पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


स्यान्मतं व्यतीतानन्तजन्मोपाहतानां कर्मणाम् ।
 क्षयो नित्येन तेषां चेत्प्रायश्चितैर्यथैनसः ।
 निष्फलावान नियेन काम्यादेर्विनिवारणम् ॥ ८२ ॥
५०
 पापापन्तये वाक्यात्प्रायश्चित्तं यथा तथा ।
 गम्यते काम्यहानार्थ नित्यं कर्म न वाक्यतः ॥ ८३ ॥
अथापि स्यात्काम्यैरेव काम्यानां पर्वजन्मोपचितानां
क्षयो भविष्यतीति । तन्न । यतः ।


निषिद्धानां निवृत्तिरस्त्वित्यत अाह न च काम्यैरिति । उपपादितेऽर्थे श्लोकमवतारयति आाहेति । यद्यपि काम्यशब्देन सह समस्तत्वात्कृत्स्रसंत्यागशब्दयोः पदान्तरेण सह संबदुमयोग्यत्वं तथापि निषिद्धकर्मण इत्यनेन कृत्स्रसंत्यागशब्दौ सम्भवात्सम्बध्येते । व्यतीतानन्तजन्मसु कृतस्यानुष्ठितस्य निषिद्धकर्मणश्च कृत्खास्यापि संत्यागो नेष्यतेऽनन्तत्वादेवेत्यर्थः ॥ ८१ ॥

 अस्तु तर्हि तेषां नित्यकर्मणा निवृत्तिरिति शङ्कते स्यान्मतमिति । यथैव प्रतिषिद्धस्य कर्मणः प्रायश्चितैः क्षयो भवत्येवं व्यतीतानन्तजन्मोपार्जितानां काम्यानां प्रतिषिद्धानां च कर्मणां नित्यकर्मभिः प्रक्षयो भविष्यतीत्यर्थः । परिहरति निष्फलत्वादिति । नित्यानां कर्मणां निप्पफलत्वात्काम्यप्रतिषिद्धलक्षणवकर्मक्षयः फलं न भवति तेषामित्यर्थः ॥ ८२ ॥

 उपात्तदुरितक्षयार्थानि नित्यानीति भट्टादिभिरभ्युपगमान्नित्यानां निष्फलत्वमसिद्धमित्याशङ्कय तथापि काम्यकर्मनिवृत्तिस्ततो भवतीत्यत्र प्रमाणं न पश्याम इत्याह प्रमाणाभावाञ्चेति । पापापनुत्तय इति यथा प्रायश्चित्तं पापक्षयनिमित्तमित्यत्र शास्त्रं प्रमाणं नैवं काम्यकर्मक्षयफलत्वे नित्यानां कर्मणां शास्त्रं किंचित्प्रमाणमस्तीत्यर्थः ॥ ८३ ॥ अस्तु तर्हि काम्यैरेव काम्यानां ि नवृत्तिरित्याशङ्कय श्लोकेन परिहरति