सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ईदन्तप्रकरणम्]
१९७
बालमनोरमा

वक्ष्यमाणपुवद्भावविकल्पात्पर्यायेण नुम्रभावौ। प्रियतिमृणा।प्रियतिस्रा इत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयो । द्वयो ।

इति इदन्ता ।

॥ अथ अजन्तस्त्रीलिङ्गे ईदन्तप्रकरणम् ॥

गौरी । गौयौं । गौर्य । नदीकार्यम्, हे गौरि । गौर्ये, इत्यादि । एवं वाणीनद्यादय । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादनडणिद्वद्भावे च प्राप्ते “विभक्तौ लिङ्गविशिष्टाग्रहणम्’ (वा ४२३८) । सखी । सख्यौ ।

न्नान्तलक्षणदीर्घ, णत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे प्रियतिसृणा, प्रियतिसृणि इति [भाष्योदाहरणात् पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्द्यम् । प्रियतिसृणेति टाया पुवत्त्वाभावपक्षे नुमि रूपम् । प्रियातिस्त्रेति ॥ पुवत्वे नुमभावात् रत्वम् । इत्यादीति ॥ आदिना प्रियतिस्त्रे, प्रियतिसृणे इत्यादि बोध्द्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्या त्यदाद्यत्वे “अजाद्यत ? इति टावित्यर्थ । द्वे इत्यादि ।॥ टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भाव ॥

इति इदन्ता ।

अथ ईदन्ता निरूप्यन्ते । गौरीति ॥ गौरशब्दात् गौरादिलक्षणडीषि । 'यस्येति च' इत्यकारलोपे गौरीशब्द । तस्मात् सु, हल्डयादिलोप इति भाव । गौर्याविति ॥ दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भाव । गौर्यः इति ॥ 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भाव । नदीकार्यमिति ॥ * अम्बार्थनद्योर्ह्रस्व ? । 'आण्नद्या' हूस्वनद्यापो नुट् । “डेराम्नद्याम्नीभ्य ' इति विहितामित्यर्थ । 'यू स्रयाख्यौ इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनद्यादयः इति ॥ 'वण शब्दे’ वण्यते शब्द्यते इति वाणी । 'इञ् वपादिभ्य ' इति इञ् । 'कृदिकारादक्तिन ' इति डीष् । 'नदटै' इति पचादौ पठितात् टित्वात् डीप् । आदिना कत्रां दण्डिनी इत्यादिसङ्ग्रह । ‘सख्यशिश्धीति भाषायाम्' इति सखिशब्दात् डीषि “यस्येति च' इति इकारलोपे सखीशब्द । तस्य अनङ् सौ' इत्यनड् । 'सख्युरसम्बुद्धौ' इति णिद्वत्वञ्चाशङ्कते । प्रातिपदिकेति ॥ विभक्तौ लिङ्गविशिष्टाग्रहणम् । 'युवोरनाकौ' इत्यत्र 'डयाप्प्रातिपदिकात्’ इत्यत्र च भाष्ये इय परिभाषा पठिता । विभक्तिनिमित्तके कार्ये कर्तव्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहण नास्तीत्यथ । तथा च अनड्, णिद्वत्वञ्च न भवतीति भाव । सखीति ॥ ङयन्तत्वात् सुलोप ।