अत एव यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥'(ऋ.सं.८॥४) यज्ञेन वै तद्देवा यज्ञमयजन्त, यदग्निा अन्निमयजन्त, ते खर्ग लोकमायन् । छन्दांसि वै साध्या देवाः तेऽग्रेऽग्निा अन्निमयजन्त ते खर्ग लोकमायन् ॥ आदित्याश्चै वेहासन्नङ्गिरसश्च । ते अग्रे अमिमयजन्त, ते खर्ग लोकमायन् ।’ इलय अन्त एव च। ‘त्राणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्ध संवत्सर स्थाहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥’ इत्यादि श्रूयते । एतदभिप्रायेणैव चैतेषां छन्दसामझेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते । तथा हेि ‘विष्णुमुखा वै देवाश्छन्दोभिरिमांछोकाननपजयमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमांलोकाननपजय्यमभिजयति ।’ इत्येवं विष्णुक्रमपरिक्रमणविधौ “अथावर्तते-सूर्यस्यावृतमन्वावर्त इति । एवमिॉलोकान् समारुह्य, अथैषा गति रेषा प्रतिष्ठा—य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खगों वा लोकः; तदेवमिमॉछोकान् समारुह्य, अथैतां गतिमेतां प्रतिष्ठां गच्छतेि, तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते ।” इति माध्यन्दिना आहुः । तैत्तिरीया अप्येवं –- “ऐन्द्रीमावृतमन्वावर्तते—इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽधै आत्मनो वीर्यावत्तरोऽथो आदित्यस्यैवावृतमनु पर्या चतसृभिरावर्तते—चत्वारि च्छन्दांसि । छन्दांसि खलु वा अमेः प्रिया तनूः प्रिया मेवास्य तनुवमभिपर्यावर्तते ।” इत्याद्यामनन्ति । “सप्त छन्दांसि ऋतुमेकं तन्वन्ती”(म. भा.)त्याद्याः स्मृतयश्चैतदर्थपरा द्रष्टव्याः । एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा. एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥ एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदु पलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशंरीरस्यैकविंशस्य प्रजापतिपुरुषस्य
पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/४३
दिखावट