पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ अध्यायः ] छन्दःशास्त्रम् । धीश्रीस्री इत्यनेन गुरुत्रयं संज्ञित्वेनोपलक्षयति, मकारश्च संज्ञात्वेन । ततश्चायमर्थः सर्वगुरोत्रिकस्य (ऽऽऽ) ‘म’ इति संज्ञा परिभाष्यते । ध्यादीनामुपादानप्रयोजनमुपरि ष्टाद्वक्ष्यामः । मप्रदेशाः विद्युन्माला मौ गौ' (पि०सू० ६॥६) इत्येवमादयः । वरा सा यु । १ । २ ।। वरासा इत्यनेनादिलघोत्रिकस्य (1ऽऽ) 'य' इति संज्ञा परिभाष्यते। यप्रदेशाः 'भुजङ्गप्रयातं यः’ (पि० सू० ६३६) इत्येवमादय ॥ का गुहा र् । १ । ३ ।। कागुहा इत्यनेन मध्यलघोत्रिकस्य (ऽऽ) ‘र’ इति संज्ञा परिभाष्यते । रप्रदेशाः स्रग्विणी रः’ (पि० सू० ६॥३७) इत्येवमादयः । वसुधा स् । १ ।। ४ ।। वसुधा इत्यनेनान्यगुरोत्रिकस्य (॥ऽ) 'स' इति संज्ञा परिभाष्यते । सप्रदेशा ‘तोटकं सः’ (पि० सू० ६॥३१) इत्येवमादयः । अफलमुदासीनाभ्यां शत्रुसखिभ्यां च तद्भवात । शत्रुभ्यां तु विरोधो नायकनाशश्च संप्रोक्तः ॥ शत्रूदासीनाभ्यां हानिरुदासीनभृत्याभ्याम् । अखायत्तिर्गदिता, श्रीनाशः शत्रुभृत्याभ्याम् ॥ क्षयवारभयप्राप्तभवत्युदासानशत्रुभ्याम् । मित्रोदासीनाभ्यामश्रीरिति गणफलान्याहुः ॥ हजधा हितजीवनधनहरा नृपक्रोधकृद्रेफः तनुपीडारुग्त्रणदा घनखा भ इहातिदूरगतिदायी ॥ गणा दुष्टफला राद्या दधवणाश्व हादयः । शुभश्टोकमुखेनैते प्रयोक्तव्याः शुभार्थिभिः ॥ अत्रापवाद उक्त उमापतिना ‘गणफलं हेि कलाविषयेष्वलं विभुतया तदुपायितया तया । वदति कश्चिदितीह न वर्णगे न मृत पुंसि न पुंसि च केचन ॥ गणफलं न हेि काव्यसमूहगे वदति कश्चिदथो सुरवाचके । शिवपरे न परत्र विचारणा लिपिगणेषु फलाफलयोस्ततः ॥’ इति ‘देवतावाचकाः शब्दा य च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिंपेितो गणतोऽपि च ।' इति.