देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ११

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १० देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ११
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १२ →
६४ कला-१
६४ कला - २
६४ कला- ३
६४ कला- ४



पद्मरागादिमणिविनिर्मितप्राकारवर्णनम्

व्यास उवाच
 पुष्परागमयादग्रे कुङ्‌कुमारुणविग्रहः ।
 पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १ ॥
 दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः ।
 तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ २ ॥
 मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः ।
 नानायुधधरा वीरा रत्‍नभूषणभूषिताः ॥ ३ ॥
 प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः ।
 समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४ ॥
 स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।
 तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५ ॥
 पिङ्‌गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।
 श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा ॥ ६ ॥
 त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
 सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ॥ ७ ॥
 विमला चामला तद्वदरुणी पुनरारुणी ।
 प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८ ॥
 सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।
 देवमाता भगवती देवकी कमलासना ॥ ९ ॥
 त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।
 लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १० ॥
 रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।
 गगनवेगा पवनवेगा वेगा चैव ततः परम् ॥ ११ ॥
 अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।
 अनङ्‌गानङ्‌गमथना तथैवानङ्‌गमेखला ॥ १२ ॥
 अनङ्‌गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।
 क्षयङ्‌करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३ ॥
 सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता ।
 उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४ ॥
 ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् ।
 जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५ ॥
 पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् ।
 इति वाचं संगिरन्ते क्रोधसंरक्तलोचनाः ॥ १६ ॥
 चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा ।
 दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्‌मुखाः ॥ १७ ॥
 पिङ्‌गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।
 शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८ ॥
 एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।
 शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९ ॥
 किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।
 सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २० ॥
 रथानां गणना नास्ति हयानां करिणां तथा ।
 शस्त्राणां गणना तद्वद्‌गणानां गणना तथा ॥ २१ ॥
 पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।
 दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२ ॥
 भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।
 गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३ ॥
 पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च ।
 गोमेदकल्पिता एव कुङ्‌कुमारुणविग्रहाः ॥ २४ ॥
 तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।
 नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५ ॥
 प्रत्येकलोकवासिन्यः परिवार्य समन्ततः ।
 गोमेदसाले सन्नद्धाः पिशाचवदना नृप ॥ २६ ॥
 स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।
 क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७ ॥
 वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।
 एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८ ॥
 सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।
 तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९ ॥
 रथानां नैव गणना वाहनानां तथैव च ।
 सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३० ॥
 तासां नामानि वक्ष्यामि पापनाशकराणि च ।
 विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१ ॥
 रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा ।
 कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२ ॥
 विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
 निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३ ॥
 इन्द्राणी चैव रुद्राणी शङ्‌करार्धशरीरिणी ।
 नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४ ॥
 अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।
 यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५ ॥
 पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।
 गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६ ॥
 दशयोजनतुङ्‌गोऽसौ गोपुरद्वारसंयुतः ।
 कपाटशृङ्‌खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७ ॥
 सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।
 गृहाणि वीथयो रथ्या महामार्गाङ्‌गणानि च ॥ ३८ ॥
 वृक्षालवालतरवः सारङ्‌गा अपि तादृशाः ।
 दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥ ३९ ॥
 तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।
 एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४० ॥
 तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः ।
 काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१ ॥
 काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।
 नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२ ॥
 नानादर्शकराः काश्चित्काश्चित्कुङ्‌कुमलेपनम् ।
 धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३ ॥
 काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः ।
 काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४ ॥
 पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्‌गारकारिकाः ।
 नानाविलासचतुरा बह्व्य एवंविधाः पराः ॥ ४५ ॥
 निबद्धपरिधानीया युवत्यः सकला अपि ।
 देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६ ॥
 एता दूत्यः स्मृता देव्यः शृङ्‌गारमदगर्विताः ।
 तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७ ॥
 अनङ्‌गरूपा प्रथमाप्यनङ्‌गमदना परा ।
 तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८ ॥
 ततो भुवनवेगा स्यात्तथा भुवनपालिका ।
 स्यात्सर्वशिशिरानङ्‌गवदनानङ्‌गमेखला ॥ ४९ ॥
 विद्युद्दामसमानाङ्‌ग्यः क्वणत्काञ्चीगुणान्विताः ।
 रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५० ॥
 धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।
 कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१ ॥
 अष्टदिक्षु तथैतासां प्राकाराद्‌बहिरेव च ।
 सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२ ॥
 वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।
 दशयोजनतुङ्‌गोऽसौ गोपुरद्वारभूषितः ॥ ५३ ॥
 वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च ।
 वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४ ॥
 वापीकूपतडागाश्च स्रवन्तीनां तटानि च ।
 बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५ ॥
 तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् ।
 निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६ ॥
 प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः ।
 ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७ ॥
 वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ।
 अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८ ॥
 ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः ।
 जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९ ॥
 तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।
 सज्जानि नृपते सन्ति सालङ्‌काराणि नित्यशः ॥ ६० ॥
 दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।
 हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१ ॥
 तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।
 पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२ ॥
 कोटिशस्तु विमानानि नानाचिह्नान्वितानि च ।
 नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३ ॥
 वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः ।
 दशयोजनतुङ्‌गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४ ॥
 तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च ।
 वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५ ॥
 तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् ।
 षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६ ॥
 तत्र षोडशशक्तीनां स्थानानि विविधानि च ।
 सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७ ॥
 तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।
 कराली विकराली च तथोमा च सरस्वती ॥ ६८ ॥
 श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।
 श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ ६९ ॥
 नीलजीमूतसंकाशाः करवालकराम्बुजाः ।
 समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७० ॥
 सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।
 प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१ ॥
 ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः ।
 नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२ ॥
 एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।
 इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३ ॥
 मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् ।
 मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४ ॥
 मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।
 तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५ ॥
 सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।
 देवीसमानभोगास्ता इङ्‌गितज्ञास्तु पण्डिताः ॥ ७६ ॥
 कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।
 देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७ ॥
 नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।
 प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८ ॥
 तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।
 अनङ्‌गकुसुमा प्रोक्ताप्यनङ्‌गकुसुमातुरा ॥ ७९ ॥
 अनङ्‌गमदना तद्वदनङ्‌गमदनातुरा ।
 भुवनपाला गगनवेगा चैव ततः परम् ॥ ८० ॥
 शशिरेखा च गगनरेखा चैव ततः परम् ।
 पाशाङ्‌कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१ ॥
 विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।
 मुक्तासालादग्रभागे महामारकतोऽपरः ॥ ८२ ॥
 सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् ।
 नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ॥ ८३ ॥
 मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।
 षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु ॥ ८४ ॥
 पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः ।
 कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५ ॥
 तदायुधधरा देवी गायत्री परदेवता ।
 वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६ ॥
 स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।
 ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७ ॥
 व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।
 रक्षःकोणे शङ्‌खचक्रगदाम्बुजकराम्बुजा ॥ ८८ ॥
 सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।
 ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९ ॥
 सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि ।
 वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९० ॥
 महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।
 ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१ ॥
 गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।
 चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२ ॥
 ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि ।
 अग्निकोणे रत्‍नकुम्भं तथा मणिकरण्डकम् ॥ ९३ ॥
 दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।
 नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४ ॥
 देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।
 वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ ९५ ॥
 पाशाङ्‌कुशधनुर्बाणधरो नित्यं विराजते ।
 शृङ्‌गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६ ॥
 ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।
 पाशाङ्‌कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७ ॥
 विभूतयो गणेशस्य या याः सन्ति नृपोत्तम ।
 ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८ ॥
 प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।
 एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९ ॥
 महामारकतस्याग्रे शतयोजनदैर्घ्यवान् ।
 प्रवालसालोऽस्त्यपरः कुङ्‌कुमारुणविग्रहः ॥ १०० ॥
 मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।
 तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१ ॥
 हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
 महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२ ॥
 पाशाङ्‌कुशवराभीतिधारिण्योऽमितभूषणाः ।
 देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३ ॥
 प्रवालसालादग्रे तु नवरत्‍नविनिर्मितः ।
 बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४ ॥
 तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।
 नवरत्‍नमयान्येव तडागाश्च सरांसि च ॥ १०५ ॥
 श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।
 महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६ ॥
 निजावरणदेवीभिर्निजभूषणवाहनैः ।
 सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७ ॥
 सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि ।
 नवरत्‍नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८ ॥
 तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् ।
 सूर्योद्‌गारोपलैस्तद्वच्चन्द्रोद्‌गारोपलैस्तथा ॥ १०९ ॥
 विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।
 येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे
 पद्मरागादिमणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥

वर्गःदेवीभागवतपुराणम्