पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

सख्य , इत्यादि । गौरीवत् । अडयन्तत्वान्न सुलोप । लक्ष्मी । शेषं गौरीवत् । एवं तरीतन्त्रयादय । स्त्री । हे स्त्रि ।

३०१ । स्त्रियाः । (६-४-७९)

स्त्रीशब्दस्येयड् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्रिय ।

३०२ । वाऽम्शसोः । (६-४-८०)

अमि शसि च स्रिया इयड् वा स्यात् । स्त्रियम्-स्त्रीम् । स्त्रियौ । स्रिय -स्त्री । स्रिया । स्त्रियै । स्त्रिया । स्त्रिया । स्त्रियो । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियो । स्त्रीषु । स्त्रियमतिक्रान्तोऽतिस्त्रि । अतिस्त्रियौ ।


सख्य. इत्यादीति ॥ गौरीवदेव रूपाणीत्यर्थ । 'लक्षेर्मुट् च' इति लक्षधातोरीप्रत्यये मुडा गमे लक्ष्मीशब्द । तस्य विषेषमाह । अङयन्तत्वादिति ॥ 'कृदिकारादक्तिन ' इति डीषि तु सुलोपो भवत्येव । शेषं गौरीवदिति ॥ अम्बार्थेत्यादिकार्यमित्यर्थ । एवं तरीतन्त्र्या दयः इति ॥ 'अवितृस्तृतन्त्रिभ्य ई ' इति ईप्रत्यये तरी , स्तरी, तन्त्री, इत्यादि। अत्राप्य डयन्तत्वान्न सुलोप । 'कृदिकारात्' इति डीषि तु सुलोप । शेष गौरीवत् । स्त्री इति ॥ स्त्यै शब्दसङ्घातयो । स्त्यायत सङ्गते भवत अस्या शुक्लशोणिते इति स्त्री । स्त्यायते डूट् । डटावितौ । डित्वसामर्थ्यादभस्यापि टेलॉप । लोपो व्योरिति यलोप । टित्त्वात् डीप् । हल्डया दिलोप इति भाव । हे स्रि इति ॥ अम्बार्थेति हस्व । स्त्री औ इति स्थिते अधात्विकार त्वात् “अवि इनुधातु' इति इयङयप्राप्ते । स्त्रियाः ॥ अचि इनुधात्वित्यत अचीति इयडिति चानुवर्तते । तदाह । स्त्रीशब्दस्येत्यादिना । स्त्रियौ, स्त्रियः इति ॥ औजसो रूपम् । अमि शसि च, स्त्रिय, स्त्रिय इति नित्यमियडि प्राप्त् । वाऽम्शसोः ॥ वा अम्शसो इति च्छेद । स्त्रिया इति इयडिति चानुवर्तते । तदाह । अमि शसि चेत्यादिना । स्त्रियमिति ॥ इयडि रूपम् । स्त्रीमिति ॥ इयडभावे आमि पूर्व । स्त्रियाविति ॥ औटि रूपम् । स्त्रिय.-स्त्रीः इति ॥ शसि‘वाम्शसो' इति इयडि तदभावे च रूपम् । स्त्रियेति ॥ इयड् । स्त्रियै इति ॥ आण्नद्या इत्याट्, वृद्धि, इयड् । स्त्रियाः इति ॥ डसिडसोराड्, वृद्धि । इयडू र स्त्रियोरिति ॥ ओसि इयड् । परत्वान्नुडिति ॥ आमि ‘स्त्रिया ' इति इयडम्बा धित्वा परत्वान्नुट्। स्त्रीणामिति ॥ कृते नुटि अजादिविभक्तयभावान्नेयड् । स्त्रियामिति ॥ डेराम् । इयड् । अथ प्रसङ्गात् पुसि नपुसके च स्त्रीशब्दस्य विशेष दर्शयति । स्त्रियमति क्रान्तोऽतिस्त्रिरिति । “ अत्यादय कान्ताद्यर्थे' इति समास । गोस्त्रियोरिति हूस्वत्वम् । दीर्घडयन्तत्वाभावात् ईकाररूपडयन्तत्वाभावाद्वा हल्डयादिलोपो न भवति । अतिस्त्रिया विति ॥ स्त्रिया इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियाडिति भाव । अथ जस्, टा, डे, डसि, डस्, आम्, डि, इत्येतेषु अतिस्त्रीशब्दस्य इयड्नेत्येतत् श्लोकेन