काव्यमाला । आदिमध्यावसानेषु य-र-ता यान्ति लाघवम् । भ-ज-सा गौरवं यान्ति म-नौ तु गुरुलाघवम् ॥ त्रिविरामं दशवर्ण षण्मात्रमुवाच पिङ्गलः सूत्रम् । छन्दोवर्गपदार्थप्रत्यहेतोश्च शास्त्रादौ । इह हेि त्रैवर्णिकानां साङ्गवेदाध्ययनमान्नायते । अर्थावबोधपर्यन्तश्चाध्ययनविधिः । वेदाङ्गं च छन्दः । ततस्तदध्ययनविधित्वात्तदनुष्टयम् । अथ ‘त्रिष्टुभा यजतेि, बृहत्या गायति, गायत्र्या स्तौति' इत्येवमादिश्रवणात् अर्थायातमनुष्टुभादिज्ञानम् । किं च छन्द सामपरिज्ञानात्प्रत्युत प्रत्यवायः श्रूयते । यथा-‘यो ह वा अविदितार्षेयच्छन्दो ब्राह्मणेन मत्रेण याजयति वाध्यापयति वा स्थाणु वच्छंति गर्त वा पद्यते वा त्रियते पापी यान् भवति । यातयामान्यस्य छन्दांसि भवन्ति ।' (छं. ब्रा. ३॥७॥५) तस्माच्छन्दोज्ञानं कर्तव्यं, तदर्थमिदं शास्त्रमारभ्यते । तथा लघुनोपायेन शास्त्रावबोधसिद्धार्थ संज्ञाः परि भाषते सूत्रकारः धीश्रीस्री म् । १ । १ ।। १. छन्द:कोस्तुभे तु ‘मयरसतजभनसंज्ञाश्छन्दस्यष्टों गणात्रिवणोः स्युः । भूम्यम्बुवहिवायुव्योमार्कसुधांशुनाकदेवाते । (महीजलानलान्तकाः खरर्यमेन्दुपजगा फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥' ( १।२४) इति वाणीभूषणोत्क्तरत्र ‘नागदेवा’ ‘’ इति पाठा युक्तः । ना नाकश्च सुखप्रद इति तु समविप्रतिपन्नत्वान्न निर्णयकम् ।) क्रमतः श्रीवृद्धिमृतिप्रयाणरिक्तत्वरुग्यशोमोदान् । यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोकृभ्यः ॥ (चम्पूरामायणटीकायां तु–(१।१) ‘तो द्यौरन्त्यलघुः शुभ’ इत्युक्तम् तन्मूलं न विद्मः ।) सर्वगुरुर्मः कथितो भजसा गुर्वादिमध्यान्ताः । छन्दसि नः सर्वलघुर्यरता लघ्वादिमध्यान्ताः । (यदा दैववशादाद्यो गणो दुष्टफलो भवेत् । तदा तद्दोषशान्त्यर्थ शोध्यः स्यादपरो गणः । वृ. प्र. को. २॥४) तद्यथा मनौ सखायौ कथितौ भयौ भृत्यावुदीरितौ उदासीनौ तौ प्रोक्तौ सरौ शत्रू मताविह ॥ सिद्धिर्भवेत्सखिभ्यां सखिभृत्याभ्यां जयः स्थिरत्वं च । स्याद्रुत्यमित्रभृत्यैः शुभं खपीडा तु मित्रशत्रुभ्याम् । ।
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२४
दिखावट