्यात्। घेर्ङिति (7.3.111) इति गुणः । अग्नये। विष्णवे। वायवे। मतये। धेनवे। असखि किम् ? सख्या। सख्ये। सख्युः। सख्यौ। इह ह्रस्वेदुन्मात्रं घिसंज्ञम्। तथा च द्वन्दे घि (2.2.32) इत्यत्र घ्यन्तं पूर्वं निपतति इत्युच्यते। तेनासखीत्यत्र सखिशब्देकारस्य घित्वनिषेधात् सखिशब्दावयवत्वेऽपि बहुसख्या कृतम् बहुसख्युः स्वमित्याहुः। सुसखेरागच्छतीति तु न्यासः।

-1-4-8- पतिः समास एव ।
समासे पतिशब्दो घिसंज्ञः स्यात्। श्रीपतिना। श्रीपतये। श्रीपतेः। श्रीपतौ। नान्यत्र पत्या। पत्ये । पत्युः । पत्यौ।
-1-4-9- षष्ठीयुक्तश्छन्दसि वा।
छन्दः सूत्रम्।

-1-4-10- ह्वस्वं लघु ।
ह्रस्वमक्षरं लघूच्यते। भेदनम्। गर्धनम्। वर्धनम्।

-1-4-11- संयोगे गुरु ।
संयोगे परे ह्रस्वमक्षरं गुरुच्यते। शिक्षा। भिक्षा।

-1-4-12- दीर्घञ्च ।
दीर्धमक्षरं गुरूच्यते। इर्हाञ्चक्रे। ऊहाञ्चक्रे।

-1-4-13- यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।
यस्मात् प्रत्ययो विधीयते तदादि अङ्गसंज्ञं स्यात्। कर्त्ता, कारकः। लविता, लावकः। तदादीति किम् ? करिष्यमाणः। पचामः। स्याद्यन्तस्याप्यङ्गत्वे मुग्-दीर्घौ। पुनः प्रत्ययग्रहणं किम् ? लुप्तेऽपि प्रत्ययेऽन्यस्मिन् परे मा भूत्। श्र्यर्थम्। इयङ् प्राप्तः।

-1-4-14- सुप्तिङन्तं पदम् ।
सुबन्तं तिङन्तं च पदसंज्ञं स्यात्। छात्राः पठन्ति मे।

-1-4-15- नः क्ये ।
क्ये परे नान्तमेव पदं स्यात्। राजीयति। राजायते। नियमः किम् ? वाच्यति। तपस्यति। पदाश्रये कुत्वरुत्वे न भवतः।

-1-4-16- सिति च ।
सिति पूर्वं पदं स्यात्। छस् भवदीयम्। युस् । ऊर्णायुः। भसंज्ञां बाधते।

-1-4-17- स्वादिष्वसर्वनामस्थाने ।
कप् (5.4.151) पर्यन्तेषु स्वादिषु पूर्वं पदं स्यात्। राजभ्याम् राजसु। राजत्वम्। राजतमः। असर्वनामस्थाने किम् ? राजानौ। राजानः। कथं सौ ? पदत्वं राजेति ? न ङि सम्बुद्ध्योः (8.2.8) इति ज्ञापकात्।

-1-4-18- यचि भम् ।
यादावजादौ च स्वादौ पूर्वं भसंज्ञं स्यात्। यि । गार्ग्यः। अचि । राज्ञः पश्य। असर्वनामस्थान इत्येव। राजानौ। सामानि।
(क) नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् । भसंज्ञा स्यात्। नभस्वत्। अङ्गिरस्वत्। मनुष्वत्। पदाश्रयं रुत्वं न भवति। वृषण्वस्वश्वयोर्भसंज्ञा वक्तव्या । वृषण्वसुः। वृषणश्वः। नकारलोपो न भवति।
 
-1-4-19- तसौ मत्वर्थे ।
मत्वर्थीये परे तान्तं सान्तञ्च भसंज्ञं स्यात्। विद्युत्वान्। मरुत्वान्। पयस्वी। तपस्वी। यशस्वी।

-1-4-20- अयस्मयादीनि च्छन्दसि ।
इदं छन्दः सूत्रमेकम्।

-1-4-21- बहुषु बहुवचनम् ।
सुप्तिङामविशेषेण विधानादक्षीणि ते रक्तानि इत्यादि लोकोपचादर्शनाच्च नियमोऽयम्। बहुष्वेवार्थेषु बहुवचनं स्यात्। भिक्षवः सद्धर्मान् पठन्ति। विप्रैः सामानि गीयन्ते।

-1-4-22- द्वयेकयोर्द्विवचनैकवचने ।
अर्थयोर्द्वित्वैकत्वयोरेव द्विवचनैकवचने स्याताम्। मातापितरौ जनयतः। धर्मो रक्षति रक्षितः।

-1-4-23- कारके ।
अधिकारोऽयम्। अतः परं यद्वक्ष्यति तत् कारकेषु मध्ये बोद्धव्यम्। तद् यथा--

-1-4-24- ध्रुवमपायेऽपादानम् ।
विश्लेषे ध्रुवं कारकमपादानं स्यात्। तच्च "निर्द्दिष्टविषयं किञ्चित्"। वृक्षात् पत्रं पतति। जलादुत्थितः। "उपात्तविषयं तथा" । बलाहकाद् विद्योतते विद्युत्। निःसृत्येत्यध्याहार्यम्। अधर्माद् विरमति। अधर्माज्जुगुप्सते। विरमञ्जुगुप्समानस्ततो निवर्त्तत इत्यर्थः। "अपेक्षितक्रियञ्चेति त्रिधापादानमिष्यते"। माथुराः स्रौग्घ्नेभ्य आढ्यतराः। नियमेनोत्कर्षक्रिया गम्यत इति। कारक इत्येव। वृक्षस्य पर्णम् पतति। बहुभ्योऽन्यः। कारकादिति
(5.4.42) न शस्।

-1-4-25- भीत्रार्थानां भयहेतुः ।
भयत्राणार्थधातुप्रयोगे भयहेतुरपादानं स्यात्। चौराद् भीतः। व्याघ्रादपत्रस्तः। दस्युभ्यो रक्षितः।

-1-4-26- पराजेरसोढः ।
पराजेः प्रयोगे सोढुमशक्यमपादानं स्यात्। अध्ययनात् पराजयते मन्दबुद्धिः। भोजनात् पराजयते।

-1-4-27- वारणार्थानामीप्सितः ।
एषां प्रयोग ईप्सितमपादानं स्यात्। यवेभ्यो गां वारयति। कथं कूपादन्धं वारयति ? बुद्ध्या प्राप्य ततो निवर्त्तयतीत्यर्थः।

-1-4-28- अन्तर्धौ येनादर्शनमिच्छति ।
अन्तर्धातुँ येन हेतुना आत्मनोऽदर्शनमिच्छति तदपादानं स्यात्। उपाध्यायादन्तर्धते छात्रः। उपाध्यायान्निलीयते शिष्यः।

-1-4-29- आख्यातोपयोगे ।
नियमाद् वाक्यग्रहणे आख्याता प्रतिपादयिताऽपादानं स्यात्। पण्डितात् पुराणं शृणोति। "रामादधीतसन्देशः"।

-1-4-30- जनिकर्तुः प्रकृतिः ।
जायमानस्य प्रकृतिः कारणमपादानं स्यात्। सामग्रीतः फलं जायते।

-1-4-31- भुवः प्रभवः ।
भुवः कर्तुः प्रभवोऽपादानं स्यात्। हिमवतो गङ्गा प्रभवति। "वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य"।

-1-4-32- कर्मणा यमभिप्रैति स सम्प्रदानम् ।
कर्मणा करणभूतेन यमभिसम्बध्नाति तत् कारकं सम्प्रदानं स्यात्। ब्राह्मणाय गां ददाति धार्मिकः। गुरवे धनं निर्यातयति रुष्टः। पट्टिकोपाध्यायः शिष्याय कर्णचपेटामदात्। शत्रवे भयं ददाति। भयानि दत्त सीतायै।कथं रजकस्य वस्त्रं ददाति घ्नतः पृष्ठं ददातीति ? अभिप्रैत्यर्थस्याविवक्षितत्वाद् यथा सममब्राह्मणे दानम् इति। इह प्रार्थनाध्यवसानादिक्रियाभिः कर्तृरीप्सिततमत्वात् क्रियापि कर्म भवति। तत्क्रियया यदभिसम्बध्यते तत् सम्प्रदानं सूत्रेणैव। युद्धाय सन्नह्यते। पत्ये शेते। निवेद्यतां सुग्रीवाय। प्रणम्य शास्त्रे सुगताय तायिने। इह च पशुना रुद्रं यजते इति पशुना देयेन रुद्रं प्रीणयति। पशुँ रुद्राय ददातीति वस्त्वर्थः।

-1-4-33- रुच्यर्थानां प्रीयमाणः ।
रुच्यर्थधातूनां प्रयोगे प्रीयमाणः सम्प्रदानं स्यात्। नारदाय रोचते कलहः। नारदस्य रुचिविषयीभवति।

-1-4-34- श्लाघह्नुङ्स्थाशपां ज्ञीपस्यमानः ।
एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात्। नृपाय श्लाघते वन्दी। श्लाघमानः परस्त्रीभ्यः। पुत्रायापहनुते वणिक्। छात्राय तिष्ठते कन्या। प्रियायै शपते कामुकः।

-1-4-35- धारेरुत्तमर्णः ।
धारेः प्रयोगे धनिकः सम्प्रदानं स्यात्। विप्राय शतं धारयति।

-1-4-36- स्पृहेरीपसितः ।
स्पृहेः प्रयोगेऽभी सम्प्रदानं स्यात्। धनाय स्पृहयति।

-1-4-37- क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।
क्रुधाद्यर्थानां प्रयोगे कोपस्थानं सम्प्रदानं स्यात्। पुत्राय क्रुध्यति। शत्रवे द्रुह्यति। एकस्मै ईर्ष्यति। अन्यस्मै असूयति। नेह। स्त्रियमीर्ष्यति कामुकः।
 
-1-4-38- क्रुधद्रुहोरुपसृष्टयोः कर्म।
सोपसर्गयोः क्रुधद्रुहोः यं प्रति कोपस्तत् कर्मसंज्ञं स्यात्। पुत्रमभिक्रुध्यति। शत्रुमनुद्रुह्यति।

-1-4-39- राधीक्ष्योर्यस्य विप्रश्नः ।
राधीक्ष्योः प्रयोगे यस्य विविधं पृच्छति तत् सम्प्रदानं स्यात्। पुत्राय राध्यति। किमयं करोति किं न वेति। स्त्रीभ्य ईक्षते। का कीदृशी भवतीति। ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् इति भट्टिः।

-1-4-40- प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ता ।
प्रत्याङ्पूर्वस्य शृणोतेः प्रयोगे पूर्वस्य प्रार्थनादेः कर्त्ता सम्प्रदानं स्यात्। तुभ्यं गां प्रतिशृणोति। मह्यं गामाशृणोति। अङ्गीकरोतीत्यर्थः।

-1-4-41- अनुप्रतिगृणश्च ।।
अस्य च प्रयोगे पूर्वस्याः क्रियायाः कर्त्ता सम्प्रदानं स्यात्। होत्रेऽनुगृणाति। पोत्रे प्रतिगृणाति। तं शंसन्तं शब्देनानुगच्छति प्रोत्साहयतीत्यर्थः।

-1-4-42- साधकतमं करणम् ।
क्रियासिद्धौ प्रकृष्टोपकारकं करणमुच्यते। परशुना वृक्षं छिनत्ति। बुद्ध्या जानाति। विवक्षवशात् परशुः छिनत्ति।

-1-4-43- दिवः कर्म च ।
दिवः साधकतमं कर्म करणं वा स्यात्। दुरक्षान् दीव्यता राज्ञा दुरक्षैर्वा।

-1-4-44- परिक्रयणे सम्प्रदानमन्यतरस्याम् ।
वेतनादिस्वीकारे करणं सम्प्रदानं स्याद् वा। शताय परिक्रीतः शतेन वा।

-1-4-45- आधारोऽधिकरणम् ।
आश्रयः अधिकरणम् उच्यते। गृहे तिष्ठति। स्थाल्यां पचति।

-1-4-46- अधिशीङ्स्थासां कर्म ।
एषामाधारः कर्म स्यात्। शय्यामधिशेते। गिरिमधितिष्ठति। ग्राममध्यास्ते। स्थलीमधिशेते।
 
-1-4-47- अभिनिविशश्च ।
अस्याप्याधारः कर्म स्यात्। ग्राममभिनिविशते।
 
-1-4-48- उपान्वध्याङ्वसः ।
अस्याप्याधारः कर्म स्यात्। ग्राममुपवसति। नदीमनुवसति। गिरिमधिवसति। पल्लीमावसति। इह ग्राम उपवसतीति ? ग्रामे वसन् संस्त्रिरात्रमुपवसतीत्येवम्प्रकारार्थः। यदुक्तम्--
वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम्।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ।।1।। इति ।

-1-4-49- कर्तुरीप्सिततमं कर्म ।
कर्तुः क्रियया व्याप्तुमिष्टतमं कर्म स्यात। संयोगं जनयति। तण्डुलानोदनं पचति। वेदमधीते।

-1-4-50- तथायुक्तञ्चानीप्सितम् ।
ईप्सितवत्कर्तुः क्रियया युक्तं द्वेष्यमन्यच्च कर्म स्यात्। ओदनं बुभुक्षुर्विषं भक्षयति। पुत्रं पश्यन् सूर्यं पश्यति।

-1-4-51- अकथितञ्च ।
अपादानादिसंज्ञाभिर्यन्नोक्तं तत्कर्म स्यात्। गां दोग्धि पयः। कारक इत्यव। गवां दोग्धि पयः। विवक्षावशाद् गोभ्यो दोग्धि पयः। एवम् "याचमानः शिवं सुरान्"। "सोऽपृच्छल्लक्ष्मणं सीताम्"। शिष्यं धर्मं ब्रूते। विप्राञ् शतं जयति। गर्गाञ् शतं दण्डयति। अजां ग्रामं नयति। भारं ग्रामं हरति। इह च । "प्रधाने कर्मण्यभिधेये लादीनाहुर्द्विकर्मणाम्" । नीयतेऽजा ग्रामम्। वोढव्यो भारो ग्रामम्। ह्रियते काष्ठं गृहम्। आकृष्यते शाखा ग्रामम्। "अप्रधाने दुहादीनाम्" । दुह्यते गौः क्षीरम्। उच्यते शिष्यो धर्मम्। गर्गाः शतं दण्ड्यन्ताम्। जीयते विप्रः शतम्।
"ण्यन्ते कर्तृश्च कर्मणः ।" णिचि कर्मतां प्राप्तस्य कर्तुर्वाचका लादयः। प्राप्यते विप्रो ग्रामम्। पित्रा गमयितव्यः पुत्रो ग्रामम्। बोध्यते शिष्यो धर्मम्। भोज्यते विप्रो भक्तम्। पाठ्यते पुत्रः सूत्रम्। आस्यते विप्रो मासमिति।

-1-4-52- गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्त्ता स णौ ।
एषामणिचि यः कर्त्ता स णिचि कर्म स्यात्। याति विप्रो ग्रामम्। यापयति विप्रं ग्रामम्। "रावणं गमय प्रीतिम्।"
नीवही तु गत्युपसर्जनप्रापणवचनौ। न गत्यर्थौ। नाययति वाहयति भारं दासेनेति। बुध्यर्थे बोधयति शिष्यं शास्त्रम्। ज्ञापयति नृपं हिताहितम्। उपलम्भयति विप्रं गन्धम्। प्रत्यवसानं भक्षणम्। आशयति भोजयति विप्रमोदनम्। शब्दकर्म। अध्यापयति वटुं वेदम्। पाठयति पुत्रं सूत्रम्। श्रावयति शिष्यं शब्दम्। अकर्मकात्। आसयति पुत्रम्। शाययति मित्रम्।
गत्यर्थादिभ्योऽन्यत्र। पाचयत्योदन सहायेन। इह किलाणौ यः कर्त्ता तस्य णौ कर्मत्वमपि प्रयोजकव्यापारेण कर्तृ त्वञ्च स्वव्यापारेण स्वतन्त्रत्वादित्युभयसंज्ञासिद्धौ नियमोऽयं गत्यर्थादीनामणौ यः कर्त्ता स णौ कर्मैव न कर्त्तेति। ततश्च गत्यर्थादिव्यतिरिक्तानामणौ कर्तुर्णावुभयं भवति कर्तृत्वं कर्मत्वञ्चेति वदन्तः केचित् पाचयत्योदनं देवदत्तं देवदत्तेनेत्याद्यपि भवतित्याहुः। एवञ्च हृक्रोर्वेति (1.4.57) प्रपञ्चार्थं वेदितव्यम्।
(क) जल्पत्यादीनामुपसंख्यानम् । अशब्दकर्मकत्वात्। जल्पयति मित्रं पुत्रम्। आलापयति पुत्रं मित्रम्। सम्भाषयति देवदत्तं भार्याम्।
(ख) आदिखाद्योः प्रतिषेधो वक्तव्यः । आदयते खादयति विप्रेणौदनम्। भक्षणार्थत्वात्।
(ग) भक्षेरहिंसायाम् । भक्षयति पिण्डीं देवदत्तेन यज्ञदत्तः। हिंसायान्तु भक्षयति यवं वृषभान्।
(घ) वहेरनियन्तृकर्तृकस्येति कात्यायनः। वाहयति भारं मनुष्यैः। सनियन्तृकर्तृकस्य तु वाहयति वृषभान् भारम्।

-1-4-53- हृक्रोरन्यतरस्याम् ।
हृञ्कृञोरणिचि यः कर्त्ता स णिचि कर्म वा स्यात्। हारयति भारं दासं दासेन वा। कारयति कटं पुत्रं पुत्रेण वा।
(क) अभिवादिदृशोरात्मनेपदे वा । गुरुमभिवादयते पुत्रं पुत्रेण वा। दर्शयते नॄपं भृत्यान् भृत्यैर्वा।

-1-4-54- स्वतन्त्रः कर्त्ता ।
क्रियासिद्धौ अगुणत्वेन विवक्षितो यः स कर्त्ता स्यात्। विप्रेण पच्यते। क्रिया जायते। ओदनः सिध्यति।

-1-4-55- तत्प्रयोजको हेतुश्च ।
स्वतन्त्रस्य प्रयोजकोऽर्थः कर्त्ता हेतुश्चोच्यते। कुर्वन्तं प्रयुङ्क्ते कारयति देवदत्तः। उक्तानि कारकाणि ।

-1-4-56- प्राग्रीश्वरान्निपाताः ।
अधिरीश्वरे (1.4.97) इत्यतः प्राङ् निपाता वेदितव्याः।
<053>
-1-4-57- चादयोऽसत्त्वे ।
अद्रव्यवृत्तयश्चादयो निपाता उच्यन्ते। याति च वाति च। घटं वा पटं वा पश्य।च। वा। वै। स्वाहा। स्वधा। ओम्। आम्। पशु। तु। मन्ये। अस्ति। ब्रूहि। विभाषा। अन्यतरस्याम्। नञ्। नो। न इत्यादि। उपसर्गविभक्तिस्वरप्रति- रूपकाश्च निपाताः ।असत्त्वे किम् ? स्वाहा अग्नायी।

-1-4-58- प्रादयः ।
प्र। परा। अप। सम्। अनु। अव। निर्। दूर्। निस्। दुस्। अभि। वि। अधि। सु। उद्। अति। नि। प्रति।
परि। अपि। उप। आङ्। एते निपाताः स्युः। प्रतनु। प्रविरलम्। अभिनवोऽभिलीनः।

-1-4-59- उपसर्गाः क्रियायोगे ।
प्रादयो निपाताः क्रियायोगे उपसर्गाः स्युः। प्रणमति। परिषिञ्चति। क्रियायोगे किम् ? प्रनायको देशः। इह दुर्नीतम् अवदत्तमित्यादावुपसर्गप्रतिरूपकनिपाताश्रयणात् णत्वतत्त्वे न भवतः। "प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः।
उप आङिति विंशातिरेष सखे उपसर्गविधिः कथितः कविना" । इति।

-1-4-60- गतिश्च ।
प्रादय उपसर्गा गतिसंज्ञकाश्च स्युः। प्रणम्य। अभिषिच्य।

-1-4-61-ऊर्यादिच्विडाचश्च ।
एते गतिसंज्ञकाः स्युः। ऊरीकृत्य। ऊररीकृत्य। च्विः। शुक्लीकृत्य। शुक्लीभूय। डाच् । पटपटाकृत्य। दमदमाकृत्य।
 
-1-4-62- अनुकरणञ्चानितिपरम् ।
अव्यक्तानुकरणं गतिः स्यात्। खटत्कृत्य भग्नः। अनितिपरं किम् ? खटदिति कृत्वा भग्नः।
<054>
-1-4-63- आदरानादरयोः सदसती ।
अनयोरेते गती स्याताम्। गुरून् सत्कृत्य गतः। खलानसत्कृत्य गतः।

-1-4-64- भूषणेऽलम् ।
अत्रेदं गतिः स्यात्। कन्यामलंकृत्य गतः।

-1-4-65- अन्तरपरिग्रहे ।
अन्तः शब्दो गतिः स्यात्। अन्तर्हत्य स्थितः खलः। मध्ये हत्वेत्यर्थः। अपरिग्रहे किम् ? अन्तर्हत्वा मूषिकां गतः श्येनः। परिगृह्येत्यर्थः।
(क) अन्तः शब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा वक्तव्या। अन्तर्धा। अन्तर्धिः। अन्तर्णयति।

-1-4-66- कणेमनसी श्रद्धाप्रतिघाते ।
कणेमनःशब्दौ तृष्णाविगमे गती स्याताम्। कणेहत्य मनोहत्य पयः पिबति। आतृष्णमित्यर्थः।

-1-4-67- पुरोऽव्ययम् ।
गतिः स्यात्। पुरस्कृत्य शिखण्डिनम्। नमस्पुरसोर्गत्योः (8.3.40) इति सत्वम्।

-1-4-68- अस्तञ्च ।
अस्तमव्ययं गतिः स्यात्। अस्तङ्गत्य क आगतः। मृत्वेत्यर्थः।

-1-4-69- अच्छ गत्यर्थवेदषु ।
अच्छ इत्यव्ययमाभीक्ष्ण्यवृत्तिर्गत्यर्थे वदतौ च गतिः स्यात्। अच्छगत्य। अच्छोद्य।
-1-4-70- अदोऽनुपदेशे ।
त्यदादिरदः शब्दो गतिः स्यात्। अदःकृत्य स्थितः। अनुपदेशे किम् ? अदः कृत्वा गच्छ।
<055>
-1-4-71- तिरोऽन्तर्धौ ।
तिरोऽव्ययं गतिः स्यात्। तिरोभूय स्थितश्चौरः। अन्तर्धौ किम् ? तिरो भूत्वा स्थितं काण्डम्।

-1-4-72- विभाषा कृञि ।
अन्तर्धौ कृञि तिरो वा गतिः स्यात्। तिरस्कृत्य, तिरः कृत्वा।

-1-4-73- उपाजेऽन्वाजे ।
बलाधानवृत्तौ निपातावेतौ कृञि वा गती स्याताम्। उपाजेकृत्य, उपाजे कृत्वा वा। अन्वाजेकृत्य, अन्वाजे कृत्वा वा।
 
-1-4-74- साक्षात्प्रभृतीनि च ।
साक्षादादीनि कृञि गतिसंज्ञकानि वा स्युः। साक्षात्कृत्य, साक्षात् कृत्वा वा । मिथ्या। लवणम्। वशे। प्रादुस्। आविस्। नमस्।

-1-4-75- अनत्याधान उरसिमनसी ।
एतावनुपश्लेषे कृञि वा गती स्याताम्। उरसिकृत्य, उरसि कृत्वा वा जपेन्मन्त्रम्। मनसिकृत्य, मनसि कृत्वा वा। नेह। उरसि कृत्वा हस्तं शेते।

-1-4-76- मध्येपदेनिवचने च ।
एते कृञि वा गतयः स्युः। मध्येकृत्य, मध्ये कृत्वा वा। पदेकृत्य, पदे कृत्वा वा। निवचनेकृत्य, निवचने कृत्वा वा। तूष्णीम्भूयेत्यर्थः। अनत्याधाने इत्येव -- हस्तिनः पदे कृत्वा शिरः शेते।

-1-4-77- नित्यं हस्ते पाणावुपयमने ।
एतौ स्वीकारे कृञि नित्यं गती स्याताम्। तां हस्तेकृत्य मा श्वसीः। पाणौकृत्य भुङ्क्ते।

-1-4-78- प्राध्वं बन्धने ।
प्राध्वं कृञि नित्यं गतिः स्याद् बन्धनगतौ। प्राध्वङ्कृत्य कुटुम्बं स्थितः।
<056>
-1-4-79- जीविकोपनिषदावौपम्ये ।
एतौ सादृश्ये कृञि गती स्याताम्। जीविकाकृत्य व्याचष्टे। उपनिषत्कृत्य कथयति।

-1-4-80- ते प्राग् धातोः ।
ते गत्युपसर्गसंज्ञका धातोः प्राक् प्रयोक्तव्याः। तथैवोदाहृतम्।

-1-4-81- छन्दसि परेऽपि ।

-1-4-82- व्यवहिताश्च।
छन्दः सूत्रद्वयम्।

-1-4-83- कर्मप्रवचनीयाः ।
अधिकारोऽयम्।

-1-4-84- अनुर्लक्षणे ।
लक्षणे कारके हेतो द्योत्येऽनुः कर्मप्रवचनीयनामा स्यात्। होममनु वृष्टो देवः।

-1-4-85- तृतीयार्थे ।
सहार्थेऽनुस्तन्नामा स्यात्। गङ्गामन्ववसिता पुरी। तया सह बद्धेत्यर्थः।

-1-4-86- हीने ।
हीने द्योत्येऽनृस्तन्नामा स्यात्। अन्वजुनं योद्वारः। ततो हीना इत्यर्थः।

-1-4-87- उपोऽधिके च ।
उपोऽधिके हीने च तन्नामा स्यात्। उपखार्यां द्रोणः। उपगोवर्धनं शाब्दिकाः।

-1-4-88- अपपरी वर्जने ।
एतौ वर्जने तथा स्याताम्। अप त्रिगर्त्तेभ्यः। परि स्रुघ्राद वृष्टो देवः।

-1-4-89- आङ् मर्यादावचने ।
सीमायामाङ् तन्नामा स्यात्। आ समुद्राद् वृष्टो देवः। वचनग्रहणादभिव्याप्तौ च। आकुमारं यशस्तव।

-1-4-90- लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ।
चिह्नादौ द्योत्ये प्रतिपर्यनवः कम्रप्रवचनीयाः स्युः। वृक्षं प्रति विद्योतते विद्युत्। वृक्षम् परि। वृक्षमनु। एवम् मातरं प्रति साधुः। यदत्र मां प्रति स्यात्। वृक्षं वृक्षं प्रति सिञ्चति।

-1-4-91- अभिरभागे ।
अभिर्भागवर्जितलक्षणादौ तन्नामा स्यात्। वृक्षमभि विद्योतते विद्युत्। मातरमभि साधुः। वृक्षं वृक्षमभिसिञ्चति।
अभागे किम् ? यदत्र ममाभिष्यात्। उपसर्गाश्रयो मूर्धन्यः।

-1-4-92- प्रतिः प्रतिनिधिप्रतिदानयोः ।
प्रतिः सदृश-प्रत्यर्पणयोस्तथा स्यात्। यो नारायणतः प्रति। माषानस्मै तिलेभ्यः प्रतियच्छति।

-1-4-93- अधिपरी अनर्थकौ ।
अनर्थकावधिपरी तथा स्याताम्। कुतोऽध्यागच्छति। कुतः पर्यानयति। गत्युपसर्गसंज्ञाबाधः फलम्।
अनर्थकौ किम् ? अधिगम्य। परिणीय।
 
-1-4-94- सुः पूजायाम् ।
पूजायां सुस्तन्नामा स्यात्। सुसिक्तं त्वया। उपासर्गाश्रयं षत्वं न भवति।
-1-4-15- अतिरतिक्रमणे च ।
अतिप्रवृत्तिरतिक्रमः । तस्मिन् पूजायाञ्चातिस्तन्नामा स्यात्। अतिसिक्तं त्वया। पूजायाम् । अतिस्तुतम्। अतिस्तुतिः।

-1-4-96- अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ।
एषु वर्त्तमानोऽपिशब्दः कर्मप्रवचनीयः स्यादित्येकः सूत्रार्थः। सर्पिषोऽपि स्यात्। बिन्दुपदार्थेऽपिशब्दः। एषु यत् पदं वर्त्तते तत्प्रत्यपिशब्दः कर्मप्रवचनीयः स्यादिति द्वितीयः सूत्रार्थः। सर्पिषोऽपि स्यात्। बिन्द्वर्थे स्यात्पदम्। तत् प्रति अपिशब्दः कर्मप्रवचनीयः। तेनोपसर्गाश्रयं षत्वं न भवति। सर्पिस्तु प्रति न कर्मप्रवचनीय इति द्वितीया न स्यात्।
सम्भावना योग्यता अपि स्थाणुं जयेद् रामः। अन्ववसर्गः प्राकाम्यम्। अपि सिञ्च, अपि स्तुहि। गर्हा निन्दा। अपि स्तुयाद्वृषलम्। समुच्चये। अपि सिञ्च, अपि स्तुहि। उभयं कुरु।

-1-4-97- अधिरीश्वरे ।
ऐश्वर्ये गम्येऽधिस्तन्नामा स्यात्। अधि पञ्चालेषु ब्रह्मदत्तः।

-1-4-98- विभाषा कृञि ।
अधिः कृञि वा कर्मप्रवचनीयः स्यात्। यन्मामधिकरिष्यति यन्मामधि करिष्यति वा। अधिकृत्य अधि कृत्वा वा।
उक्ता निपाताः ।

-1-4-99- लः परस्मैपदम् ।
लादेशाः परस्मैपदमुच्यन्ते। तिप्तस्झिसिप्थस्थमिप्मस्वस्शृक्वसु।

-1-4-100- तङानावात्मनेपदम् ।
तङ् एतौ च लादेशावात्मनेपदमुच्यन्ते। तङिति ताताञ्झथासाथांध्वमिड्वहिमहिङ्। आन इति शानच्कानचौ।

-1-4-101- तिङस्रीणित्रीणि प्रथममध्यमोत्तमाः ।
तिङां त्रीणित्रीणि पदानि क्रमेण प्रथममध्यमोत्तमसंज्ञकानि स्युः। तिप्तस्झिताताञ्झ इति प्रथमः। ततो मध्यमः। तत उत्तमः।

-1-4-102- तान्येकवचनद्विवचनबहुवचनान्येकशः ।
तानि त्रीणित्रीणि पदानि प्रत्येकमेकवचनद्विवचनबहुवचनसंज्ञकानि स्युः। ति इत्येकवचनम्। तस् इति द्विवचनम्। झि इति बहुवचनम्। एवमन्यत्रापि।

1-4-103- सुपः ।
सुपश्च तथा स्यात्। सु इत्येकवचनम्। औ इति द्विवचनम्। जस् इति बहुवचन्। एवं सर्वत्र।

-1-4-104- विभक्तिश्च ।
सुप् तिङ् च विभक्तिरुच्यते।
 
-1-4-105- युष्प्रद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ।
लकारेण समानाधिकरणे युष्मद्युपपदे मध्यमपुरुषः स्यात्। त्वं पचसि । युवां पचथः। यूयं पचथ। त्वं दृश्यसे।
युवा वृश्येथे । यूयं दृश्यध्वे। स्थानिनीति गम्यमानेऽपि युष्मदि। ओदनं पचसि। मया दृश्यसे। भवत्प्रयोगे नेष्यते । भवान् करोति। समानाधिकरणे किम् ? त्वया दृश्यते।

-1-4-106- प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ।
परिहासगतौ मन्योपपदस्य धातोरुत्तमे प्राप्ते मध्यमः पुरुषः स्यात्। मन्यतेश्च मध्यमे प्राप्त उत्तमः। स चैकवन् मन्तुरनेकत्वेऽपि। एहि मन्ये पयः पास्यसि ? न पास्यसि। पीतं तदतिथिभिः। प्रहासे किम् ? एहि मन्यसे दध्यन्नं भोक्ष्ये । साधु मन्यसे। एवं मन्यध्वेऽपि।

-1-4-107- अस्मद्युत्तमः ।
अस्मदि वाच्य उत्तमः पुरुषः स्यात्। अहं पचामि। आवां पचावः। वयं पचामः। अहं दृश्ये। आवां दृश्यावहे। वयं दृश्यामहे। गम्यमानेऽपि। पचामि। दृश्ये।

-1-4-108- शेषे प्रथमः ।
युष्मदस्मद्भ्यामन्यस्मिन् प्रथमः पुरुषः स्यात्। स भाति । तौ भातः । ते भान्ति।

-1-4-109- परः सन्निकर्षः संहिता ।
अत्यन्तप्रत्यासत्तिः संहितोच्यते। दध्यत्र। मध्वत्र।

-1-4-110- विरामोऽवसानम् ।
परे वर्णाभावोऽवसानमुच्यते। वृद्धः। सिद्धि। इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
प्रथमाध्याये चतुर्थः पादः ।। 1।4 ।।
।समाप्तः कारकप्रादः । समाप्तश्च प्रथमोऽध्यायः ।