श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०४ →



पितुर्यज्ञोत्सवं द्रष्टुं जिगमिषन्त्याः सत्याः शिवात्स्वीकृति प्रार्थनं, शिवद्वारा तत्र गमननिषेधश्च -

मैत्रेय उवाच -
(अनुष्टुप्)
सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।
 जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥
 यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।
 प्रजापतीनां सर्वेषां आधिपत्ये स्मयोऽभवत् ॥ २ ॥
 इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च ।
 बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥
 तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः ।
 आसन् कृतस्वस्त्ययनाः तत्पत्‍न्यश्च सभर्तृकाः ॥ ४ ॥
 तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।
 सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥
 व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः ।
 विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ॥ ६ ॥
 दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः ।
 पतिं भूतपतिं देवं औत्सुक्यादभ्यभाषत ॥ ७ ॥
 सत्युवाच -
प्रजापतेस्ते श्वशुरस्य साम्प्रतं
     निर्यापितो यज्ञमहोत्सवः किल ।
 वयं च तत्राभिसराम वाम ते
     यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥
 तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः
     ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः ।
 अहं च तस्मिन् भवताभिकामये
     सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥
 तत्र स्वसॄर्मे ननु भर्तृसम्मिता
     मातृष्वसॄः क्लिन्नधियं च मातरम् ।
 द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिः
     उन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥
 त्वय्येतदाश्चर्यमजात्ममायया
     विनिर्मितं भाति गुणत्रयात्मकम् ।
 तथाप्यहं योषिदतत्त्वविच्च ते
     दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११ ॥
 पश्य प्रयान्तीरभवान्ययोषितो
     ऽप्यलङ्‌कृताः कान्तसखा वरूथशः ।
 यासां व्रजद्‌भिः शितिकण्ठ मण्डितं
     नभो विमानैः कलहंसपाण्डुभिः ॥ १२ ॥
 कथं सुतायाः पितृगेहकौतुकं
     निशम्य देहः सुरवर्य नेङ्‌गते ।
 अनाहुता अप्यभियन्ति सौहृदं
     भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥
 तन्मे प्रसीदेदममर्त्य वाञ्छितं
     कर्तुं भवान्कारुणिको बतार्हति ।
 त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा
     निरूपिता मानुगृहाण याचितः ॥ १४ ॥
 ऋषिरुवाच -
एवं गिरित्रः प्रिययाभिभाषितः
     प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः ।
 संस्मारितो मर्मभिदः कुवागिषून्
     यानाह को विश्वसृजां समक्षतः ॥ १५ ॥
 श्रीभगवानुवाच -
त्वयोदितं शोभनमेव शोभने
     अनाहुता अप्यभियन्ति बन्धुषु ।
 ते यद्यनुत्पादितदोषदृष्टयो
     बलीयसान् आत्म्यमदेन मन्युना ॥ १६ ॥
 विद्यातपोवित्तवपुर्वयःकुलैः
     सतां गुणैः षड्‌भिरसत्तमेतरैः ।
 स्मृतौ हतायां भृतमानदुर्दृशः
     स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥
 नैतादृशानां स्वजनव्यपेक्षया
     गृहान् प्रतीयादनवस्थितात्मनाम् ।
 येऽभ्यागतान् वक्रधियाभिचक्षते
     आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८ ॥
 तथारिभिर्न व्यथते शिलीमुखैः
     शेतेऽर्दिताङ्‌गो हृदयेन दूयता ।
 स्वानां यथा वक्रधियां दुरुक्तिभिः
     दिवानिशं तप्यति मर्मताडितः ॥ १९ ॥
 व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः
     प्रियात्मजानामसि सुभ्रु मे मता ।
 तथापि मानं न पितुः प्रपत्स्यसे
     मदाश्रयात्कः परितप्यते यतः ॥ २० ॥
 पापच्यमानेन हृदाऽऽतुरेन्द्रियः
     समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।
 अकल्प एषामधिरोढुमञ्जसा
     परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥
 प्रत्युद्‍गमप्रश्रयणाभिवादनं
     विधीयते साधु मिथः सुमध्यमे ।
 प्राज्ञैः परस्मै पुरुषाय चेतसा
     गुहाशयायैव न देहमानिने ॥ २२ ॥
 सत्त्वं विशुद्धं वसुदेवशब्दितं
     यदीयते तत्र पुमानपावृतः ।
 सत्त्वे च तस्मिन् भगवान् वासुदेवो
     ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥
 तत्ते निरीक्ष्यो न पितापि देहकृद्
     दक्षो मम द्विट् तदनुव्रताश्च ये ।
 यो विश्वसृग्यज्ञगतं वरोरु मां
     अनागसं दुर्वचसाकरोत्तिरः ॥ २४ ॥
 यदि व्रजिष्यस्यतिहाय मद्वचो
     भद्रं भवत्या न ततो भविष्यति ।
 सम्भावितस्य स्वजनात्पराभवो
     यदा स सद्यो मरणाय कल्पते ॥ २५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥