पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१११

From विकिस्रोतः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १०९ नेवाज्ञानं घटते । घटत एव । कथमम् । अज्ञानमात्रनि दिभ्यञ्ध हेतुभ्यो नाज्ञानाश्रयत्वसम्भव इत्यर्थः । समाधत्ते घटत इति । पूर्वोत्तेषु हेतुषु जीवत्सु समाधानं दुर्घटमित्याक्षिपति कथमिति । तत्र ज्ञानस्वभावत्वशानप्रकृतिकत्वादीनां दूषणानां सर्वैरपि समाधातुं श क्यत्वात्तान्युपेक्ष्यानन्यत्वादित्येतत्समाधत्ते अशानमात्रनिमित्तत्वात्तद्वि भागस्येति । यद्वा । सर्वेषामपि दूषणानां समाधानत्वेनायमेव . ग्रन्थो योजयितुं शक्यते । तथा हि तत्र तावद्यदुक्तं ज्ञानस्वभावत्वादात्मनो ऽज्ञानं नोपपद्यते विरोधादिति तत्र किं प्रमाणज्ञानस्वभावत्वं किंवा नादिनिधनसाक्षिचैतन्यस्वभावत्वमिति विकल्प्याद्य प्रत्याह अज्ञानमा त्रेति । तस्य प्रमातृप्रमेयप्रमितिलक्षणविभागघटितस्वभावस्य प्रमाणज्ञा नस्याज्ञानमात्रनिमित्तत्वेनानादिसिद्धात्मस्वभावत्वासम्भवात् । न हि कल्पितमकल्पितस्य स्वभावः सपत्मतेव रज्ज्वा इत्यर्थः । द्वितीयमपि प्र त्याह अज्ञानमात्रेति । साक्षिचैतन्यस्याज्ञानस्य च भास्यभासकत्वेनाविरो धात्साक्षिण्यध्यासलक्षणसम्बन्धमन्तरेण च तद्भास्यत्वायोगात् । भास्य भासवकविभागस्योक्तन्यायेनात्मसम्बन्ध्यज्ञानमात्रनिमित्तत्वात् । लोके ऽपि यद्यद्धीनसत्ताप्रतीतिकं तत्तस्मिन्नेवाध्यस्तं दृष्टम् । यथा रजस्वाः सपर्यात्मता रज्ज्वामेवाध्यस्ता तद्वदात्माधीनसत्ताप्रतीतिकमज्ञानमात्मन्ये वाध्यस्तमित्यर्थः । यदुक्तमाश्रयाश्रयिभावस्य भेद्गर्भत्वादद्वितीये ब्रह्मणि नायमुपपन्न इति तदपि निरस्यति अज्ञानमात्रेति । परमार्थतोऽद्विती यत्वेऽपि स्वस्मिन्नध्यस्ताज्ञानमात्रनिमित्तत्वादाश्रयाश्रयित्वविभागस्य रज्ज्वाः सपर्यात्मतावत्तस्याज्ञानाश्रयत्वाविरोध इत्यर्थः । यदुक्तं ज्ञानप्रकृ तित्वादसङ्गत्वान्नित्यमुक्तत्वाञ्चात्मनोऽज्ञानमनुपपन्नमिति तदपि निरा चष्टे अज्ञानमात्रेति । रज्जुसर्पयोः प्रकृतिविकारभागस्येवाज्ञानात्मनोः प्र कृतिविकारभागस्याज्ञानमात्रनिमित्तत्वाज्ज्ञानप्रकृतित्वेनैवाज्ञानाश्रयत्व मात्मनः सम्भवति । असङ्गत्वनित्यमुक्तत्वादेश्च वास्तवस्वभावस्याज्ञान मात्रशरीरेण सम्बन्धादिविभागेनाविरोधात्तद्धटत एवात्मन्यज्ञानमिति भावः । एवं सर्वविभागानर्थनिदानमज्ञानमतस्तान्निवृत्तये तृतीयाध्याया