भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०८

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०७ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०८
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०९ →

सप्तमीव्रतवर्णनम्

।। शतानीक उवाच ।। ।।
पुनर्मे ब्रूहि सप्तम्यां प्रीतये भास्करस्य तु ।।
उपोषितो भवतीह नरो यस्तु द्विजोत्तम ।। १ ।।
।। सुमन्तुरुवाच ।। ।।
कथिताः सप्त सप्तम्यः पुनरस्मिन्महामते ।।
बहवः कुरुशार्दूल भूयस्त्वेताः शृणुष्व मे ।। २ ।।
स्वयं याः कथिताः पूर्वमादित्येन खगाधिप ।।
अरुणस्य महाबाहो सप्तम्यः सप्त पूजिताः ।। ३ ।।
अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा ।।
तृतीया निंबपत्रैश्च चतुर्थी फलसप्तमी ।। ४ ।।
अनोदना पञ्चमी स्यात्षष्ठी विजयसप्तमी ।।
सप्तमी कामिका ज्ञेया विधिं तासां निबोध मे ।। ५ ।।
शुक्लपक्षे रविदिने दक्षिणे चोत्तरायणे ।।
ग्रहणे सूर्यनक्षत्रे गृह्णीयात्सप्त सप्तमी ।। ६ ।।
स तां सु ब्रह्मचारी स्याच्छौचयुक्तो जितेन्द्रियः ।।
सूर्यार्चनरतो दांतो जपहोमपरस्तथा ।। ७ ।।
पञ्चम्यामेव पुरुषः कुर्यान्नित्य मनात्मकम् ।।
षष्ठ्यां न मैथुनं गच्छेन्मधुमांसं च वर्जयेत् ।। ८ ।।
अर्कसंपुटकैरेकां तथान्यां मरिचैर्नयेत् ।।
तथापरां निंबपत्रैः फलाख्यायां फलं चरेत् ।। ९ ।।
अनोदनामन्नरहित उपासीत यथाविधि ।।
अहोरात्रं वायुभक्षः कुर्याद्विजयसप्तमीम् ।। 1.208.१० ।।
तथैकां सप्तमीं कृत्वा प्रतिमासं विचक्षणः ।।
कुर्याद्यथाविधि मुदा ततः कुर्वीत कामिकाम् ।। ११ ।।
आसां लिखित्वा नामानि पत्रकेषु पृथक्पृथक् ।।
तानि सर्वाणि पत्राणि क्षिपेदभिनवे घटे ।। १२ ।।
तदर्थं यो न जानाति लोकवाह्योपि वा नरः ।।
तेन ह्युद्धारयेदेकं न कुर्याच्च विचारणाम् ।।१३।।
तेनैव विधिना यस्तु प्रतिमासं च तत्तपः ।।
सप्तैव यावत्सप्तम्यो विज्ञेया सा तु कामिका ।। १४ ।।
इत्येताः सप्त सप्तम्यः स्वयं प्रोक्ता विवस्वता ।।
कुर्वीत यो नरो भक्त्या स यात्यर्कसदो नृप ।। १५ ।।
अर्कसंपुटकैर्वित्तमचलं सप्तपौरुषम् ।।
मरिचैः संगमः स्याद्वै प्रियैः पुत्रादिभिः सदा ।। १६ ।।
सर्वरोगाः प्रणश्यंति निंबपत्रैर्न संशयः ।।
फलैस्तु पुत्रपौत्राश्च दौहित्रश्चापि पुष्कलः ।। १७ ।।
अतो धनं धनं धान्यं सुवर्णं रजतं तथा ।।
तथा पशुर्हिरण्यं च आरोग्यं सततं नृप ।। १८ ।।
उपोष्य विजयां शत्रून्राजञ्जयति नित्यशः ।।
साधयेत्कामदा कामान्विधिवत्समुपासिता ।। १९ ।।
पुत्रकामो लभेत्पुत्रमर्थकामोर्थमक्षयम् ।।
विद्याकामो लभेद्विद्यां राज्यार्थी राज्यमाप्नुयात् ।।
कृत्स्नान्कामान्ददात्येषा कामदा कुरुनन्दन ।। 1.208.२० ।।
नरो वा यदि वा नारी यथोक्तं सप्तमीव्रतम् ।।
करोति नियतात्मा वै स याति परमां गतिम् ।। २१ ।।
न तेषां त्रिषु लोकेषु किंचिदस्तीति दुर्लभम् ।।
ये भक्त्या लोकनाथस्य व्रतिनः संशितव्रताः ।। २२ ।।
व्रतैस्तु विविधैर्वीर तपोभिर्वा सुदुष्करैः ।।
न तत्फलमवाप्नोति यज्ञैर्वा बहुदक्षिणैः ।। २३ ।।
तीर्थाभिषेचनैर्वापि दानहोमार्चनैस्तथा ।।
यत्फलं च पूजयितुं सप्तम्यां प्राप्य मोक्षदम् ।।
मोक्षार्थी पार्थिवश्रेष्ठ यथाह भगवान्रविः ।। २४ ।।
कृत्वादित्यदिने नक्तं भक्त्या संपूजयेद्रविम् ।।
अचलं स्थानमाप्नोति मानवः श्रद्धयान्वितः ।।
सूर्यलोके च नियतं तस्य वासो न संशयः ।। २५ ।।
यस्तु पूजयते भक्त्या सप्तम्यां भास्करं नरः ।।
ब्रह्मेंद्ररुद्रलोकेषु तस्याप्रतिहता गतिः ।।२६ ।।
नांधो न कुष्ठी न क्लीबो न व्यंगो न च निर्धनः ।।
कुले तस्य भवेद्वीर यश्चरेत्सप्तमीव्रतम् ।। २७ ।।
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ।।
भार्यार्थी रूपसंपन्नां स्त्रियं पुत्रांश्च भारत ।। २८ ।।
लोभात्प्रमादान्मोहाच्च व्रतभंगो यदा भवेत् ।।
तदा त्रिरात्रं नाश्नीयात्कुर्याद्वा केशमुंडनम् ।।।२९।।
प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।।
सप्तैव यावत्सप्तम्यो भवंति च खगेश्वर।।1.208.३०।।
अभ्यर्च्य सूर्यसप्तम्यां माल्यधूपादिभिर्नरः ।।
भोजयित्वा द्विजाञ्छक्त्या प्राप्नुयात्स्वर्गमक्षयम्।।३१।।
सप्तम्यां विप्रमुख्येभ्यो हिरण्यं यः प्रयच्छति।।
स तदक्षय्यमाप्नोति सूर्यलोकं च गच्छति ।।३२।।
इतीदं कीर्तितं वीर सप्तमीव्रतमुत्तमम्।।
भूय एवाभिधास्यामि शृणुष्वैकमना नृप ।।३३।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यारुणसंवादे सप्तसप्तमीव्रतवर्णनं नामाष्टाधिकद्विशततमोऽध्यायः ।। २०८ ।।