बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५८ (बुधान्तर्दशाफलाध्यायः)
दिखावट
← अध्यायः ५७ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५९ → |
अथ बुधान्तर्दशाफलाध्यायः ||५८|| मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् | विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ||१|| विभवं दारपुत्रादि पितृमातृसुखावहम् | स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ||२|| पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः | आत्मबन्धुविरोधश्च शूलरोओगादिसम्भवः ||३|| राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् | द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ||४|| आत्मसम्बन्धिमरणं वातशूलादिसम्भवः | तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||५|| बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे | शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ||६|| योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे | देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ||७|| चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः | विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ||८|| भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् | दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ||९|| वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः | चौरादिराजभीतिश्च पापकर्मरतः सदा ||१०|| वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः | शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ||११|| द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति | तद्दोषपरिहाराय छागदानं तु कारयेत् ||१२|| सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे | सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ||१३|| मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् | दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ||१४|| तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः | वापीकूपतडागदिदानधर्मादिसंग्रहः ||१५|| व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् | दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ||१६|| हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् | आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ||१७|| आत्मकष्टं मनस्तापदायकं द्विजसत्तम | द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||१८|| तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् | जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ||१९|| सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे | त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ||२०|| राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् | भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ||२१|| लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् | ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ||२२|| लग्नाष्टमव्यये वापि शन्यारफणिसंयुते | दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२३|| चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति | शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ||२४|| द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति | तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ||२५|| सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ||२६|| योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् | स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ||२७|| नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् | गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ||२८|| दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति | द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ||२९|| मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् | नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ||३०|| दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा | तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ||३१|| मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् | दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ||३२|| चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् | दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ||३३|| द्वितीयद्यूननाथे तु देहबाधा भविष्यति | तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३४|| वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् | जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३५|| सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ||३६|| राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् | लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ||३७|| पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् | गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ||३८|| राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् | नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ||३९|| पापदृष्टियुते वापि देहपीडा मनोव्यथा | उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ||४०|| ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् | दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ||४१|| शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् | पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ||४२|| दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते | तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ||४३|| नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् | स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ||४४|| अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा | द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ||४५|| गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् | शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ||४६|| बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे | कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ||४७|| राजसम्मानकीर्तिं च धनं च प्रभविष्यति | पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ||४८|| इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् | भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ||४९|| लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् | भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ||५०|| लग्नादुपचये राहौ शुभग्रहसमन्विते | राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ||५१|| दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते | निष्ठुरं राजकार्याणि अथानभ्रंशो महद्भयम् ||५२|| बन्धनं रोगपीडा च निजबन्धुमनोव्यथा | हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ||५३|| द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति | तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ||५४|| श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् | जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||५५|| बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ||५६|| देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च | विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ||५७|| गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् | देवतागुरुभक्तिश्च दानधर्ममखादिकम् ||५८|| यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा | नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ||५९|| शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः | चौरादिदेहपीडा च पितृमातृविनाश्नम् ||६०|| मानहानि राजदण्डो धनहानिर्भविष्यति | विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ||६१|| दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते | बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ||६२|| पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् | दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ||६३|| अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति | कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ||६४|| अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् | द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ||६५|| तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् | गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ||६६|| सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे | त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ||६७|| राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ||६८|| शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् | अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ||६९|| अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् | बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ||७०|| विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् | द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७१|| तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् | कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ||७२|| -