दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राश्च सम्भवस्तस्य ज्ञानकारित्वात् । न चाज्ञानकार्यत्वं कूटरूपसिद्धेर्युक्तमात्मन एवाज्ञावम् । किंविषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्याचाच ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो
प्रमाणाप्रमाणरूपचैतन्याभासहेतुत्वेन ज्ञानकारित्वादात्मन इत्यर्थः । अनात्मन. इवाशानकार्यत्वलक्षणदोषोऽपि नास्तीत्याह न चाझानकार्यत्वमिति । तस्याकार्यत्वमुभयवादिसम्मतमिति भावः । यञ्चोक्तं तदनपेक्षस्य तस्य निःस्वभावत्वादिति तदप्यत्र नास्तीत्याह अज्ञानानपेक्षस्य चेति । अज्ञानस्य जडत्वात्तत्साधकोऽजडबोधस्वभाव अात्मा तदन्तर्गताकारनिरपेक्षाकारसिद्ध इत्यर्थः । भवत्वेवमात्मनोऽज्ञानाश्रयत्वं तद्विषयत्वं तु न युक्तं ज्ञानेच्छादीनां लोके भिन्नाश्रयविषयत्वदर्शनात्प्रतीयमानाकारेणाज्ञानं प्रत्याश्रयत्वमप्रतीयमानाकारेण विषयत्वमिल्याकारभेदस्यैकस्मिश्रेकरसे वस्तुन्यसम्भवाञ्चेत्याक्षिपति किंविषयमिति । समाधत्त आत्मविषयमिति । मामहं जानामि मामहं न जानामीति च ज्ञानाज्ञानयोरेकाश्रयविषयत्वस्यापि लोके दर्शनादहमितिसाधारणाकारेण प्रतीयमानाकारस्याप्यात्मनोऽद्वितीयानन्दाकारेणाप्रतीयमानस्यानुभवसिद्धत्वादहं मनुष्य इति विभ्रमेऽहमिति साधारणाकारेण प्रतीयमानस्य देहव्यतिरिक्तासाधारणस्वभावेनाप्रतीयमानत्वस्य परैरप्यभ्युपेयत्वादशानस्यैकाश्रयविषयतायां न कश्चिद्दोष इति भावः । उक्तमेवार्थ हेत्वन्तरावष्टम्भेनाक्षिपति नन्वात्मनोऽपीति । ज्ञानाज्ञानयोस्तमःप्रकाशयोरिव परस्परविरुद्धस्वभावत्वाज्ज्ञानस्वभावस्यात्मनो नाशानाश्रयत्वं । तदाश्रयत्वे तन्निवर्तकत्वायोगात्तथाश्रयाश्रयिभावस्य भेद्गर्भत्वादद्वितीये चात्मनि तद्योगाद्शाननिवर्तकप्रमाणशानकारणत्वाञ्चात्मनस्तन्निवर्तकपुष्कलकारणवतः सवितुरिवान्धकाराश्रयत्वस्यासम्भवादसङ्गत्वनित्यमुक्तत्वा-