सामग्री पर जाएँ

पृष्ठम्:आर्यभटीयम्.djvu/107

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः १६] कोटिभुजौ ५५

स्थानद्वयस्थितयोः शङ्कोरन्यतरस्य छायया गुणितं छायाग्रयोरन्तरालं भजेत्। ऊनेन द्वयोश्छाययोर्विशेषण । तस्माल्लब्धा कोटी, यया छायया गुणितं तदग्रस्य दीपस्तम्भमूलस्य चान्तरालम् इत्यर्थः । सा कोटी शङ्कुगुणा तया छायया भक्ता सती भुजा भवति दीपस्तम्भोच्छायसंख्या भवति ।

उददेशकः—

शङ्को: समयोईष्टे कमशो दशषोडशाङ्गुले छाये । अग्रान्तरं च दृष्ट त्रिशत् कोटीभुजे वाच्ये। परिलेख: 14

न्यासः- शङ्कुः 12. छाये 10, 16. प्रग्रान्तरम् 30. एतच्छाययाऽनया। 16, गुणितं 480. छाययोर्विश्लेषेणानेन 6, हृत्वा लभ्धं कोटि: 80, एषा शङ्कुगुणा 960, छाययानया 16, विभक्ता दीपस्तम्भप्रमाणम् 60. अथवा छाययानया 10, गुणितमग्रान्तरम् 300, छाययोर्विशेषण 6, विभज्य लभ्धं कोटि: 50 एषा शङ्कुगुणा 600, छायया भक्ता सैव भुजा 60. इति षोडशं सूत्रम् ।। १६ ।।

[कर्णः] ज्ञातकोटिभुजस्य क्षेत्रस्य कर्णानयनमार्यापूवार्धनाह'- यश्चैव भुजावर्गः कोटीवर्गश्च कर्णवर्गः सः ।

व्याख्या- 1. D. E. विश्लेषेण 2. C. लभ्धं 3. D. E. विर्श्लेषेणानेन 4. A. B. C. E. Hapl. om. शङ्कुगुणा 960 [छाययानया to शङ्कुगुणा 600] छायया, two lines below 5. D. नयनमाद्यर्घोनाऽऽह।