१४ काव्यमाला । स्वरिततिः कत्रैभिप्राये क्रियाफले ॥ ७२ ॥ नित्यं यजते च सत्यवादी लोकं दर्शनतो हृतः पुनीते ॥ ११ ॥ अपाद्धदः ॥ ७३ ॥ णिचश्च ॥ ७४ ॥ यः कारयते हितं तमेनं को नामापवदेत लोकनाथम् । अविचारितशत्रुमित्रभावा गुणवत्ता हि वशीकरोति लोकम् ॥ १६ ॥ समुदाङ्भ्यो यमोऽग्रन्थे ॥ ७५ ॥ उद्यच्छते कर्तुमवद्यमत्र संयच्छते नेन्द्रियवर्गमात्मनः आयच्छते. तस्य पितेव सादरं खामी विधातुं विनयं प्रपन्नराट् ॥ १७ ॥ ७६ विभाषोपपदेन प्रतीय माने ॥ ७७ यः स्वयं यजति नान्यचोदितो यः स्वयं च यजते धृतादरः । जानते तमिह भूपतेश्वरा भूपतिश्च जानाति यं(तं) स्वयम् ॥ १८ ॥ (अतः परसैपदानि ।) अनुपराभ्यां कृञ्जनः ॥ ७९ ॥ श्रिया यदेषानुकरोति पूर्दिवं पराकरोत्यद्य(न्य)महीभृतां पुरीः । तदेतदाक्षेसुररातिसंपदो विजूम्भितं बाहुबलस्य भूपतेः ॥ १९ ॥ अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ प्राद्रहः ॥ ८१ ॥ परे मृषयः ॥ ८२ ॥ साक्षादभिक्षिपति योऽप्यमुमेव मूढं(ढस्) तं न प्रतिक्षिपति भूपतिरस्तगर्वः। युक्तं किमत्र परिमृष्यति दीर्घकालं चित्ते न हि प्रवहति प्रभुरेव कोपम् ॥ ६० ॥ व्याङ्परिभ्यो रमः ॥ ॥ उपाच ॥ ८४ ॥ ८३ विः तस्य क्षणादुपरमन्तिपुरे भयानि भृत्याः प्रजाः परिमन्ति विभूतिभाजः । १. अत्रापि छन्दविन्यम्. पाठतु पुस्तकद्वयेऽपि समान एव. वालोकिते विरमतीशितुरस्य कोपः ॥ ६१ ॥ आरमति गृहेषु तस्य लक्ष्मीरुपरमते च यशो दिशां मुखेषु । न नमति युधि यो जनोऽस्य गर्वाचरणयुगं नतिमात्रलब्धतोषम् ॥ ६२ ॥ अनेङ्पुदुस्त्रुभ्यो णेः ॥ ८६ यो थी(बो)धयेदरिममुं युधि योधयन्तं वनाशयति तस्य विपत्तिमाशु अध्यापयेद्यदि पुनः प्रतिकूलमस्य तस्यापदं जनयति स्वयमेव धाता ॥ ६१ ॥ स्रावयेदपि पयोदमकाले द्रावयेदपि युधा सुरनाथम् । प्रावयेदपि गिरीन्भुजनुन्नान्पार्थिवेषु गणनास्य न काचित् ॥ ६४ ॥ निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ एष भोजयति गाहमुपतान्व्यासन्नारदसमानाप विप्रान् न्ना) कम्पयेदपि धरां किमु शैलान् ॥ ६६ अणावकर्मकाचित्तवत्कर्तृकात् ॥ ॥ ८८ युधि नाशयति प्रभिन्नगण्डां गजतामेकशरेण लीलया यन् । प्रतियोधमवाप्य तुल्यशक्ति क्षितिपो नाशयते स्वयं युयुत्सुः ॥ १६ ॥ न पाद्म्याङन्यमाङन्यसपरिमुहरुचिन्मृतिवदवसः ८९ ऐरावतं दमयते मदसिक्तगण्डं व्योमापगापयसि पाययते बलानि । दैत्यव्रजस्य परिमोहयते पतिं य सोऽप्यस्य राज्यमभिनन्दति देवराजः ॥ ६७ ॥ आयासयन्ते विधुरान्विजेतुं लोकान्सुगुप्तार्नपि वासयन्ते । जनं गुणान्संसदि वादयन्ते सहस्रसंख्या युधि बाहवोऽस्य ॥ ६८ ॥ आयामयन्ते सु(ख)तर्नु तुरङ्गाः कुन्ता दि(इ)वोखा दिवि रोचयन्ते । वाताः पताकाः परिनर्तयन्ते यस्यामियं सा क्षितिपस्य सेना ॥ ६९ ॥ १. ‘नासयति' इति पाठो भवेत्, ‘नोपवेशयति’ इत्यर्थसंभवात्. २. ‘नति' ख.
पृष्ठम्:रावणार्जुनीयम्.djvu/११
दिखावट