अन्वयः सुतद्वयं ते निजकर्मसम्भवं, मध्यमः तनयः तु मम प्रसादात्, सः रामः इव दोर्बलात् पयोनिधेः पारगताम् अपि श्रियम् श्राहरिष्यति । व्याख्या सुतद्वयं द्वौ पुत्रौ ते तव निजेन स्वकीयेन कर्मणा तपसा सुकृतेन वा सम्भव उत्पत्तिर्ययोस्तत् । द्वौ पुत्रौ तव कठिनत्रतफलरूपाविति भावः । मध्यमो द्विती यस्तनयः पुत्रस्तु मम शिवस्य प्रसादादनुग्रहविशेषाद्भविष्यति । स राम इव दाशरथिरित्र दोष्णोर्भुजयोर्बलं शक्तिस्तस्मात् ‘भुजबाहू प्रवेष्टो दोः' इत्यमरः । पयोनिधेः समुद्रस्य पारगतां पारे गतां श्रियं राज्यलक्ष्मीं रामपक्षे सीतामाहरिष्यति समानेष्यति । अत्रोपमालङ्कारः । भाषा दो पुत्र तुम्हारे किये हुवे कठिन अनुष्ठानादि कमो से प्राप्त होंगे । किन्तु तुम्हारा मध्यम पुत्र तो मेरी विशेष कृपा से तुम्हें प्राप्त होगा । वह रामचन्द्र के समान समुद्र के पार गई हुई सीता रूपी लक्ष्मी को अपने भुजबल से ले आएगा । गिरं निपीय श्रुतिशुक्तिमागतां सुधामिव व्योमपयोनिधेरिति । उदश्विरोमाश्वतया समन्ततः स शैत्यसम्पर्कमिव न्यवेदयत् ॥५४॥ अन्वयः स; व्योमपयोनिधेः श्रुतिशुक्तिम् आगतां सुधाम् इव इति गिरं निपीय
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४९
दिखावट