सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०१ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०३ →


प्रभुविरह विषण्णेन उद्धवेन संक्षेपतः श्रीकृष्णबाललीलावर्णनम् -

श्रीशुक उवाच ।
 इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।
 प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ १ ॥
 यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।
 तन्नैच्छत् रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥
 स कथं सेवया तस्य कालेन जरसं गतः ।
 पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादौ अनुस्मरन् ॥ ३ ॥
 स मुहूर्तं अभूत्तूष्णीं कृष्णाङ्‌घ्रिसुधया भृशम् ।
 तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥
 पुलकोद् भिन्नसर्वाङ्गो मुञ्चन्मीलद्‌दृशा शुचः ।
 पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५ ॥
 शनकैः भगवल्लोकान् नृलोकं पुनरागतः ।
 विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥
 उद्धव उवाच ।
 कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह ।
 किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥
 दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
 ये संवसन्तो न विदुः हरिं मीना इवोडुपम् ॥ ८ ॥
 इङ्‌गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।
 सात्वतां ऋषभं सर्वे भूतावासममंसत ॥ ९ ॥
 देवस्य मायया स्पृष्टा ये चान्यद् असदाश्रिताः ।
 भ्राम्यते धीर्न तद्वाक्यैः आत्मन्युप्तात्मनो हरौ ॥ १० ॥
 प्रदर्श्या तप्ततपसां अवितृप्तदृशां नृणाम् ।
 आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥
 यन्मर्त्यलीलौपयिकं स्वयोग
     मायाबलं दर्शयता गृहीतम् ।
 विस्मापनं स्वस्य च सौभगर्द्धेः
     परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥
 यद्धर्मसूनोर्बत राजसूये
     निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
 कार्त्स्न्येन चाद्येह गतं विधातुः
     अर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥
 यस्यानुरागप्लुतहासरास
     लीलावलोकप्रतिलब्धमानाः ।
 व्रजस्त्रियो दृग्भिरनुप्रवृत्त
     धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥
 स्वशान्तरूपेष्वितरैः स्वरूपैः
     अभ्यर्द्यमानेष्वनुकम्पितात्मा ।
 परावरेशो महदंशयुक्तो
     ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५ ॥
 मां खेदयत्येतदजस्य जन्म
     विडम्बनं यद्वसुदेवगेहे ।
 व्रजे च वासोऽरिभयादिव स्वयं
     पुराद् व्यवात्सीद् यत् अनन्तवीर्यः ॥ १६ ॥
 दुनोति चेतः स्मरतो ममैतद्
     यदाह पादावभिवन्द्य पित्रोः ।
 ताताम्ब कंसाद् उरुशंकितानां
     प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥
 को वा अमुष्याङ्‌घ्रिसरोजरेणुं
     विस्मर्तुमीशीत पुमान् विजिघ्रन् ।
 यो विस्फुरद्‍भ्रूविटपेन भूमेः
     भारं कृतान्तेन तिरश्चकार ॥ १८ ॥
 दृष्टा भवद्‌भिः ननु राजसूये
     चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।
 यां योगिनः संस्पृहयन्ति सम्यग्
     योगेन कस्तद्विरहं सहेत ॥ १९ ॥
 तथैव चान्ये नरलोकवीरा
     य आहवे कृष्णमुखारविन्दम् ।
 नेत्रैः पिबन्तो नयनाभिरामं
     पार्थास्त्रपूतः पदमापुरस्य ॥ २० ॥
 स्वयं त्वसाम्यातिशयस्त्र्यधीशः
     स्वाराज्यलक्ष्म्याप्तसमस्तकामः ।
 बलिं हरद्‌भिश्चिरलोकपालैः
     किरीटकोट्येडितपादपीठः ॥ २१ ॥
 तत्तस्य कैङ्कर्यमलं भृतान्नो
     विग्लापयत्यङ्ग यदुग्रसेनम् ।
 तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये
     न्यबोधयद्देव निधारयेति ॥ २२ ॥
 अहो बकी यं स्तनकालकूटं
     जिघांसयापाययदप्यसाध्वी ।
 लेभे गतिं धात्र्युचितां ततोऽन्यं
     कं वा दयालुं शरणं व्रजेम ॥ २३ ॥
 मन्येऽसुरान् भागवतांस्त्र्यधीशे
     संरम्भमार्गाभिनिविष्टचित्तान् ।
 ये संयुगेऽचक्षत ताऱ्यपुत्र
     मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥
 वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
 चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५ ॥
 ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता ।
 एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥
 परीतो वत्सपैर्वत्सान् चारयन् व्यहरद्विभुः ।
 यमुनोपवने कूजद् द्विजसङ्कुलिताङ्‌घ्रिपे ॥ २७ ॥
 कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
 रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ २८ ॥
 स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।
 चारयन् ननुगान् गोपान् रणद् वेणुररीरमत् ॥ २९ ॥
 प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।
 लीलया व्यनुदत्तान् तान् बालः क्रीडनकानिव ॥ ३० ॥
 विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।
 उत्थाप्यापाययद् गावः तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥
 अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः ।
 वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥
 वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः ।
 गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥
 शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।
 गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥