निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्यद्भजन्ति ककुभः प्रसन्नताम् ॥३५॥ अन्वयः ते ज्यारवैः दिशां करटिनः अपि हन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । व्याख्या ते तव विक्रमाङ्कदेवस्य ज्याया मौव्य रवाः स्वनास्तैज्यरवैः शिञ्जिनी निघणैः ‘मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । दिशां ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थः । हन्तेति हर्षे, ‘हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च' इत्यमरः । निर्मदत्वं भयेन मदराहित्यमुपयान्ति प्राप्नुवन्ति । ते ज्यारवं श्रुत्वा दिग्गजाः स्वाहंकारं परिहृत्य भीतास्सन्तो मवरहिता भवन्तीति भावः । यद्यस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैमहैि: ‘मूछ तु कश्मलं मोहोऽप्यबमर्दस्तु पीडनम्' इत्यमरः । कुनृपकृतदुष्कर्मभि रित्यर्थः । परिहृता रहिता ककुभो विशः प्रसन्नतां नैर्मल्यं भजन्ति समाश्रयन्ति । कश्मलस्याऽलिभिस्साभ्याटुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय से मद रहित हो जाते इह । मद जल के न बहने से भ्रमरों के न आने के कारण, भ्रमर रूपी दुष्ट राजाओं के कुकृत्य स्वरूप कालिमा के दूर हो जाते
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३१८
दिखावट