स्फीतादिति । संचारिणो रोगाः ि श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणितद्वारेणानु प्रविशन्तो दोषाः । पुनः हीन क्रियनिःपौरुषत्वादयो मनुनोक्ता । एतैः समन्वि तात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्तव्या ॥ ५४ ॥ एवं कन्याग्रह्णनियममुक्त्वा कन्यादाने वरनियममाह-
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः।
यलात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ।। ५५ ।।
एतैरेव पूर्वोत्तैर्गुणैयुक्तो दोषेश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यलात्प्रय खेन पुंस्त्वे परीक्षित । परीक्षोपायश्च नारदेन दर्शितः–‘यस्याप्सु प्लवते बीज हादि मूत्रं च फेनिलम् । पुमान्स्यालक्षणैरेतैविपरीतैस्तु पण्ढकः ॥ (हृदिफेनिल मूत्रश्च गुरुशुक्रर्षभस्वर । पुमान्स्यादन्यथा पाण्डुदुश्चिकित्स्यो मुखे भगः ॥ शुभबीजवति क्षेत्रे पुत्राः संतानवर्धनाः । निष्ठा वेिवाहमत्राणां तासां स्यात्सप्तमे पदे ॥') इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः स्मितपूर्वमृद्वभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ इत्यनेन सवर्णा मुख्या दर्शिता । इदानीं काम्ये निलयसंयोगे चानुकल्पो वक्तव्य इत्यत आह-
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते खयम् ।। ५६ ॥
यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमा स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति द्विजातीनां शूद्वाचेदनमिति । नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इति श्रुतेः । अत्र च तत्रायं जायते स्वयमिति हेतुं वदता नैत्यकपुत्रोत्पादनाय काम्य पुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वै३याभार्यानुज्ञाता भवति ॥ ५६ इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणी गृह स्थाश्रमावस्थामात्राभिकाङ्गिणः परिणयनक्रममाह-
तिस्रो वर्णानुपूब्र्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या खा शूद्रजन्मनः ।। ५७ ।।
वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्ययैका । शूद्रस्य तु
१ अयं पाठः क. पुस्तकेऽधिकः. २ सितमृदुपूर्वाभिभाषण क. ३ वैश्याभ्यनुशा ख