५ अध्यायः ] छन्दःशास्त्रम् । पश्चमोऽध्यायः ।। ७१ वृत्तम् । ५ । १ ।। अधिकारोऽयमाशास्त्रपरिसमातेः । यदित ऊध्र्वमनुक्रमिष्यामस्तद् ‘वृत्तम्’ वेदि तव्यम् । तेन प्राक्तनं लौकिकं छन्दोजातं ‘जातिः’ इत्युच्यते । इत उत्तरं च ‘वृत्तम्’ । तथा चोक्तम् ‘पद्य चतुष्पैदी तच वृत्तं जातिरिति द्विधा ।’ (का० द० १।११) गायत्र्यादौ छन्दसेि वर्तत इति ‘वृत्तम्’ । तञ्च स्थिरगुरुलघ्वक्षरविन्यासमेष्यते । पादेन संयोगात् ‘पद्यम्’ । यथा-आर्यादिच्छन्दःखपि पादव्यवस्था नास्तीति पादौ संयुक्ौ, वृते पुनः पृथग्भवत इत्यर्थः । पादेन संयोगाभावात् । तथा चोक्तम् एकदेशस्थिता जातिवृत्तं गुरुलघुस्थितम्’ इति ॥ सममर्धसमं विषमं च । ५ । २ ।। समसर्वावयवत्वात् ‘समम्’ । यस्य चत्वारः पादा एकलक्षणयुक्तास्तत् ‘समं' वृत्तम् । शेषं च संज्ञानुरूपमेव । तत्रार्धे समे यस्य तत् ‘अर्धसमम्’ सर्वावयवेभ्यः । अर्धाभ्यां च विगतं समं यस्य तद् “विषमम्' । एवं त्रिप्रकारमपि वृत्तजातमुक्तम् ॥ समं तावत्कृत्वः कृतमर्धसमम् । ५ । ३ ।। “समम्’ इति समवृत्तसंख्योच्यते । तयैव गुणितं ‘तावत्कृत्वः कृतम्’ उच्यते । एतदुक्तं भवति-समवृत्तसंख्यागुणिते समवृत्तसंख्यायाः पिण्डे या संख्या निष्पद्यते, तावत्संख्य मर्धसमै वेदितव्यम् । तत्र गायत्रे छन्दसि संमट्टलसंख्या.न्नतुःषष्टि (६४) रष्टमाध्याय सिद्धा । तस्यां चतुःषष्टि (६४) संख्यागुणितायामर्धसमवृत्त संख्या संपद्यते-वत्वारि सहस्राणि, षण्नवतिश्च वृत्तानि । अङ्कतोऽपि (६४x६४)=४०९६ ॥ विषमं च,॥ ५ । ४ ।। अर्धसमं तावत्कृत्वः कृतं “विषमं’ भवति । एतदुक्तं भवति-अर्धसमवृत्तसंख्या (४०९६) अर्धसमवृसंख्या(४०९६) एव गुणिता विषमवृत्तसंख्या संपद्यते-एका कोटिः, सप्तषष्टिर्लक्षाणि, सप्तसप्ततिसहस्राणि, द्वे शते, षोडशोत्तरे । अङ्कतोऽपि (४०९६x४०९६)=१६७७७२१६ इति ॥ समसमार्धसमोपचितमधेसूमं विषमं चथाक्रमं समोपचितं समार्धसमाभ्यां चोप विदै वेदितव्यम् ॥ राश्यूनम् ॥ ५ ॥ ५ ॥ तद् विषमं वृत्तं (१६७७७२१६) अर्धसमै (४०९६) वा राश्यूनम् (१६७७७२१६ १. अत्र पादपर्यायः. पदशब्दः । चतुर्णा पदानां समाहारश्चतुष्पदी । चतुष्पीति पद्यलक्षणं प्रायिकत्वादुक्तम्, द्विपदीपञ्चपदीषट्पदीनामपि : दृश्यमानत्वात्-इति तरुण
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१९३
दिखावट