देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १०
वेदव्यासः‎
अध्यायः ११ →
मणिद्वीपवर्णनम्

व्यास उवाच
 ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
 मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १ ॥
 सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
 पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ २ ॥
 सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
 कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ ३ ॥
 गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
 न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ ४ ॥
 छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।
 छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ ५ ॥
 बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।
 मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ ६ ॥
 मरुत्सङ्‌घट्टनोत्कीर्णतरङ्‌ग शतसङ्‌कुलः ।
 रत्‍नाच्छवालुकायुक्तो झषशङ्‌खसमाकुलः ॥ ७ ॥
 वीचिसङ्‌घर्षसञ्जातलहरीकणशीतलः ।
 नानाध्वजसमायुक्तनानापोतगतागतैः ॥ ८ ॥
 विराजमानः परितस्तीररत्‍नद्रुमो महान् ।
 तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ ९ ॥
 सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
 नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ १० ॥
 रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।
 चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ ११ ॥
 नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
 दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ १२ ॥
 तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।
 विमानशतसङ्‌घर्षघण्टास्वनसमाकुलः ॥ १३ ॥
 हयहेषाखराघातबधिरीकृतदिङ्‌मुखः ।
 गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ १४ ॥
 सेवका देवसङ्‌घानां भ्राजन्ते तत्र भूमिप ।
 तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ १५ ॥
 कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।
 पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ १६ ॥
 वाटिका विविधा राजन् रत्‍नद्रुमविराजिताः ।
 तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ १७ ॥
 सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
 तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ १८ ॥
 गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
 या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ १९ ॥
 निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।
 नवपल्लवसंयुक्ताः परसौरभसङ्‌कुलाः ॥ २० ॥
 पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
 देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१ ॥
 लिकुचा हिङ्‌गुलाश्चैला लवङ्‌गाः कट्फलास्तथा ।
 पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२ ॥
 तालास्तमालाः सालाश्च कङ्‌कोला नागभद्रकाः ।
 पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३ ॥
 अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
 गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४ ॥
 चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
 कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५ ॥
 खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
 क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६ ॥
 रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
 तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७ ॥
 इत्यादितरुजातीनां वनान्युपवनानि च ।
 नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ २८ ॥
 कोकिलारावसंयुक्ता गुञ्जद्‌भ्रमरभूषिताः ।
 निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ २९ ॥
 नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
 नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ ३० ॥
 पारावतशुकव्रातसारिकापक्षमारुतैः ।
 हंसपक्षसमुद्‌भूतावातव्रातैश्चलद्द्रुमम् ॥ ३१ ॥
 सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् ।
 सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ ३२ ॥
 नृत्यद्‌बर्हिकदम्बस्य केकारावैः सुखप्रदैः ।
 नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ ३३ ॥
 कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
 चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ ३४ ॥
 द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका ।
 येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ ३५ ॥
 पत्राणि काञ्चनाभानि रत्‍नबीजफलानि च ।
 दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ ३६ ॥
 तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् ।
 पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ ३७ ॥
 पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
 मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ३८ ॥
 क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः ।
 अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ ३९ ॥
 दशयोजनपर्यन्तं कुसुमामोदवायुना ।
 पूरितं दिव्यगन्धर्वैः साङ्‌गनैर्गानलोलुपैः ॥ ४० ॥
 शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
 वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ ४१ ॥
 ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
 समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥ ४२ ॥
 सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
 दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ ४३ ॥
 हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् ।
 अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ ४४ ॥
 ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
 शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ४५ ॥
 सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
 नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ ४६ ॥
 विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्‌किलैः ।
 पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ ४७ ॥
 प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः ।
 सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ ४८ ॥
 प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् ।
 हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ ४९ ॥
 सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
 विद्युत्पिङ्‌गलनेत्रश्च जीमूतकवचः स्मृतः ॥ ५० ॥
 वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः ।
 सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ ५१ ॥
 नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
 अम्बा दुला निरत्‍निश्चाभ्रमन्ती मेघयन्तिका ॥ ५२ ॥
 वर्षयन्ती चिपुणिका वारिधारा च सम्मताः ।
 वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ ५३ ॥
 नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
 हरितानि तृणान्येव वेष्टिता यैर्धराखिला ॥ ५४ ॥
 नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः ।
 सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ ५५ ॥
 वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
 वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ ५६ ॥
 ते गणा निवसन्त्यत्र सविलासाश्च साङ्‌गनाः ।
 आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ५७ ॥
 पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका ।
 नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ ५८ ॥
 अधिष्ठातात्र सम्प्रोक्तः शरद्‌ऋतुरनामयः ।
 इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ ५९ ॥
 नानासिद्धा वसन्त्यत्र साङ्‌गनाः सपरिच्छदाः ।
 पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ६० ॥
 दीप्यमानो महाशृङ्‌गैर्वर्तते रौप्यसालकः ।
 पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ ६१ ॥
 दशयोजनगन्धीनि कुसुमानि समन्ततः ।
 मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ ६२ ॥
 तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः ।
 सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप ॥ ६३ ॥
 सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
 वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ ६४ ॥
 रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
 सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ ६५ ॥
 मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता ।
 कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ ६६ ॥
 याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते ।
 तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ ६७ ॥
 तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
 मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ ६८ ॥
 नानाविलाससंयुक्तो नानागणसमावृतः ।
 निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ ६९ ॥
 नानाभोगसमुत्पन्नमहानन्दसमन्विताः ।
 साङ्‌गनाः परिवारैस्तु सङ्‌घशः परिवारिताः ॥ ७० ॥
 स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
 पुष्परागमयः सालः कुङ्‌कुमारुणविग्रहः ॥ ७१ ॥
 पुष्परागमयी भूमिर्वनान्युपवनानि च ।
 रत्‍नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ ७२ ॥
 प्राकारो यस्य रत्‍नस्य तद्रत्‍नरचिता द्रुमाः ।
 वनभूः पक्षिणश्चैव रत्‍नवर्णजलानि च ॥ ७३ ॥
 मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च ।
 प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ ७४ ॥
 परिभाषेयमुद्दिष्टा रत्‍नसालादिषु प्रभो ।
 तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ ७५ ॥
 दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् ।
 दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ ७६ ॥
 पूर्वाशायां समुत्तुङ्‌गशृङ्‌गा पूरमरावती ।
 नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते ॥ ७७ ॥
 स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
 समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ ७८ ॥
 ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
 देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ ७९ ॥
 देवाङ्‌गनागणयुता शची तत्र विराजते ।
 वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ॥ ८० ॥
 स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
 निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ ८१ ॥
 याम्याशायां यमपुरी तत्र दण्डधरो महान् ।
 स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ ८२ ॥
 निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
 नैर्ऋत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ ८३ ॥
 खड्गधारी स्फुरन्नास्ते निर्ऋतिर्निजशक्तियुक् ।
 वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ ८४ ॥
 महाझषसमारूढो वारुणीमधुविह्वलः ।
 निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ ८५ ॥
 समास्ते वारुणे लोके वरुणानीरताकुलः ।
 वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ ८६ ॥
 वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
 ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ ८७ ॥
 मरुद्‌गणैः परिवृतो निजशक्तिसमन्वितः ।
 उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप ॥ ८८ ॥
 यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
 नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ ८९ ॥
 मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः ।
 मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ ९० ॥
 इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
 ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ ९१ ॥
 अनर्घ्यरत्‍नखचितो यत्र रुद्रोऽधिदैवतम् ।
 मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ ९२ ॥
 स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः ।
 स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः ॥ ९३ ॥
 विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
 दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ ९४ ॥
 दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
 अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः ॥ ९५ ॥
 रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
 रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ ९६ ॥
 नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
 वीरभद्रादिसहितो रुद्रो राजन् विराजते ॥ ९७ ॥
 मुण्डमालाधरो नागवलयो नागकन्धरः ।
 व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ ९८ ॥
 चिताभस्माङ्‌ग लिप्ताङ्‌गः प्रमथादिगणावृतः ।
 निनदड्डमरुध्वानैर्बधिरीकृतदिङ्‌मुखः ॥ ९९ ॥
 अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः ।
 भूतसङ्‌घसमाविष्टो भूतावासो महेश्वरः ।
 ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ १०० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
 द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १० ॥

वर्गःदेवीभागवतपुराणम्