सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पौरुषं पुरुषार्थ एव काञ्चनं सुवर्ण तस्य कषोपले शुद्धयशुद्धिपरिचायक

   नीलपाषाणरूपे, यशा:पाण्डुसरोरुहाणां यशस्स्वरूपशुभ्रपद्मानामुत्पत्तिस्थानरूपे पङ्गे
   कृष्णवर्णपङ्कभिन्नेऽवाप्तः प्राप्तः पाणेर्हस्तस्य प्रणयस्संग्रहणस्नेहो यस्मिन्नेवं भूते
   कृपाणे खङ्गऽतिप्रहृष्टामतिप्रसन्नां दृष्टि व्यापारयन् कुर्वन्-सुभट आविरासीदि
   त्यनेनाऽन्वयः । पौरुषे काञ्चनाभेदारोपस्य कृपाणे कषोपलत्वारोपेकारणत्वाद्य
   शसि श्वेतपद्मारोपस्य च खङए पङ्कत्वारोपे कारणत्वात्परम्परितरूपकद्वयम् ।
                         भाषा
   पुरुषार्थरूपी सोने की काली कसौटी स्वरूप तथा यशरूपी श्वेत कमलों को
 उत्पन्न करने वाली तालाव की काली मिट्टी स्वरूप अपन्न हाथ को प्रिय लगने
 वाली तलवार को अत्यन्त हर्ष युक्त दृष्टि से देखता हुवा-एक वीर उत्पन्न हुवा ।
  हेमाचलस्येव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः ।
  अथाऽऽविरासीत्सुभटखिलोक-बाणप्रवीणक्लुत्रुकाद्विधातुः ॥५॥ 
                         अन्वयः 
   अथ उदारजाम्बूनदचारुदेहः हेमाचलस्य शिलाभिः कृतः इव त्रिलोक
  त्राणप्रवीणः सुभटः विधातुः चुलुकात् आविरासीत् ।
                         व्याख्या
   अथ ब्रह्मणः स्व-चुलुके दृष्टिपातादनन्तरं उदारं शुद्धं महत् ‘उदारो दातृ
 महतोः' इत्यमरः । जाम्बूनदमिव सुवर्णमिव ‘रुक्मं कार्तस्वरं जाम्बूनदमष्टा
 पदोऽस्त्रियाम्' इत्यमरः । चारुः सुन्दरो देहः शरीरं यस्य स अतएव हेमाचलस्य
 सुमेरोशिलाभिः कृत इव निर्मित इव त्रिलोकस्य त्रैलोक्यस्य त्राणे रक्षणे समुद्धरणे