भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८०
मनोरथद्वादशीव्रतवर्णनम्
।। श्रीकृष्ण उवाच ।। ।।
फाल्गुनेमलपक्षस्य एकादश्यामुपोषितः ।।
नरो वा यदि वा नारी समभ्यर्च्य जगत्पतिम् ।। १ ।।
हरेर्नाम वदन्भक्त्या भावयुक्तो युधिष्ठिर ।।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ।। २ ।।
ततोन्यस्मिन्दिने प्राप्ते द्रादश्यां नियतो हरिम् ।।
स्नात्वा सम्यक्समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ।। ३ ।।
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः ।।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत ।। ४ ।।
पातालसंस्थां वसुधां यां प्रसाद्य मनोरथा।।
अवाप वासुदेवोसौ प्रदद्यात्तु मनोरथान् ।।५।।
यमभ्यर्च्य दिवि प्राप्तः सकलांश्च मनोरथान् ।।
भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य जगत्पतिम् ।। ६ ।।
मनोरथानभिनवान्प्राप्तवांश्च मनोहरान् ।।
एवमभ्यर्च्य पूजां च निष्पाद्य च हरेस्ततः ।।
भुञ्जीत प्रयतः सम्यग्हविष्यं पांडुनन्दन ।। ७ ।।
फाल्गुने चैत्रे वैशाखे ज्येष्ठे मासि च सत्तम ।।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ।। ८ ।।
रक्तपुष्पैश्च चतुरो मासा न्कुर्वीत चार्चनम् ।।
दहेत्तु गुग्गुलुं प्राश्य गोशृंगक्षालनं जलम् ।।९।।
हविष्यान्नं च नैवेद्यमात्मनश्चापि भोजनम् ।।
ततश्च श्रूयतां पार्थ आषाढादौ तु या क्रिया ।।4.80.१ ०।।
जातीपुष्पाणि धूपश्च शस्तः सार्जरसो नृप ।।
प्राश्य दर्भोदकं चास्य शाल्यन्नं च निवेदनम् ।।११।।
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।।
कार्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ।।१२।।
सुगंधिश्चेच्छया धूपं पूजा भृंगारकेन च ।।
कांसारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ।।१३।।
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।।
पारणं चेच्छया विष्णोः पारणे पावने मते ।। १४ ।।
यथाशक्त्या यथाप्रीत्या वित्तशाठ्यं विवर्जयेत् ।।
सद्भावेनैव गोविंदः पूजितः प्रीयते यतः ।।१५।।
पारणांते यथाशक्ति स्नापितः पूजितो हरिः ।।
प्रीणितश्चेप्सितान्कामांस्तान्ददात्यव्ययान् नृप ।।१६।।
वर्षांते प्रतिमामिष्टां कारयित्वा सुशोभनाम्।।
स्वर्णकेन यथा शक्त्या शंखशार्ङ्गविभूषिताम् ।। १७ ।।
पुष्पवस्त्रयुगच्छन्नां ब्राह्मणाय निवेदयेत् ।।
द्वादश ब्राह्मणांस्तत्र भोजयित्वा क्षमापयेत् ।।१८।।
द्वादशात्र प्रदातव्याः कुंभाः सान्नजलाक्षताः ।।
छत्रोपानद्युगैः सार्द्धं दक्षिणाभिश्च भारत ।। १९ ।।
एषा पुण्या पापहरा द्वादशी फलमिच्छताम् ।।
यथाभिलषितान्कामान्ददाति नृपसत्तम ।।4.80.२०।।
पूरयत्यखिलान्भक्त्या यतश्चैषां मनोरथान् ।।
मनोरथा द्वादशीयं ततो लोकेषु विश्रुता ।।२१।।
उपोष्यैतां त्रिभुवनं लब्धमिन्द्रेण वै पुरा ।।
आदित्याश्चेष्टिताः पुत्रा धनमौशनसा तथा ।। २२ ।।
धौम्येनाध्ययनं प्राप्तमन्यैश्चाभिमतं फलम् ।।
राजर्षिभिस्तथा विप्रैः स्त्रीविट्शूद्रैश्च भूतले ।। २३ ।।
यंयं काममभिध्याय व्रतमेतदुपोषितम् ।।
तत्तदाप्नोत्यसंदिग्धं विष्णोराराधनोद्यतः ।। २४ ।।
अपुत्रो लभते पुत्रमधनो लभते धनम् ।।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ।। २५ ।।
समागमं प्रवसनैरुपोष्यैतामवाप्यते ।।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ।। २६ ।।
नापुत्रो नाधनो ज्येष्ठो वियोगी न च निर्गुणः ।।
उपोष्यैतद्व्रतं मर्त्यः स्त्रीशूद्रो वापि जायते ।। २७ ।।
स्वर्गलोके सहस्राणि वर्षाणामयुतानि च ।।
भोगानभिमतान्भुक्त्वा तत्रतत्र यथेच्छया ।। २८ ।।
इह पुण्यवतां नॄणां धनिनां लघुशालिनाम् ।।
गृहे प्रजायते राजन्सर्वव्याधिविवर्जितः ।। २९ ।।
न द्वादशीमुपवसन्ति मनोरथाख्यां नैवार्चयंति पुरुषोत्तममादिदेवम् ।।
गोब्राह्मणांश्च न नमंति न पूजयंति ये ते मनोभिलषितं कथमाप्नुवंति ।। 4.80.३० ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मनोरथद्वादशीव्रतवर्णनं नामाशीतितमोऽध्यायः ।। ८० ।।