पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२००
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

अतिस्त्रे –अतिस्त्रिण । अतिस्त्रे --अतिस्त्रिण । अतिस्त्रियो –अतिस्त्रिणो । इत्यादि । स्त्रिया तु प्रायेण पुंवत् । शासि अतिस्त्री । अतिस्त्रिया । डिति हृस्वश्च' (सू २९६) इति ह्रस्वान्तत्वप्रयुक्तो विकल्प । “अस्त्री ' इति तु इयडुवड्स्थानावित्यस्यैव पर्युदास , तत्सबद्धस्यैवानुवृत्ते दीर्घस्याय निषेध , न तु ह्रस्वस्य । अतिस्त्रियै-अतिस्त्रये । अतिस्त्रिया —अतिस्त्रे


इकोऽचि विभक्तौ' इति नुम् । असर्वनामस्थानत्वान्न दीर्घ । णत्वम् । अतिस्त्रीणीति ॥ जश्शसोश्शि ? इति इयड “जसि च' इति गुणञ्च वाधित्वा नुम् । 'शि सर्वनामस्थानम्' इति सर्वनामस्थानत्वात् दीर्घ । णत्वम् । टा अतिस्त्रिणा । इयड नुम च बाधित्वा नाभाव । ङे प्रभृतावजादाविति ॥ डे, डसि, डस्, आम्, डि, ओस इत्येतेषु “तृतीयादिषु भाषित इति पुवद्भावस्य वक्ष्यमाणत्वात् पुवद्भावपक्षे पुलिङ्गातिस्त्रिशब्दवद्रूपम् । पुवत्वाभावपक्षे नुमि वारिवद्रूपमित्यर्थ । टाया तु पुवत्त्वे तदभावे च नात्वनुम्भ्या रूपे विशेषाभावात् डेप्रभृतावित्युक्तम् । अतिस्त्रये इति । पुवत्त्वे 'घेर्डिति' इति गुण । अयादेश । अतिस्त्रिणे इति ॥ पुवत्त्वाभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयड् बाध्यते । अतिस्त्रेरिति ।। डसिडसो पुवत्त्वपक्षे 'घेर्डिति' इति गुणे “डसिडसोश्च' इति पूर्वरूपम् । अतिस्त्रिणः इति ॥ डसिडसो पुवत्त्वाभावपक्षे नुमि रूपम् । इहाग्युभयत्र गुण नुम्भ्यामियड् बाध्यते । अतिस्त्रियोः-अतिस्त्रिणोः इति । पुवत्त्वाभावे नुम् । पुवत्त्वे इयड् । इत्यादीति ॥ आमि पुवत्त्ये तदभावे च इयड बाधित्वा नुडेव, नतु नुम् । नुमचिर' इति वचनात् “नामि' इति दीर्घ अतिस्रीणाम् । अतिस्त्रौ अतिस्त्रिाणि अतिस्त्रियो । अतिस्त्रिणो । तदेवमुपसर्जनस्त्रीशब्दस्य पुन्नपुसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरति । स्त्रियान्त्विति । स्त्रियमतिक्रान्तेति विग्रहे * अत्यादय ' इति समासे गोस्त्रियो ' इति हृस्वत्वे सति अतिस्त्रिशब्द । तस्य प्रायेण उदाहृतपुलिङ्गातिस्त्रिशब्द वद्रपाणीत्यर्थ । शसि अतिस्त्रीरिति ॥ 'वाम्शसो ' इति इयडभावे पूर्वसवर्णदीर्घे सत्य पि स्त्रीलिङ्गत्वात् “ तस्माच्छस ' इति नत्व नेति भाव । अतिस्त्रियेति । स्त्रीलिङ्गत्वान्ना त्वाभावे इयडू । हृस्वान्तत्वेति ॥ 'डिति हृस्वश्च' इत्यत्र इयडुवड्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसज्ञौ वा स्त, इति प्रथम वाक्यम् । ह्रस्वाविवर्णोवर्णो स्त्रिया नदीसज्ञौ वा स्त, इति द्वितीय वाक्यम् । तत्र द्वितीयवाक्यात् अतिस्त्रिशब्दस्य डित्सु नदीत्वविकल्प इत्यर्थ । ननु “नेयडुवड्स्थानावस्त्री' इत्यत अस्त्रीत्यस्यानुवृत्ते कथमिह नदीत्वविकल्प इत्यत आह । अस्त्री इति त्विति । इयडुवड्स्थानावित्यादिप्रथमवाक्यविहितनदीत्वस्यैवा स्त्रीति पर्युदास, नतु हूस्वावित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थ । कुत इत्यत आह । तत्सम्बद्धस्यैवानुवृत्तेरिति ॥ नेयडुवड्स्थानावित्यत अस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयडुवड्स्थानाविति यत्रान्वेति, तत्रैव तत्सम्बद्धस्य अस्त्रीत्यस्यानुवृत्तिरुचिता । एवञ्च ह्रस्वादिवाक्ये इयडुवङ्स्थानावित्यस्य अनुवृत्त्यभावात् अस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति भाव । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धि । अतिस्त्रये इति । नदीत्वाभावे