पृष्ठम्:Kalidasa's Śakuntala.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

67] पञ्चमो ऽङ्कः w. 27. 8a दृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदादुवोः कुटिलयोरतिलोहिताक्ष्या भगं शरासनमिवातिरुषा समरस्य ।। २४ ।। ॥ प्रकाशम् ॥ भद्रे । प्रथितं दुःषन्तचरितं प्रजासु । नापीदं दृश्यते । शकुन्तला । सुटु । इदाणिं अत्तच्छन्दाणुआरिणी संखुक्त म्हि जा इमस्स 3 पुरुवंसस्स पञ्चएण मुहमहुणो हिअअपत्थरस्स हत्थब्भासं उवगदा । ॥ इति पटान्तेन मुखमावृत्य रोदिति ॥ शाङ्गरवः । इत्थमप्रतिहतं चापलं दहति । अतः समीक्ष्य कर्तव्यं विशेषात्संगतं रहः । अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ २५ ॥ राजा । अयि भोः। किमत्रभवतीवचनसंप्रत्ययादेवास्मान्संभृतदोषैरधिक्षिपथ । शाङ्गरवः । ॥ सासूयम् ॥ श्रुतं भवद्भिरधरोत्तरम् । स्तस्याप्रमाणं वचनं जनस्य । पराभिसंधानमधीयते यै र्विद्येति ते सन्ति किलाप्तवाचः ॥ २६ ॥ राजा । हंहो सत्यवादिन् । अभ्युपगतं तावदस्माभिरेवंविधा एव वयम् । किं पुनरिमामभिसंधाय लभ्यते । 3शाङ्गरवः । विनिपातः । राजा । विनिपातः पौरवैर्लभ्यत इत्यश्रद्धेयमेतत् । शाङ्गरवः । भो राजन् । किमत्रोत्तरोत्तरैः । अनुष्ठितो गुरुनियोगः । संप्रति 6निवर्तामहे वयम् । तदेषा भवतः पत्री त्यज वैनां गृहाण वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८७&oldid=83612" इत्यस्माद् प्रतिप्राप्तम्