पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ईदन्तप्रकरणम्]
१९९
बालमनोरमा ।

गुणनाभावोत्वनुड्भि परत्वात्पुसि बाध्यते ।

क्लीबे नुमा च स्रीशब्दस्येडित्यवधार्यताम् ।।'

जसि च' (सू २४१) । अतिस्रय । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्रय । ‘वाम्शसोः’ (सू ३०२) । अतिस्त्रियम्-अतिस्त्रिम् । अतिस्त्रियैौ । अतिस्त्रिय.—अतिस्त्रीन् । अतिस्त्रिणा । घेर्डिति' (सू २४५) । अतिस्त्रये । अतिस्त्रे । अतिस्त्रे’ । अतिस्त्रियो । अतिस्त्रीणाम् । अच्च घे ' (सू २४७) अतिस्रौ । अतिस्त्रियो ।

ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया ।

इयादेशोऽचि नान्यत्र स्त्रिया. पुंस्युपसर्जने ।।'

क्लीबे तु नुम्। अतिस्त्रि । अतिस्त्रिणी। अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रि णे। डेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वदूपम्। अतिस्त्रये-अतिस्त्रिणे।


मङ्गृह्णाति । गुणनाभावेत्यादिना पुसि गुणनाभावौत्वनुड़भि , कृीबे नुमा व परत्वात् स्त्रीशब्दस्य इयश्च बाध्द्यते, इत्यवधार्यतामित्यन्वय । जसि चेति ॥ घेर्डितीति गुण । आडो नाऽस्त्रियाम्' इति नात्वम्, “अच घे' इत्यौत्वम्, “ह्रस्वनद्याप ' इति नुट्, ‘इकोऽचि विभक्तौ' इति नुम्, एतेषामियडपेक्षया परत्वादित्यर्थ । 'जसि च' इत्यनन्तरम् इति गुण इति शेष । अतिस्त्रयः इति । इयड बाधित्वा गुणे अयादेशे रूपम् । हे अतिस्त्रे इति ॥ हृस्वस्य गुण ' इति गुणे 'एड् हूस्वात्' इति सम्बुद्विलोप । “वाम्शसो ' इत्यनन्तर इयङ्विकल्प इति शेष । अतिस्त्रियमिति । आमि इयङ्पक्षे रूपम् । अतिस्त्रिमिति । इयडभावपक्षे ‘अमि पूर्व '। अतिस्त्रिय. इति । “वाम्शसो ' इति इयड्। अतिस्त्रीनिति ।। इयडभावे पूर्वसवर्णदीर्घे *तस्माच्छस ' इति नत्वम् । टा अतिस्त्रिणा । इयड बाधित्वा पर त्वात् “ आडो नाऽस्त्रियाम्' इति नात्वम् । भ्यामादित्वविकृतम् । डे अतिस्रये । इयड बाधि त्वा परत्वात् “घेर्डिति' इति गुणे अयादेश । डसिडसो अतिस्त्रे । परत्वात् “घेडिंति' इति गुणे “डसिडसेोश्च' इति पूर्वरूपम् । अतिस्त्रियो इयड् । आमि इयड बाधित्वा परत्वान्नुटि नामीति दीर्घ णत्वम् । अतिस्त्रीणाम् । इयड बाधित्वा परत्वात् “अञ्च घे ? अतिस्त्रौ । अति स्त्रियो । अतिस्त्रिषु । अथ पुसि पूर्वेश्लोकसिद्धमेवार्थ बालबोधाय लघुतरोपायेन सगृह्णाति । ओस्यौकारे चेत्यादिना ॥ उपसर्जनत्वदशाया पुसेि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेश स्त्रिया इति सूत्रविहित स. ओसि षष्ठीसप्तमीद्विवचने, औकारे व प्रथमाद्वितीयाद्वि वचने च नित्य स्यात् । अम्शसोस्तु विभाषया विकल्पेन स्यात् । उक्तचतुभ्योऽन्यत्र तु अचि सर्वत्र इयादेशो न स्यादिति योजना । क्लीबे तु नुमिति ॥ इयड बाधते इति शेष । अति स्त्रि इति । स्त्रियमतिक्रान्त कुलम् अतिस्त्रि । “स्वमोर्नपुसकात्' इति सुलुक् । अतिस्त्रिणी इति ॥ अतिस्त्रि औ इति स्थिते 'नपुसकाच्च' इत्यौडश्शीभाव. । इयङ बाधित्वा परत्वात्