सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या यस्य राज्ञः पुष्पेषोः कुसुमबाणस्य कामस्य इवाऽखर्वाः प्रबलाः शरा बाणास्स- वैर्वीरैर्दुष्परिहरा दुःखेन परिहर्तु शक्याः कृच्छण प्रतिरोधनीया निवारणीया इत्यर्थः । यस्योजितया बलवत्या ज्यया मौर्व्या निष्ठयूतो निस्सृतो नितान्त- मत्यन्तं निष्ठुरः कठोरो रवः शब्दस्तेन प्राप्तो लब्धोऽग्रवादो युद्धाव्हानाय प्रथम- ध्वानो यस्य स भुजो युद्धेषु रणेषु राज्ञां नृपाणामप्रतिभानं प्रतिभाराहित्यं विवेकशून्यत्वं मूकत्वं वा किं कर्तव्यताविमूढत्वमित्यर्थः । विदधे चक्रे, तस्य विक्रामतः पराक्रमशालिनो देवस्याऽऽहवमल्लदेवस्य, ‘नामैकदेशाग्रहणे नामग्रहणम् !' अस्त्राणां कौशलविधौ संचालनप्रावीण्यविधौ शस्त्रास्त्रविद्यानैपुण्यविषये किं बूमः किमपि कथनीयं नाऽस्ति । अवाग्गोचरत्वमेवेत्यर्थः । अत्र शार्दूलविक्रीडितच्छन्दः । ‘सूर्याश्वैर्मसजास्ततस्सततगाः शार्दूलविक्रीडितमिति' ।

                      भाषा

उस पराक्रमी राजा आहवमल्लदेव की अस्त्र चलाने की प्रवीणता के सम्बन्ध में विशेष क्या कहा जाय, जिसके कामदेव के समान प्रबल बाणों को कोई भी टाल नहीं सकता था और जिसकी शक्तियुक्त मौवीं के अत्यन्त कठोर शब्दों द्वारा सर्व प्रथम ललकार ने वाली भुजा, युद्धों में शत्रुओं को किं कर्तव्यता- विमूढ अतएव मूक बना देती थी ।

इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्ये प्रथमः सर्गः ।

नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् भारद्वाज-वुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः । चक्रे रामकुवेरपण्डितवरात्संप्राप्तसाहाय्यकः