पृष्ठम्:महासिद्धान्तः.djvu/287

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः । २३१ इदानीमवमशेषे दृष्टे गतचन्द्रदिनाद्याह । कल्पावमानि भाज्योऽश्वमशेषं स्यादृणक्षेपः । चन्द्रदिनानिच्छेदक एभिः साध्यं फलं तथा गुणकः ॥३०॥ फलमवमानि गुणः स्यादिन्दुदनाद्योऽवमैरेभिः । हीनोऽसौ द्युगणोऽस्मात् कल्पगतं पूर्ववत् साध्यम् ॥३१॥ यद्वा भूदिनहाराद् गुणकः स्यादीप्सितो द्युर्गेणः । भूदिनहारात् कल्पकुदिनहारात्। देशर्ष स्पष्टम् । अत्रोपपत्तिः। भास्करोक्तेन महाप्रश्नाधिकरण स्फुटा॥३०-३१॥ इदानीं भगणशषादेर्ग्रहाद्यानयनमाह। भगणाद्यग्राणि स्यः क्षेपा ऋणसंज्ञकाः कहाश्छेदः ॥३२॥ भगणादीनां भाज्या भगणा यंखा गना तना तेना। विकलाशेषोत्पन्नं फलं विलिप्सा गुणः कलाशेषम् ॥३३॥ लिसाग्रोत्पन्नफल लिसा गुणकोशशेर्ष स्यात्। लवशेषजफलर्मशा गुणकी राश्यग्रक भवति ॥ ३४ ॥ राश्यग्रोत्पन्नफल गृहाणि गुणका भवेन्दगणशेषम् । । मण्डलशेषमभवं फलं च*चक्राण्यहर्गणो गुणकः ॥३९॥ . . यंखाः= १२ । गनाः = ३० । तन्नाः = ६० ॥ तेनाः = ६० ।। शेषं स्पष्टार्थम् । अत्रोपपत्तिः ।। * कल्प्याथ शुद्धिार्विकलावशेषम्? इत्यादिभास्करपाटीसूत्रेोपपत्या स्फुटा ॥ ३२-३९ ॥ इदानी विकलाशेषतो लाघवेनाहर्गणग्रहावाह । क्षितिदिवसौघो हारो विकलाग्रे स्यादृणक्षेपः । । भाज्यः कल्पविलिप्ता एभिर्यौ फलगुणौ ख-विधेः ॥३६॥ • वि. पुस्तके भचक्राण्यहर्गणः इति पाठ:।