भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८६

विकिस्रोतः तः

मदनद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
श्रोतुमिच्छामि भगवन्मदनद्वादशीव्रतम् ।।
सुतानेकोनपंचाशद्येन लेभे दितिः पुरा ।। १ ।।
।। श्रीकृष्ण उवाच।। ।।
तद्वशिष्ठादिभिः प्रोक्तमित्येका तिथिरुत्तमा ।।
विस्तरेण तदेवेदं मत्सकाशान्निवोधत ।। २ ।।
चैत्रे मासे सिते पक्षे द्वादश्यां नियतव्रतः ।।
स्थापयेदव्रणं कुंभं सिततंडुलपूरितम्।। ३ ।।
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ।।
सितवस्त्रयुगच्छन्नं सितचन्दन चर्चितम् ।। ४ ।।
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः ।।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेदयेत ।। ५ ।।
तस्योपरि तथा कामं कदलीदल संस्थितम् ।।
कुर्याच्छर्करयोपेतमिति तस्य समीपतः ।। ६ ।।
गंधं पुष्पं तथा दद्याद्गीतं वाद्यं च कारयेत्।।
तदलाभे कथां कुर्यात्कामकेशवयो र्नरः ।। ७ ।।
कामं नाम्ना हरेरर्चां स्नापयेद्गंधवारिणा ।।
शुक्लपुष्पाक्षततिलैरर्चयेन्मधुसूदनम् ।। ८ ।।
कामाय पादौ संपूज्य जंघे सौभाग्यदाय च ।।
मन्मथाय तथा मेढ्रं माधवाय कटिं नमः ।। ९ ।।
शांतोदरायेत्युदरमनंगायेत्युरो हरेः ।।
मुखं पद्ममुखायेति बाहुं पञ्चशराय वै ।। 4.86.१० ।।
नमः सर्वात्मने मौलिमर्चयेदिति केशवम् ।।
ततः प्रभाते कुंभं च ब्राह्मणाय निवेदयेत ।। ११ ।।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते ।।
भक्त्याथ दक्षिणां दद्यादिमं मंत्रमुदीरयेत् ।। १२ ।।
प्रीयतामत्र भगवान्कामरूपी जनार्दनः ।।
हृदये सर्वभूतानां यथा वेदोऽभिधीयते ।। १३ ।।
अनेन विधिना सर्वं मासिमासि समाचरेत् ।।
फलमामलकं प्राश्य द्वादश्यां भूतले स्वपेत् ।। १४ ।।
ततस्त्रयोदशे मासि घृतधेनुसमन्विताम् ।।
शय्यां दद्याद्द्विजेन्द्राय सर्वोपस्करसंयुताम् ।। १५ ।।
काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् ।।
वासोभिर्द्विजदांपत्यं पूज्य शक्त्या विभूषणैः।।१६।।
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् ।।
गव्येन सर्पिषा तत्र पायसेन च धर्मवित् ।। १७ ।।
विप्रेभ्यो भोजनं दद्याद्वित्त शाठ्यंविवर्जयेत् ।।
इक्षुदंडान्नरो दद्यात्पुष्पमालां च शक्तितः ।। १८ ।।
यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम् ।।
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ।। १९ ।।
इह लोके वरान्पुत्रान्सौभाग्यं सुखमश्नुते ।।
कश्यपो व्रतमाहात्म्यादागत्य परया मुदा ।। 4.86.२० ।।
चकाराकर्कशां भूयो रूपलावण्यसंयुताम् ।।
वरेण च्छन्दयामास या च वव्रे वरं वरम् ।।
पुत्रं शत्रुवधार्थाय समर्थममितौजसम् ।। २१ ।।
प्रार्थयामि महाभाग्यं सर्वामरनिषूदनम् ।।
कश्यपः प्राह तां भद्रे एवमस्तु सुशोभने ।। २२ ।।
संवत्सरशतं त्वेकं गर्भो धार्यः सुखेप्सया ।।
संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ।। २३ ।।
न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा ।।
नोपस्करे भुवि विशेन्मुसलोलूखलादिषु ।। २४ ।।
जलं न चावगाहेत शून्यागारं विवर्जयेत् ।।
वर्जयेत्कलहं गेहे गात्रभंगं तथैव च ।।२५।।
मुक्तकेशी न तिष्ठेत नाशुचिः स्यात्कथंचन ।।
न शयीतोन्नतशिरा न चाप्यार्द्रशिराः क्वचित् ।। २६ ।।
न वस्तुहीना नोद्विग्ना नार्द्रपादा न भूतले ।।
नामंगल्यां वदेद्वाचं न च हास्यपरा भवेत् ।। २७ ।।
कुर्याच्च गुरुशुश्रूषां नित्यं मंगलतत्परा ।।
सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ।। २८ ।।
कुस्त्रियो नाभिभाषेत वस्त्रवातं विवर्जयेत् ।।
मृतवत्सादि संसर्गं परगेहे च सुंदरि ।। २९ ।।
न शीघ्रं मार्गमाक्रामेल्लंघयेन्न महानदीम् ।।
न च बीभत्सकं किंचिन्न च वीक्षेद्भयानकम् ।। 4.86.३० ।।
गुरु वातुलमाहारमजीर्णं न समाचरेत् ।।
संपूर्णगर्भिण्यायामं व्यायामं वा विवर्जयेत् ।। ३१ ।।
गर्भो रक्ष्यः सदौषध्या हृदि धार्यो न मत्सरः ।।
अनेन विधिना साध्वि शोभनं पुत्रमाप्नुयात् ।। ३२ ।।
अन्यथा गर्भपतनं स्तंभनं वा प्रवर्तते ।।
तस्मात्त्वमनया वृत्त्या गर्भेस्मिंश्च समाचरेः ।।
भविष्यति शुभः पुत्रः सर्वावयवसुंदरः ।। ३३ ।।
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया च सः ।।
पश्यतां सर्वभूतानां तत्रैवांतर्हितोभवत् ।। ।। ३४ ।।
ततः सा कश्यपोक्तेन विधिना समतिष्ठत ।।
अथाप पुत्रान्पंचाशदेकोनान्पांडुनंदन ।। ३५ ।।
एवमन्यापि या नारी मदनद्वादशीमि माम् ।।
करोति पुत्रानाप्नोति सह भर्त्रा सुखी भवेत्।। ३६ ।।
एकोनमर्द्धशतमाप दितिः सुतानां येन व्रतेन बलवीर्यसमन्वितानाम् ।।
मर्त्यः समाचरति पुत्रधनाभिलाषी तत्सर्वमत्र सफलं भवतीह पुंसः ।। ३७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मदनद्वाद शीव्रतवर्णनं नाम षडशीतमोऽध्यायः ।। ८६ ।।